सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 304, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 304

इति । दर्भासनदानान्तरं गद्यसङ्ग्रहकारः—'ततः पुनरपो
दत्त्वा दैवे क्षणः क्रियतामिति कर्ता, ओं तथेति विप्रो
ब्रूयात् । प्राप्नोतु भवानिति कर्ता पुनर्ब्रूयात् । प्राप्नवानीति
विप्रः पुनर्ब्रूयादिति । एतत्तु निमन्त्रणं ब्राह्मणहस्तमङ्गुष्ठव्य-
तिरिक्तं गृहीत्वा कर्तव्यं—
निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ।
इति पुराणेऽभिधानात् । निरङ्गुष्ठं गृहीत्वा निमन्त्रणे कृते
सत्यनन्तरं विश्वान् देवान् समाह्वयेदित्यर्थः । आवाहनप्रका-
रमाह यमः—
यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ॥
विश्वेदेवाशृणुतेमं मन्त्रं जप्त्वा ततोऽक्षतान् ।
ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम् ॥
इति । श्राद्धकर्ता गृहीतयवः पुरूरवार्द्रवसंज्ञकान् विश्वान्
देवानावाहयिष्यामीति विशेषनाम्ना सामान्यनाम्ना च देवा-
नामावाहनं वैश्वदेवब्राह्मणेभ्यो विज्ञाप्य तैरावाहयेत्यनुज्ञातो
'विश्वेदेवास आगत' इत्यनया ऋचा विश्वान् देवान्
ब्राह्मणेष्वावाह्य यवान् ब्राह्मणस्य दक्षिणपादे सव्यपादे
दक्षिणजानुनि सव्यजानुनि दक्षिणेऽंसे सव्येऽंसे शिरसि च
समारोप्य ब्राह्मणेषु विश्वान् देवानागतान् ध्यात्वा 'विश्वे
देवाश्शृणुत' इति मन्त्रं जपित्वा प्रदक्षिणं दक्षिणपादादि-