स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 189, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे वर्ज्या ब्राह्मणाः 169
पुमान् भूत्वा स्वलिङ्गानि पश्चाच्छिन्द्यातथैव च ॥
वातजो नाम षण्डः स्यात् स्त्रीषण्डो वाऽपि नामतः ।
असल्लिङ्गोऽथ षण्डस्स्यात् षण्डस्तु म्लानमेहनः ॥
अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ।
स कीलक इति ज्ञेयो यः कैब्यादात्मनः स्त्रियम् ॥
अन्येन सह संयोज्य पश्चात्तामेव सेवते ।
इति । नास्ति लोकान्तरफलदं कर्म नास्ति देवतेत्यादिमतिमन्तो
नास्तिकाः । तेभ्यो वृत्तिर्जीवनं येषां श्रोत्रियादीनां ते ना-
स्तिकवृत्तयः । जटिलो ब्रह्मचारी अनधीयानो वेदाध्ययन-
रहितः । नन्वनधीयानजटिलस्य अश्रोत्रियत्वेन प्राप्त्यभावा-
दयुक्तः प्रतिषेधः । उच्यते—
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
इत्यनेनानुकल्पतया भोजनीयब्राह्मणेषु दौहित्रः ब्रह्मचारी
व्रतमात्रस्थः अनधीयानोपि भोजनीयतयोक्तः । तत्र दौहित्रग्र-
हणमतन्त्रमिति भ्रान्त्या कथञ्चित्प्राप्तोत्र निषिध्यत इति नातीव
व्यर्थः । केचित्-अनधीयानगृहस्थस्याश्रोत्रियस्यापि प्राप्त्यर्थ-
मित्याहुः । तदयुक्तं,
वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः ।
भोजयेद्धव्यकव्येन विपरीतांस्तु वर्जयेत् ॥
इति विशेषेण वर्ज्यतयोक्तस्य गृहस्थस्य प्राप्त्यसम्भवात् ।
दुर्बालः खल्वाटकः, कपिलकेशो वा अत्यन्तकोपनो वा ।
SMRITI CHA.—VOL. V. 22