स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 192, कुल 474 में से
संदर्भ में पढ़ेंदारामिहोत्रसम्बन्धं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥
अग्निहोत्रशब्देनाग्निहोत्राद्युत्तरक्रतुप्रयोज्यमाधानमुक्तम् । उक्तं च
साक्षाद्गर्गेण—
सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसङ्ग्रहम् ।
आवसथ्यं तथाऽऽधानं पतितस्तु तथा भवेत् ॥
आवसथ्यमावसथ्याधानं, दायविभागकाले क्रियमाणमौपा-
सनाधानमिति यावत् । विवाहकाले क्रियमाणौपासनाग्नेश्च
‘न कुर्याद्दारसङ्ग्रहम्’ इत्यनेनैवार्थान्निरास्तत्वात् । अतः,
औपासनं समादध्यात्स्वकाले परिवेदयन् ।
इति ब्रह्मगर्भवचनेऽपि स्वकालशब्देन दायविभागकाल उक्तः,
न तु विवाहकालोपीत्यवगन्तव्यम् । आधानं गार्हपत्याद्याधा-
नम् । पतितो भवेत् उपपातकी भवेदित्यर्थः । उपपातकि-
परिगणनवचने परिवेत्तृपरिवित्त्योः कीर्तितत्वात् । सोदर्यग्र-
हणादसोदर्ये तिष्ठति ज्येष्ठे कनिष्ठस्य दारसङ्ग्रहादौ कृतेऽपि
न पातित्यदोष इति गम्यते । शातातपेन तु असोदर्यविषये
दोषाभावः साक्षादुक्तः—
पितुः पुत्राश्च सापत्नाः परनारीसुतास्तथा ।
दारामिहोत्रसंयोगे न दोषः परिवेदने ॥
इति । सापत्नाः असोदरभ्रातरः । परनारीसुताः स्वपित्रा पर-
क्षेत्रे उत्पादिताः द्व्यामुष्यायणभूताः । पितृव्यपुत्रादिषु ज्ये-