स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
160
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
पितॄणां तस्य तृप्तिस्स्याच्छाश्वती साप्तपौरुषी ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् ॥
इति । एषां पूर्वोक्तानां वेदपारगादीनां एषः भिन्नो विप्रव-
र्गः प्रथमः श्रेष्ठः । अनुकल्पः प्रथमकल्पादधमकल्पः । 'मुख्य
स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरसिंहाभिधानात् ।
अयं 'मातामहं मातुलं च' इत्यादिना वक्ष्यमाणः अधमः कल्पः
सदा सद्भिरनुष्ठित इत्यर्थः । गुरुरत्र विद्यागुरुः, न तु पिता ।
विट्पतिः जामाता अतिथिर्वा, अतिथिरित्यन्ये वदन्तीति देव-
स्वामिनाऽभिधानात् । प्रथमकल्पलाभेऽनुकल्पानुष्ठाने तु दोषमाह
स एव—
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥
प्रभुः संपादने समर्थः । साम्पराय उत्तरकालः । 'युद्धायत्योः
साम्परायः ' इत्यमरसिंहाभिधानात् । एवञ्चायमर्थः—साम्पराये
भविष्यत्काले स्वर्गादिकं फलं न विद्यते न सिद्ध्यति । विष्णु-
पुराणेऽप्यनुकल्प उक्तः—
पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्त्रीयमातुलान् ।
पूजयेद्धव्यकव्येन वृद्धाननतिबान्धवान् ॥
161
स्वस्रीयो भागिनेयः। अत्र पितृव्यमृत्विजं च हव्येन पूजयेत्।
गुरुदौहित्रादीतरान् कव्येनेति सम्बन्धः कार्यः। 'षड्भ्यस्तु पुरुषे-
भ्योऽर्वाक्श्राद्धेयास्तु गोत्रिणः' इति षड्भ्योऽर्वाचीनस्य पितृ-
व्यादेः कव्येन पूजनस्यात्रिणा निषेधात्, तथा—
पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः।
न परस्परमर्घ्यास्स्युर्न श्राद्धे ऋत्विजस्तथा॥
ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्याः यद्येते गुणवत्तराः॥
इति हव्येन पूजनीयत्वस्य तेनैव विधानाच्च। यद्याम-
न्त्रयीतेत्यनुवृत्तौ कात्यायनेनोक्तम्—'अभावे शिष्यान् स्वाचा-
र्यान्' इति। अत्रापि वैश्वदेवार्थमिति शेषो द्रष्टव्यः। 'गुण-
वदलाभे सोदर्योपि भोजयितव्यः' इत्यभिधायानन्तरं 'एतेनान्ते-
वासिनो व्याख्याताः' इत्यापस्तम्बेनाभिधानात्। सोदर्योपि
वैश्वदेवस्थाने भोजयितव्यो न पुनः पित्रादिब्राह्मणस्थान
इति हि प्राक्प्रतिपादितम्। तेन अन्तेवासिनामपि तत्स्थान
एव निषेधः। यत्तु पङ्क्तिपावानानुक्त्वा बोधायनेनोक्तं 'तदभावे रहस्यं
ऋचो यजूंषि सामानि श्राद्धमहिमानः तस्मादेवंविदं सपि-
ण्डमप्याशयेत्' इति, तदप्यात्रेयवचनानुरोधाय षड्भ्यः पुरुषे
भ्योऽर्वाचीनसपिण्डविषयं न भवति, किन्तु समानोदकविषयं,
सपिण्डशब्दस्य समानोदकेऽप्युपचारेण प्रयोगसम्भवात्। अ-
त्रिणा तु स्पष्टमुक्तं—
Smriti Cha.—Vol. V 21
162 स्मृतिचन्द्रिकायां
षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युः गोत्रजा अपि ।
इति। अथवा सपिण्डशब्दो मुख्योस्तु, किंतु श्रेष्ठस्य समानोदक-
