स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 181, कुल 474 में से
संदर्भ में पढ़ें161
स्वस्रीयो भागिनेयः। अत्र पितृव्यमृत्विजं च हव्येन पूजयेत्।
गुरुदौहित्रादीतरान् कव्येनेति सम्बन्धः कार्यः। 'षड्भ्यस्तु पुरुषे-
भ्योऽर्वाक्श्राद्धेयास्तु गोत्रिणः' इति षड्भ्योऽर्वाचीनस्य पितृ-
व्यादेः कव्येन पूजनस्यात्रिणा निषेधात्, तथा—
पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः।
न परस्परमर्घ्यास्स्युर्न श्राद्धे ऋत्विजस्तथा॥
ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्याः यद्येते गुणवत्तराः॥
इति हव्येन पूजनीयत्वस्य तेनैव विधानाच्च। यद्याम-
न्त्रयीतेत्यनुवृत्तौ कात्यायनेनोक्तम्—'अभावे शिष्यान् स्वाचा-
र्यान्' इति। अत्रापि वैश्वदेवार्थमिति शेषो द्रष्टव्यः। 'गुण-
वदलाभे सोदर्योपि भोजयितव्यः' इत्यभिधायानन्तरं 'एतेनान्ते-
वासिनो व्याख्याताः' इत्यापस्तम्बेनाभिधानात्। सोदर्योपि
वैश्वदेवस्थाने भोजयितव्यो न पुनः पित्रादिब्राह्मणस्थान
इति हि प्राक्प्रतिपादितम्। तेन अन्तेवासिनामपि तत्स्थान
एव निषेधः। यत्तु पङ्क्तिपावानानुक्त्वा बोधायनेनोक्तं 'तदभावे रहस्यं
ऋचो यजूंषि सामानि श्राद्धमहिमानः तस्मादेवंविदं सपि-
ण्डमप्याशयेत्' इति, तदप्यात्रेयवचनानुरोधाय षड्भ्यः पुरुषे
भ्योऽर्वाचीनसपिण्डविषयं न भवति, किन्तु समानोदकविषयं,
सपिण्डशब्दस्य समानोदकेऽप्युपचारेण प्रयोगसम्भवात्। अ-
त्रिणा तु स्पष्टमुक्तं—
Smriti Cha.—Vol. V 21