सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 188, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 188

168
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
गृहसं वेशको दूतो वृक्षारोपक एवच ॥
श्वक्रीडी श्येनजीवीच कन्यादूषक एवच ।
हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥
औरभ्रको माहिषकः परपूर्वापतिस्तथा ।
प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः ॥
एतान्विगर्हिताचारानपाङ्क्तेयान्नराधमान् ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥
इति । अत्र यद्यद्व्याख्यागम्यं तत्तद्व्याख्यायते—स्तेना ब्रा-
ह्मणसुवर्णव्यतिरिक्तद्रव्यापहर्तारः, ब्राह्मणस्वर्णहर्तॄणां पतित
पदेनैव वर्ज्यत्वस्याभिधानात् । स्वकर्मत्यागिनो वा स्तेनाः ।
ये व्यपेताः स्वकर्मभ्यः स्तेनास्ते परिकीर्तिताः ।
इति यमस्मरणात् । पतिता महापातकिनः । क्लीबास्तु षड्विधाः
देवलेन दर्शिताः—
षण्डको वातजश्चैव षण्डः क्लीबो नपुंसकः ।
कीलकश्चेति षोढाऽयं क्लीबभेदो विभाषितः ॥
षण्डकादीनां लक्षणं स्वयमेव दर्शयति—
तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत् ।