स्याप्यभावे त्रिभ्यः सपिण्डपुरुषेभ्यः परो यः सपिण्डः श्रेष्ठः
तमाशयेदित्यर्थोऽवगन्तव्यः। तथाच सपिण्ड इत्यनुवृत्तौ गौतमः-
‘भोजयेदूर्ध्वं त्रिभ्यो गुणवन्तं' इति। मनुस्त्वनुकल्पान्तरमाह-
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥
इति । अभिरूपमपि विद्वांसमपीत्यर्थः । काममित्यभिधानात्
अनुकल्पोऽयमिति गम्यते । अयं त्वनुकल्पः पूर्वोक्तानामनु-
कल्पानामभावे द्रष्टव्यः,
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य सङ्ग्रहः ।
नारिं न मित्रं यं विन्द्यात् तं श्राद्धे भोजयेद्द्विजम् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविषु च ॥
इति निन्दार्थवादेन स्वेनैव निषिद्धस्य मित्रस्य ‘कामं श्राद्धेऽर्चये-
न्मित्रं' इति पुनरनुज्ञाभ्युपगमेनानुकल्पादप्यधमत्वावगमात् ।
वसिष्ठोपि सगुणानामनुकल्पानामभावे निर्गुणानामनुकल्पतया
स्वीकारमाह-
अनृशंस्यं परो धर्मो याचते यत्प्रदीयते ।
अयाचतः सीदमानान् सर्वोपायैर्निमन्त्रयेत् ॥
आनृशंस्यं परः उत्कृष्टो धर्मः । तेन सगुणानामनुकल्पाना-
मभावे निर्गुणायापि याचते यत्प्रदीयते तदप्यनुकल्पो भ-
वति । अयाचतस्सीदमानान् अयाचनशीलत एव कारणात्
सीदतो निर्गुणानपि सगुणानामनुकल्पानामलाभे सर्वोपायै
र्यादृशैस्ते निमन्त्रणमभ्युपगच्छन्ति तादृशैरुपायैर्निमन्त्रयेदित्य-
र्थः । सर्वोपायैर्निमन्त्रयेदित्यादरेण निमन्त्रणं वदन् अया-
चनेन सीदतामलाभे याचते प्रदानमिति दर्शयति । एवंविध-
विप्रेषु सदाचारवैकल्यदर्शनेऽपि निन्दा न कार्येत्याह स एव—
युगेयुगे तु ये धर्माः तेषु धर्मेषु ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥
युगेयुगे तु ये धर्माः युगानुरूपाः रागद्वेषादितारतम्यनिब-
न्धना येऽप्यसत्यभाषणादयो दुःस्वभावाः तेषु धर्मेषु ये द्विजाः
तेषां निन्दा न कर्तव्या । युगानुरूपविप्रेष्वपि यथासम्भवं
श्रेष्ठा एव ग्राह्याः । अत एव भविष्यपुराणे अप्रशस्तविप्राणां
दानादावपरिग्राह्यत्वमुक्तम्—
वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः ।
सर्वे ते वृषला ज्ञेया प्राप्तवेदा अपि द्विजाः ॥
न यस्य वेदो न जपो न विद्या च विशां पते ।
स शूद्र इव मन्तव्य इत्याह भगवान्विभुः ॥
अव्रतानाममन्त्राणा मद्यानां च भारत ।
प्रतिग्रहो न दातव्यो न शिला तारयेच्छिलाम् ॥
ब्राह्मणातिक्रमो नास्ति मूर्खे वेदविवर्जिते ।
164 स्मृतिचन्द्रिकायां
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥
वैश्वदेवग्रहणं पञ्चमहायज्ञानामुपलक्षणार्थम् । शिला शिलान्त-
रम् । वेदविवर्जिते भोजनाद्यप्रदानेऽपि नास्ति ब्राह्मणातिक्रम
इत्यर्थः । एतदत्यन्तासम्बन्धिब्राह्मणविषयम् । कथञ्चित्सम्ब-
न्धिब्राह्मणविषयेऽपि तत्रैवोक्तं—
गायत्रीमात्रसारोपि ब्राह्मणः पूज्यतां गतः ।
गृहासनो विशेषेण न भवेत्पतितस्स चेत् ॥
