स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 184, कुल 474 में से
संदर्भ में पढ़ें164 स्मृतिचन्द्रिकायां
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥
वैश्वदेवग्रहणं पञ्चमहायज्ञानामुपलक्षणार्थम् । शिला शिलान्त-
रम् । वेदविवर्जिते भोजनाद्यप्रदानेऽपि नास्ति ब्राह्मणातिक्रम
इत्यर्थः । एतदत्यन्तासम्बन्धिब्राह्मणविषयम् । कथञ्चित्सम्ब-
न्धिब्राह्मणविषयेऽपि तत्रैवोक्तं—
गायत्रीमात्रसारोपि ब्राह्मणः पूज्यतां गतः ।
गृहासनो विशेषेण न भवेत्पतितस्स चेत् ॥
गृहासनः प्रातिवेश्यादिः । विशेषेणेति वदन् कथञ्चित्सम्ब-
न्ध्यपि नातिक्रमणीय इति दर्शयति । श्रेष्ठसन्निकृष्टातिक्रमे तु
षट्त्रिंशन्मते दोष उक्तः—
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात्त्रिपुरुषं कुलम् ॥
यस्तु सन्निकृष्टोऽनधीयानः तस्यातिक्रमेऽपि न दोषः । तथाच
तत्रैवोक्तं—
यस्य त्वेकगृहे मूर्खो दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥
व्यतिक्रमो व्यतिक्रमदोषो नास्तीत्यर्थः । मूर्खग्रहणं निर्गुण-
स्याप्युपलक्षणार्थम् ।
व्यतिक्रान्तुर्न दोषोस्ति निर्गुणं प्रति कर्हिचित् ।
इति भविष्यपुराणेऽभिधानात् । यत्पुनः पुराणान्तरेऽभिहितं—
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतिताहते ।