स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 190, कुल 474 में से
संदर्भ में पढ़ें170 स्मृतिचन्द्रिकायां
तदेतत्सर्वं सङ्ग्रहकारेणोक्तं—
निश्चिताध्ययनेनैव गुणेन स्वीकृतोऽखिलः ।
मूर्खो यो ब्रह्मचारी तु जटिलस्तं न भोजयेत् ॥
दौहित्रादिवदत्रापि भ्रान्त्या प्राप्तो निषिध्यते ।
ईदृशस्य गृहस्थस्य प्राप्त्यर्थमपरे विदुः ॥
तन्न युक्तमविद्वांश्च गृहस्थश्च निरुध्यते ।
खल्वाटकश्च दुर्वालः कपिलश्चण्ड एव वा ॥
इति । पूगयाजकाः बहूनां प्रत्येकं याजकाः । श्राद्धग्रहण-
मत्र दैवेऽभ्यनुज्ञानार्थम् । दैवस्यापि प्रदर्शनार्थत्वे तु व्य-
र्थमेव स्यात् । पूर्वापरपर्यालोचनयैव दैवे पित्र्ये च प्रतिषेधा-
वगतेः । अत एव सङ्ग्रहकारः—
दुर्वालादीन् श्राद्ध एव सूत्रेणाह च गौतमः ।
इति । मन्वादीनां मतत्वेनेति शेषः । तथाच ब्राह्मणपरीक्षा-
धिकारे गौतमः—'हविष्षु चैवं दुर्वालादीन् श्राद्ध एवैके'
हविष्षु दैवेऽपि च एवं पित्र्यवत् परीक्ष्य दुर्वालादीन् विवर्ज-
येत् । एके तु मन्वादयः दुर्वालादीन् न पित्र्ये भोजयेत् न
पुनर्देवेऽपीति मन्यन्त इति । चिकित्सका वृत्त्यर्थं धर्मार्थं
च । तैत्तिरीयकश्रुतौ—'तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो
ह्येषोऽमेध्यो यो भिषक्' इत्यविशेषेण भिषजो निन्दादर्श-
नात् । देवलकस्य स्वरूपं देवलेन दर्शितं—