गृहासनः प्रातिवेश्यादिः । विशेषेणेति वदन् कथञ्चित्सम्ब-
न्ध्यपि नातिक्रमणीय इति दर्शयति । श्रेष्ठसन्निकृष्टातिक्रमे तु
षट्त्रिंशन्मते दोष उक्तः—
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात्त्रिपुरुषं कुलम् ॥
यस्तु सन्निकृष्टोऽनधीयानः तस्यातिक्रमेऽपि न दोषः । तथाच
तत्रैवोक्तं—
यस्य त्वेकगृहे मूर्खो दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥
व्यतिक्रमो व्यतिक्रमदोषो नास्तीत्यर्थः । मूर्खग्रहणं निर्गुण-
स्याप्युपलक्षणार्थम् ।
व्यतिक्रान्तुर्न दोषोस्ति निर्गुणं प्रति कर्हिचित् ।
इति भविष्यपुराणेऽभिधानात् । यत्पुनः पुराणान्तरेऽभिहितं—
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतिताहते ।
श्राद्धकाण्डे ग्राह्या ब्राह्मणाः 165
दूरस्थं भोजयेन्मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मात्सम्पूजयेदेनं गुणं तस्य न चिन्तयेत् ।
केवलं चिन्तयेज्जातिं न गुणान्विततान् सदा ॥
संनिकृष्टं द्विजं यस्तु युक्तजातिं प्रियंवदम् ।
मूर्खं वा पतितं वाऽपि वृत्तहीनमथापि वा ॥
नातिक्रमेन्नरो विद्वान् दारिद्र्याभिहतं तथा ।
इति, तत् अनुकल्पतयाच्छरीरतस्सन्निकृष्टदौहित्रजामात्रादिविष-
यम् । पूर्वोक्तं तु देशतस्सन्निकृष्टप्रातिवेश्यादिविषयमिति न
विरोधः । अतएव शरीरतस्सन्निकृष्टमेकमुदाहृत्योक्तं मनुना—
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
इति । व्रतस्थं व्रतमात्रस्थं अध्ययनरहितमिति यावत् । द्विवि-
धसन्निकृष्टविषयेऽपि गुणादिभिश्श्रेष्ठेऽतिक्रान्ते सति भवत्येव
दोषः । तदप्युक्तं पुराणे—
सप्त पूर्वान् सप्त परान् पुरुषानात्मना सह ।
अतिक्रम्य द्विजवरं नरके पातयेत् खग ॥
तस्मान्नातिक्रमेत् प्राज्ञः ब्राह्मणान् प्रातिवेशिकान् ।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पतिं तथा ॥
भागिनेयं विशेषेण तथा बन्धून् खगाधिप ।
नातिक्रमेन्नरस्त्वेतानमूर्खानपि गोपते ॥
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ।
इति । अमूर्खानपीत्यपिशब्दः पादपूरणार्थः ।
166 स्मृतिचन्द्रिकायां
अज्ञातकुलनामानं तत्कालं समुपस्थितम् ।
बुभुक्षुमागतं श्राद्धं याचमानमकिञ्चनम् ॥
ब्राह्मणं प्राहुरतिथिम् ................ ।
इत्युक्तातिथिलक्षणलक्षितोऽपि विप्रो नातिक्रमणीयः ॥
अतिथैर्यस्य नाश्नाति तच्छ्राद्धं न प्रशस्यते ।
इति शातातपस्मरणात् । अतिथेरप्यासन्नस्यैव गुणविद्यापरी-
क्षणं न कर्तव्यम् । तथा पुराणं—
अविज्ञातं द्विजं श्राद्धे न परीक्षेतसदा बुधः ।
सिद्धा हि विप्ररूपेण चरन्तीह महीतले ॥
अविज्ञातं अविज्ञातकुलनामादिकमतिथिमिति यावत् । सिद्धाः
विदितात्मतत्त्वाः ॥
इति स्मृतिचन्द्रिकायां श्राद्धभोजनीय-
ब्राह्मणनिरूपणम्.
अथ भोजनीयतयोक्तश्रोत्रियादिब्राह्मणेषु
ये दोषसद्भावाद्ध्वर्ज्यास्ते निरूप्यन्ते.
