सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 180, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 180

160
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
पितॄणां तस्य तृप्तिस्स्याच्छाश्वती साप्तपौरुषी ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् ॥
इति । एषां पूर्वोक्तानां वेदपारगादीनां एषः भिन्नो विप्रव-
र्गः प्रथमः श्रेष्ठः । अनुकल्पः प्रथमकल्पादधमकल्पः । 'मुख्य
स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरसिंहाभिधानात् ।
अयं 'मातामहं मातुलं च' इत्यादिना वक्ष्यमाणः अधमः कल्पः
सदा सद्भिरनुष्ठित इत्यर्थः । गुरुरत्र विद्यागुरुः, न तु पिता ।
विट्पतिः जामाता अतिथिर्वा, अतिथिरित्यन्ये वदन्तीति देव-
स्वामिनाऽभिधानात् । प्रथमकल्पलाभेऽनुकल्पानुष्ठाने तु दोषमाह
स एव—
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥
प्रभुः संपादने समर्थः । साम्पराय उत्तरकालः । 'युद्धायत्योः
साम्परायः ' इत्यमरसिंहाभिधानात् । एवञ्चायमर्थः—साम्पराये
भविष्यत्काले स्वर्गादिकं फलं न विद्यते न सिद्ध्यति । विष्णु-
पुराणेऽप्यनुकल्प उक्तः—
पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्त्रीयमातुलान् ।
पूजयेद्धव्यकव्येन वृद्धाननतिबान्धवान् ॥