सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 185, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 185

श्राद्धकाण्डे ग्राह्या ब्राह्मणाः 165

दूरस्थं भोजयेन्मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मात्सम्पूजयेदेनं गुणं तस्य न चिन्तयेत् ।
केवलं चिन्तयेज्जातिं न गुणान्विततान् सदा ॥
संनिकृष्टं द्विजं यस्तु युक्तजातिं प्रियंवदम् ।
मूर्खं वा पतितं वाऽपि वृत्तहीनमथापि वा ॥
नातिक्रमेन्नरो विद्वान् दारिद्र्याभिहतं तथा ।
इति, तत् अनुकल्पतयाच्छरीरतस्सन्निकृष्टदौहित्रजामात्रादिविष-
यम् । पूर्वोक्तं तु देशतस्सन्निकृष्टप्रातिवेश्यादिविषयमिति न
विरोधः । अतएव शरीरतस्सन्निकृष्टमेकमुदाहृत्योक्तं मनुना—
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
इति । व्रतस्थं व्रतमात्रस्थं अध्ययनरहितमिति यावत् । द्विवि-
धसन्निकृष्टविषयेऽपि गुणादिभिश्श्रेष्ठेऽतिक्रान्ते सति भवत्येव
दोषः । तदप्युक्तं पुराणे—
सप्त पूर्वान् सप्त परान् पुरुषानात्मना सह ।
अतिक्रम्य द्विजवरं नरके पातयेत् खग ॥
तस्मान्नातिक्रमेत् प्राज्ञः ब्राह्मणान् प्रातिवेशिकान् ।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पतिं तथा ॥
भागिनेयं विशेषेण तथा बन्धून् खगाधिप ।
नातिक्रमेन्नरस्त्वेतानमूर्खानपि गोपते ॥
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ।
इति । अमूर्खानपीत्यपिशब्दः पादपूरणार्थः ।