अत्र मनुः—
ये स्तेनाः पतिताः क्लीबाः ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥
जटिलं चानधीयानं दुर्बालं कितवं तथा ।
याजयन्ति च ये पूगान् तांश्च श्राद्धे न भोजयेत् ॥
श्राद्धकाण्डे वर्ज्या ब्राह्मणा
चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्यास्स्युर्हव्यकव्ययोः ॥
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च ॥
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥
भृतकाध्यापको यश्च भृतकाध्यापितश्च यः ।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोळकौ ॥
अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ।
ब्राह्मैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥
पित्रा विवदमानश्च केकरो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥
धनुश्शराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
मित्रध्रुक् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥
भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ।
उन्मत्तोऽन्धश्च वर्ज्यास्स्युर्वेदनिन्दक एव च ॥
हस्तिगोश्वोष्ट्रदमको नक्षत्रैयश्च जीवति ।
168
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
गृहसं वेशको दूतो वृक्षारोपक एवच ॥
श्वक्रीडी श्येनजीवीच कन्यादूषक एवच ।
हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥
औरभ्रको माहिषकः परपूर्वापतिस्तथा ।
प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः ॥
एतान्विगर्हिताचारानपाङ्क्तेयान्नराधमान् ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥
इति । अत्र यद्यद्व्याख्यागम्यं तत्तद्व्याख्यायते—स्तेना ब्रा-
ह्मणसुवर्णव्यतिरिक्तद्रव्यापहर्तारः, ब्राह्मणस्वर्णहर्तॄणां पतित
पदेनैव वर्ज्यत्वस्याभिधानात् । स्वकर्मत्यागिनो वा स्तेनाः ।
ये व्यपेताः स्वकर्मभ्यः स्तेनास्ते परिकीर्तिताः ।
इति यमस्मरणात् । पतिता महापातकिनः । क्लीबास्तु षड्विधाः
देवलेन दर्शिताः—
षण्डको वातजश्चैव षण्डः क्लीबो नपुंसकः ।
कीलकश्चेति षोढाऽयं क्लीबभेदो विभाषितः ॥
षण्डकादीनां लक्षणं स्वयमेव दर्शयति—
तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत् ।
श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 169
पुमान् भूत्वा स्वलिङ्गानि पश्चाच्छिन्द्यातथैव च ॥
वातजो नाम षण्डः स्यात् स्त्रीषण्डो वाऽपि नामतः ।
असल्लिङ्गोऽथ षण्डस्स्यात् षण्डस्तु म्लानमेहनः ॥
अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ।
स कीलक इति ज्ञेयो यः कैब्यादात्मनः स्त्रियम् ॥
अन्येन सह संयोज्य पश्चात्तामेव सेवते ।
इति । नास्ति लोकान्तरफलदं कर्म नास्ति देवतेत्यादिमतिमन्तो
नास्तिकाः । तेभ्यो वृत्तिर्जीवनं येषां श्रोत्रियादीनां ते ना-
स्तिकवृत्तयः । जटिलो ब्रह्मचारी अनधीयानो वेदाध्ययन-
रहितः । नन्वनधीयानजटिलस्य अश्रोत्रियत्वेन प्राप्त्यभावा-
दयुक्तः प्रतिषेधः । उच्यते—
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
इत्यनेनानुकल्पतया भोजनीयब्राह्मणेषु दौहित्रः ब्रह्मचारी
व्रतमात्रस्थः अनधीयानोपि भोजनीयतयोक्तः । तत्र दौहित्रग्र-
हणमतन्त्रमिति भ्रान्त्या कथञ्चित्प्राप्तोत्र निषिध्यत इति नातीव
