स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 299, कुल 474 में से
संदर्भ में पढ़ेंअग्रासनं प्रथमासनम् । अनुपविष्टदशायामपि परस्परसंस्पर्शो
यथा न भवति तथा वर्तितव्यमित्याह गौतमः—
परस्पर्शे भवेत्पापमेकपङ्क्तिनियोगतः ।
हीनवृत्तादिपङ्कौ तु युक्तं तस्माद्विवेचनम् ॥
इति । अत्र यमः—
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत् ॥
इति । भिक्षुकोयतिः । तथाच छागलेयः—
पूजयेच्छ्राद्धकालेऽपि यतिं सब्रह्मचारिणम् ।
विप्रानुद्धरते पापात्पितॄन् मातृगणानपि ॥
वृद्धशातातपोपि—
आतिथ्यरहिते श्राद्धे भुञ्जते ये बुधा द्विजाः ।
वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥
इति । आतिथ्यरहिते अतिथिलक्षणलक्षितविप्रागमनेऽपि तत्पू-
जारहिते । तस्मादुपविष्टब्राह्मणैस्सह सत्यवकाशे तत्समीपे
भिक्षुको ब्रह्मचारी अतिथिश्च पित्रर्थविप्रानुप्रवेशेनैव भोज-
यितव्यः । तथाच पुराणे निमन्त्रितब्राह्मणभोजनं विधायाभि-
हितम्—
शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनि ।
इति । शेषान् निमन्त्रितव्यतिरिक्तानतिथिप्रभृतीन् । एतच्चाति-
थिभोजनमतिथिलक्षणलक्षिते आगते सति द्रष्टव्यं, न पुनः