स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 301, कुल 474 में से
संदर्भ में पढ़ें[Page Header]
६ तत्सङ्कल्पादिकृत्यम्. 281
श्राद्धं करिष्ये इत्येवं पृच्छेद्दिप्रान् समाहितः ।
कुरुष्वेति च तैरूक्तो दद्याद्दर्भासनं तदा ॥
इति । दर्भासनदानात्पूर्वं 'देवताभ्यः पितृभ्यश्च' इति मन्त्रः
त्रिरावर्तनीयः । तथाच ब्रह्माण्डपुराणे—
देवताभ्यः पितृभ्यश्च तथा योगिभ्य एव च ।
नमस्स्वधायै स्वाहायै नित्यमेव भवत्विति ॥
आद्यासने तु श्राद्धस्य त्रिरावृत्तं जपेत्सदा ।
पठ्यमानमिदं श्रुत्वा श्राद्धकाल उपस्थिते ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।
चशब्दादसुराः पिशाचाः प्रद्रवन्तीति सूचितम् । राक्षसादी-
नामपनुत्तये कर्तव्यानन्तरमाह निगमः—'अपहता इति तिलान्
विकिरेत्' इति ।
अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः ॥
इति मन्त्रलिङ्गादसुरादीनामपहत्यर्थमनेन मन्त्रेण तिलविकिरणं
कर्तव्यमिति गम्यते । श्राद्धे दैवपूर्वकं सर्वमनुष्ठानं राक्षसा
द्यपनुत्तये कर्तव्यमित्याह क्रतुः—
सदैवं भोजयेच्छ्राद्धं तत्पूर्वं च प्रवर्तयेत् ।
अन्यथा ह्यवलुम्पन्ति सदैवासुरराक्षसाः ॥
सदैवं श्राद्धं वैश्वदैविककर्मोपेतम् । सदैव सर्वदैव । मनुरपि—
देवकार्याद्दिजातीनां पितृकार्यं विशिष्यते ।
SMRITI CHA.—VOL. V. 36