व्यर्थः । केचित्-अनधीयानगृहस्थस्याश्रोत्रियस्यापि प्राप्त्यर्थ-
मित्याहुः । तदयुक्तं,
वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः ।
भोजयेद्धव्यकव्येन विपरीतांस्तु वर्जयेत् ॥
इति विशेषेण वर्ज्यतयोक्तस्य गृहस्थस्य प्राप्त्यसम्भवात् ।
दुर्बालः खल्वाटकः, कपिलकेशो वा अत्यन्तकोपनो वा ।
SMRITI CHA.—VOL. V. 22
170 स्मृतिचन्द्रिकायां
तदेतत्सर्वं सङ्ग्रहकारेणोक्तं—
निश्चिताध्ययनेनैव गुणेन स्वीकृतोऽखिलः ।
मूर्खो यो ब्रह्मचारी तु जटिलस्तं न भोजयेत् ॥
दौहित्रादिवदत्रापि भ्रान्त्या प्राप्तो निषिध्यते ।
ईदृशस्य गृहस्थस्य प्राप्त्यर्थमपरे विदुः ॥
तन्न युक्तमविद्वांश्च गृहस्थश्च निरुध्यते ।
खल्वाटकश्च दुर्वालः कपिलश्चण्ड एव वा ॥
इति । पूगयाजकाः बहूनां प्रत्येकं याजकाः । श्राद्धग्रहण-
मत्र दैवेऽभ्यनुज्ञानार्थम् । दैवस्यापि प्रदर्शनार्थत्वे तु व्य-
र्थमेव स्यात् । पूर्वापरपर्यालोचनयैव दैवे पित्र्ये च प्रतिषेधा-
वगतेः । अत एव सङ्ग्रहकारः—
दुर्वालादीन् श्राद्ध एव सूत्रेणाह च गौतमः ।
इति । मन्वादीनां मतत्वेनेति शेषः । तथाच ब्राह्मणपरीक्षा-
धिकारे गौतमः—'हविष्षु चैवं दुर्वालादीन् श्राद्ध एवैके'
हविष्षु दैवेऽपि च एवं पित्र्यवत् परीक्ष्य दुर्वालादीन् विवर्ज-
येत् । एके तु मन्वादयः दुर्वालादीन् न पित्र्ये भोजयेत् न
पुनर्देवेऽपीति मन्यन्त इति । चिकित्सका वृत्त्यर्थं धर्मार्थं
च । तैत्तिरीयकश्रुतौ—'तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो
ह्येषोऽमेध्यो यो भिषक्' इत्यविशेषेण भिषजो निन्दादर्श-
नात् । देवलकस्य स्वरूपं देवलेन दर्शितं—
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ।
स वै देवलको नाम हव्यकव्येषु गर्हितः ॥
देवकोशोपजीवी तु नाम्ना देवलको भवेत् ।
अपाङ्क्तेयस्स विज्ञेयः सर्वकर्मसु सर्वदा ॥
इति । विपणो वाणिज्यं, तेनानापद्यपि जीवन्तो ब्राह्मणाः
विपणजीविनः । विपणजीवितयैव प्रतिषिद्धस्य मांसविक्र-
यिणः पुनः प्रतिषेधोऽत्यन्तवर्ज्यत्वख्यापनार्थः । तेन अध्य-
यनादिविक्रयिणां श्रोत्रियादीनामनुकल्पतयोपादेयत्वमवगम्यते ।
अथवा आपद्यपि मांसविक्रयिणो वर्ज्याः । प्रेष्यः परिचा-
रकः । कुनखी स्वभावादेव मृतनखः । श्यावदन्तः स्वभावा-
त्कृष्णदन्तः । अनयोः पुराकृतकर्मशेषसम्बन्धादेव प्रतिषेधः ।
गुरोः प्रतिरोद्धा स्पर्धी । त्यक्ताग्निः शास्त्रोक्तत्यागकारणम-
न्तरेण त्यक्तश्रौतस्मार्ताग्निः । वार्धुषिकः स्वल्पवृद्ध्या धनमा-
दाय अधिकवृद्ध्या पुरुषान्तरे धनप्रयोक्ता, स्वल्पमूल्येन पण्यं
क्रीत्वा तद्विक्रयेण बहुमूल्यसाधको वा । तथाच स्मृतिः—
समार्धं धनमुद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
समार्घं पण्यमादाय महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
यक्ष्मी क्षयरोगी । पशुपालः अनापदि पाशुपाल्यवृत्त्युपजीवी
ब्राह्मणः । परिवेत्तृपरिवित्त्योस्स्वरूपं मनुना स्वेनैव प्रदर्शितं—
दारामिहोत्रसम्बन्धं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥
अग्निहोत्रशब्देनाग्निहोत्राद्युत्तरक्रतुप्रयोज्यमाधानमुक्तम् । उक्तं च
साक्षाद्गर्गेण—
सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसङ्ग्रहम् ।
आवसथ्यं तथाऽऽधानं पतितस्तु तथा भवेत् ॥
आवसथ्यमावसथ्याधानं, दायविभागकाले क्रियमाणमौपा-
सनाधानमिति यावत् । विवाहकाले क्रियमाणौपासनाग्नेश्च
‘न कुर्याद्दारसङ्ग्रहम्’ इत्यनेनैवार्थान्निरास्तत्वात् । अतः,
औपासनं समादध्यात्स्वकाले परिवेदयन् ।
इति ब्रह्मगर्भवचनेऽपि स्वकालशब्देन दायविभागकाल उक्तः,
न तु विवाहकालोपीत्यवगन्तव्यम् । आधानं गार्हपत्याद्याधा-
नम् । पतितो भवेत् उपपातकी भवेदित्यर्थः । उपपातकि-
परिगणनवचने परिवेत्तृपरिवित्त्योः कीर्तितत्वात् । सोदर्यग्र-
हणादसोदर्ये तिष्ठति ज्येष्ठे कनिष्ठस्य दारसङ्ग्रहादौ कृतेऽपि
न पातित्यदोष इति गम्यते । शातातपेन तु असोदर्यविषये
दोषाभावः साक्षादुक्तः—
पितुः पुत्राश्च सापत्नाः परनारीसुतास्तथा ।
दारामिहोत्रसंयोगे न दोषः परिवेदने ॥
इति । सापत्नाः असोदरभ्रातरः । परनारीसुताः स्वपित्रा पर-
क्षेत्रे उत्पादिताः द्व्यामुष्यायणभूताः । पितृव्यपुत्रादिषु ज्ये-
ष्ठेषु दाराग्निहोत्रसंयोगरहितेषु तिष्ठत्स्वपि कनिष्ठेन दाराग्नि-
होत्रसंयोगे कृते परिवेदनदोषो नास्तीत्यर्थः । परनारीपुत्र-
ग्रहणं दत्तपुत्रादेरपि प्रदर्शनार्थम् । अत एव यमः—
पितृव्यपुत्रान् सापत्नान् परपुत्रांस्तथैव च ।
दाराग्निहोत्रधर्मेषु नाधर्मः परिविन्दतः ॥
परपुत्राः दानक्रयादिना स्वपितुः पुत्रत्वमापन्नाः भ्रातरः ।
सोदर्ये ज्येष्ठे दाराग्निहोत्रसंयोगरहिते तिष्ठति परिवेदने क-
च्चिद्दोषो नास्तीत्याह शातातपः—
क्लीबे देशान्तरस्थे च पतिते भिक्षुकेऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥
भिक्षुकः परिव्राजकः । योगशास्त्राभियुक्तो विरक्तः । का-
त्यायनोपि—
देशान्तरस्थक्लीबैकवृषणांश्च सहोदरान् ।
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥
जडमूकन्धबधिरकुब्जवामनखोडकान् ।
अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्य च ॥
धनवृद्धिप्रसक्तांश्च कामतोकारिणस्तथा ।
कुहकोन्मत्तचोरांश्च परिविन्दन्न दुष्यति ॥
खोडकः भग्नचरणद्वयः । अभार्याः नैष्ठिकब्रह्मचारिणः । का-
मतोकारिणः स्वेच्छयैव विवाहानिवृत्तिकारिणः । अत्र ये वि-
वाहेऽनधिकारिणः क्लीवादयः तेषां कालप्रतीक्षणाभावेनापि
नास्ति परिवेदनदोषः । ये तु विवाहाधिकारिणो देशान्तरस्थवि-
रक्तवेश्यातिसक्तशूद्रतुल्यातिवृद्धकृषिसक्तराजधनवृद्धिप्रसक्तकाम-
तोकारिकुहकचोराः, तेषां कालप्रतीक्षणेन परिवेदने तु न
दोषः । तत्र देशान्तरस्थे अष्टवर्षादिकालः प्रतीक्षणीय इत्याह
वसिष्ठः—
'अष्टौ दश द्वादश वर्षाणि ज्येष्ठभ्रातरमनिविष्टम्
प्रतीक्षमाणः प्रायश्चित्ती भवति'
इति । देशान्तरगतस्य विवाहादावधिकारसम्भवादित्यभिप्रायः ।
अनिविष्टमकृतविवाहमित्यर्थः । अत्र द्वादशवर्षप्रतीक्षणं धर्मार्थं
वाऽर्थार्थं वा देशान्तरगते ज्येष्ठे द्रष्टव्यम् । तथाच स्मृतिः—
द्वादशैव तु वर्षाणि ज्यायान्धर्मार्थयोर्गतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनःपुनः ॥
भ्राता सहोदरः । धर्मार्थयोरिति विद्याया अपि प्रदर्शनार्थम् ।
अतएव गौतमेन 'नष्टे भर्तरि' इति प्रक्रम्य 'द्वादश वर्षाणि
ब्राह्मणस्य विद्यासम्बन्धेन' इति भार्यायाः भर्तृप्रतीक्षणकाल-
मुक्त्वा उक्तं 'भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्नयाधेयेषु'
इति । नष्टे भर्तरि कुत्र गत इत्यज्ञाते भर्तरि अत्यन्तदूरदेशान्तर-
गत इति यावत् । द्वादशवर्षाणि ब्राह्मणस्य विद्यासंबन्धेन
ब्राह्मणस्य भर्तुः विद्याग्रहणार्थं देशान्तरगमने सति भार्यया
द्वादशवर्षाणि प्रतीक्षणीयानीत्यर्थः । भ्रातरीति । ज्येष्ठे भ्रातरि
अकृतविवाहे अकृताग्नयाधेये वा विद्याग्रहणार्थं देशान्तरगते
[Header] श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 175
कनिष्ठो भ्राता कन्यापरिग्रहे अग्रचाधाने चैवं द्वादश वर्षाणि प्र-
तीक्ष्य तदुपरि प्रवर्तेतेत्यर्थः । कार्यान्तरार्थदेशान्तरगतविषये तु अ-
ष्टौ दश वेति पक्षद्वयम् । अत्रेदं विवक्षितम्-देशान्तरगतस्याभिल-
षितकार्यं निर्वर्त्य प्रत्यागमनयोग्यकालेऽप्यनागतस्य इह लोके
स्थितिसन्देहेन विवाहसम्भावनानिवृत्तौ न परिवेदनं दोषावह-
मिति । एवमेव विरक्तवेश्यातिसक्तादिष्वपि तत्तत्स्वभावस्य
द्वादशवर्षादिचिरकालानुवृत्त्या विवाहसम्भावनानिवृत्तौ परि-
वेदनं न दोषावहमित्यभिप्रायो वेदितव्यः । अनेनैवाभिप्रायेण
सुमन्तुनाऽप्युक्तम्—
व्यसनासक्तचित्तो वा नास्तिको वा तथाऽग्रजः ।
कनीयान् धर्मकामस्तु आधानमथ कारयेत् ॥
आधानग्रहणं विवाहस्या
[Page Header: 176 स्मृतिचन्द्रिकायां]
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि ॥
आधानाधिकार्यप्यग्रजो यदा आधानादिविधिमतिक्रम्याना-
हिताग्निर्यावज्जीवमास्त इति कनिष्ठस्य निश्चयः तदा तदनु
मतिं लब्ध्वाऽऽधानं कुर्यादित्यर्थः । अयमेवार्थः सुमन्तुनाऽ
प्युक्तः—
ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् ।
अनुज्ञातो हि कुर्वीत शङ्खस्य वचनं यथा ॥
ज्येष्ठभ्रातृग्रहणं पितुरपि प्रदर्शनार्थम् । तथाच स एव—
पितुर्यस्य तु नाधानं कथं पुत्रस्तु कारयेत् ।
अग्निहोत्राधिकारोस्ति शङ्खस्य वचनं यथा ॥
पितृग्रहणं पितामहस्यापि प्रदर्शनार्थम् । अत एवोशना—
पिता पितामहो यस्य अग्रजो वाऽथ कस्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥
पूर्वोक्त एव विषये सत्यामनुज्ञायामेतदपि वचनं द्रष्टव्यम् ।
मन्त्रशब्दो वेदोपलक्षणार्थः । तथाच शातातपः--
नाग्नयः परिविन्दन्ति न वेदा न तपांसि च ।
न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिका ॥
यथा वेदांस्तपांसि श्राद्धं च अधिकृत्य ज्येष्ठे अध्ययनतप
श्श्राद्धराहित्येन स्थितेऽपि तदनुज्ञामन्तरेणापि कनिष्ठेनानुष्ठि-
तानि परिवेदनहेतवो न भवन्ति, तथाऽग्नयोपि ज्येष्ठादनभ्य-
नुज्ञया कनिष्ठेनाहिता इत्यर्थः । या च कन्या विरूपिकेत्य-
श्राद्धकाण्ड वर्ज्या ब्राह्मणाः
स्याय॒मर्थः— विवाहाधिकारिण्यां ज्येष्ठायां कन्यायां विरू-
पायां अनूढायां स्थितायां तदनुज्ञां विनाऽपि कनिष्ठाया विवाहा-
दिकालातिक्रमभीत्या कृतो विवाहो न दोषायेति । एवं चैवं-
विधविषयव्यतिरिक्तविषये कन्यास्वपि परिवेदने वरपरिवेदनो-
क्तं सर्वमनुसन्धेयम् । अनुजस्य तु ज्येष्ठभ्रात्रनुज्ञायाऽपि विवा-
ह्दोषोऽस्तीत्याह हारीतः—
सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया ॥
विवाहादावधिकारिभूतज्येष्ठेनानुज्ञातसोदरविषयमेतत्—‘दारैस्तु
परिविद्यन्ते’ इति । वृद्धयाज्ञवल्क्यस्तु ज्येष्ठोऽपि कदाचिदा-
धानेन परिवेत्ता भवतीत्याह—
आवसथ्यमनाहृत्य त्रेतायां यः प्रवर्तते ।
सोऽनाहिताग्निर्भवति परिवेत्ता तथोच्यते ॥
इति । अयमर्थः—यथा दायविभागकाले औपासनाधानं यस्य
स्वगृह्योक्तं, असौ तदकृत्वा ब्रह्मौदनपाकं निर्मन्ध्याग्निना कृत्वा
गार्हपत्याद्याधानं यदि कुरुते सोऽनाहिताग्निर्भवति । प्रथमाधाने
निर्मन्ध्याग्निना ब्रह्मौदनपाकस्याशास्त्रार्थतया गार्हपत्यादिश-
ब्दवाच्यालौकिकसंस्कारस्यानुत्पत्तेः । तथाच प्रथममाधेयमौपा-
सनाग्निमनाधाय गार्हपत्याद्याधानकरणात्परिवेत्तेत्यपि गीयत
इत्यलं परिवेत्तृपरिवित्तिशब्दार्थकथनप्रपञ्चेन ॥
निराकृतिशब्दार्थस्तु देवलेन दर्शितः—
SMRITI CHA.—VOL. V. 23
अधीत्य विस्मृते वेदे भवेद्विप्रो निराकृतिः ।
इति । कात्यायनस्त्वन्यथा निराकृतिशब्दार्थमाह—
यस्त्वाधायाग्निमालस्याद्देवादीनिह नेष्टवान् ।
निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः ॥
इति । ब्रह्मद्विट् ब्राह्मणानां द्वेष्टा । परिवित्तिशब्दस्तु परिवे-
त्तृशब्दव्याख्यानावसरे व्याख्यातः । गणः मद्यपायी ब्राह्मणा-
दिः, तन्मध्यगो गणाभ्यन्तरः । कुशीलवो गायकनर्तकादिः ।
अवकीर्णिनमाह देवलः—
गूढलिङ्ग्यवकीर्णी स्यात् यश्च भग्नव्रतस्तथा ।
इति । गूढलिङ्गी दण्डमेखलादिब्रह्मचारिलिङ्गत्यागी । भग्नव्रतः
स्त्र्युपगमेन स्खलितब्रह्मचर्यः ।
व्रती यस्त्रियमभ्येति सोऽवकीर्णी निरुच्यते ।
इति यमस्मरणात् । वृषलीपतिरपि देवलेन दर्शितः —
वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
यस्त्वेतामुद्वहेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ॥
कन्यावस्थायां या रजस्वला जाता तां य उद्वहेत् तमश्राद्धेयं
अपाङ्क्तेयं वृषलीपतिं विद्यादित्यन्वयः । एवञ्च तृतीयवृषली-
पतिरेवात्र मनुनोक्त इति मन्तव्यम् । पुनर्भूः द्विरूढा तस्याः यो
द्वितीयविवाहे सति पतिः तेन तस्यामुत्पादितः पुत्रः पौनर्भवः ।
[श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 179]
काण एकचक्षुः । ' यस्य चोपपतिर्गृहे' इत्येतद्देवलेन स्पष्टीकृतं-
परदाराभिगो मोहात्पुरुषो जार उच्यते ।
स एवोपपतिर्ज्ञेयो यस्सदा संवसेद्गृहे ॥
वेतनेन भृत उपाध्यायो भृतकः । स्वार्थे कप्रत्ययः । भृतकश्चासा-
वध्यापकश्चेति भृतकाध्यापकः । भृतकेनाध्यापकेनाध्यापित-
श्शिष्यो भृतकाध्यापितः । एतावुपपातकिनौ ।
भृतकाध्यापको यश्च भृतकाध्यापितश्च यः ।
तावुभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥
इति देवलस्मरणात् । पतितौ उपपातकिनावित्यर्थः । उपपातक-
मध्ये एतयोरपि गणनात् । शूद्रस्य शिष्यः शूद्रशिष्यः । गुरुः
शूद्रस्येति शेषः, तस्य बुद्धिस्थत्वात् । वाग्दुष्टः कात्यायनेन
दर्शितः-
हुंकारं हसनं चैव लोके यच्च विगर्हितम् ।
अनुकुर्यादनुब्रूयाद्वाग्दुष्टं तं नरं विदुः ॥
कुण्डगोलकौ स्वेनैव मनुना दर्शितौ-
परदारेषु जायेते द्वौ सुतौ कुण्डगोळकौ ।
जीवे भर्तरि कुण्डस्स्यान्मृते भर्तरि गोळकः ॥
समब्राह्मणभूताभ्यां जायापतिभ्यामुत्पादितः सुतो ब्राह्मणो
भवति, न पुनर्ब्राह्मणभूतजारेण ब्राह्मणजातीयजारिण्यां समु-
त्पादितः ।
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।