स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
श्राद्धकाण्डे अधिमासविषयाणि 107
इति। गृह्यपरिशिष्टेऽपि-
मलं वदन्ति कालस्य मासं कालविदोऽधिकम्।
नेहेतात्र त्वशेषेज्यामन्यत्रावश्यकाद्विधेः ॥
इति। अनेनावश्यको विधिरधिकमासेऽनुष्ठेय इत्यर्थादुक्तं भव-
ति। उक्तं च साक्षादपि तत्रैव-
अवषट्कारहोमाश्च पर्व चाग्रयणं तथा।
मलमासे तु कर्तव्यं........................॥
इति। अवषट्कारहोमाः अग्निहोत्रौपासनवैश्वदेवादयः। पर्व
दर्शपूर्णमासौ, पार्वणस्थालीपाकश्च। आग्रयणमाग्रयणेष्टिः।
यद्यप्याग्रयणं 'वर्षासु श्यामाकैर्यजेत' इति मासद्वयात्मकव-
र्षाख्यतौ विहितं तत् अमलिम्लुचमासेऽपि तत्कालसम्भवा-
दनन्यगतिकं न भवति। तथाऽपि दुर्भिक्षे नवश्यामाकव्यतिरि-
क्तधान्यासम्भवे जीवनार्थं नवश्यामाकान्नभोजनमकृताग्रयणेना-
कर्तव्यमित्याग्रयणानुष्ठानं जीवनार्थमावश्यकमिति युक्तमुक्तमा-
ग्रयणं तथेति। यदा तु दुर्भिक्षाभावादनावश्यकं तदाऽधि-
मासे नवश्यामाकाग्रयणं न कर्तव्यम्। अनेनैवाभिप्रायेण पै-
ठीनसिना-
सङ्क्रान्तिरहिते मासि कुर्यादाग्रयणं न वा।
इति विकल्प उक्तः। अन्यान्यपि कानिचित् मलिम्लुचे
कार्याणीत्युक्तानि यमेन-
108 स्मृतिचन्द्रिकायां
गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥
तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिः ।
जातकर्मान्तकर्माणि नवश्राद्धं तथैव च ॥
मखात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ।
चन्द्रसूर्यग्रहे स्नानं श्राद्धं दानं जपादिकम् ॥
कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ।
इति । गर्भे गर्भनिमित्तके गर्भमात्रप्रयुक्त्या विहिते पुंसवन-
सीमन्तादिक इति यावत् । वार्धुषिके—
अशीतिभागो वृद्धिस्यात् मासि मासि सबन्धके ।
इत्यादिवचनोक्तवृद्धिग्रहणे । भृत्ये संवत्सरादिपर्यन्तकालकृते
भृत्ये । मासिके श्राद्धकर्मणि, अमावास्याश्राद्धकर्मणीत्यर्थः ।
अन्ये तु मन्यन्ते—अमावास्याश्राद्धं त्रयोदशेऽपि मासि ऋश्य
शृङ्गवचनेन निषिद्धम्, तेन मासिकशब्दो नामावास्याश्राद्ध-
माह, किंतु प्रथमसंवत्सरविहितमासिकश्राद्धमाहेति । ऋश्य-
शृङ्गवचनं चैवं पठन्ति—
संवत्सरातिरेको वै मासो यस्यात्त्रयोदशः ।
तस्मात्त्रयोदशे श्राद्धं न कुर्यादिन्दुसंक्षये ॥
इति । अपरे तु—
तस्मात्त्रयोदशं श्राद्धं न कुर्यान्नोपतिष्ठते ।
इति पठन्ति । अयमेव पाठो युक्तः । इन्दुसंक्षय इति पाठे पि
ण्डपितृयज्ञवत्तदनन्तरमवश्यानुष्ठेयस्यामावास्याश्राद्धस्य प्रतिषेधा-
नर्हस्य प्रतिषेधप्रसङ्गात्,
जातकर्मणि यच्छ्राद्धं दर्शश्राद्धं तथैव च ।
प्रतिसंवत्सरं यच्च पूर्वमासे प्रकीर्तितम् ॥
इति वचनविरोधप्रसङ्गाच्च । तस्मात् ‘श्राद्धकर्मणि मासिके’
इत्यनेन अमावास्याश्राद्धमुक्तमिति व्याख्यानमेव युक्तम् ।
ऋष्यशृङ्गवचनार्थ उपरिष्टाद्भविष्यति । नित्ये नित्यदाने । हो-
मोऽत्रौपासनहोमः, ‘यवव्रीहितिलादिभिः’ इति तत्र होतव्य-
द्रव्यानुवादात् । अन्त्यकर्माणि दहनोदकपिण्डदानास्थिसञ्चय-
नादीनि । शेषं व्यक्तम् । जातकर्मग्रहणं जातश्राद्धादेरुपल-
क्षणार्थम् । अत एव स्मृत्यन्तरम्—
श्राद्धजातकनामानि ये च संस्कारसव्रताः ।
मलिम्लुचेऽपि कर्तव्या इष्टीः काम्याश्च वर्जयेत् ।
संस्काराः अन्नप्राशननिष्क्रमणादयः । सव्रता जनार्दनशयना-
दारभ्य यावदुत्थानं धारणपारणादिकं करिष्यामीत्येवं स-
ङ्कल्पसहिताः । काम्या इति ग्रहणं काम्यपशुबन्धादिकर्मो-
पलक्षणार्थम्, सर्वेषामपि काम्यानामनावश्यकत्वेन वर्जनीय-
त्वात् । अत एव हारीतः—
अधिमासे न कर्तव्यं श्राद्धमभ्युदयं तथा ।
तथैव काम्यं यत्कर्म.................... ॥
इति । यत्काम्यं कर्म इष्ट्यादिकं तत्सर्वमधिमासे न कर्तव्य-
110 स्मृतिचन्द्रिकायां
मित्यर्थः । आभ्युदयिकं श्राद्धं चूडाकरणात्प्राक्तनसंस्कारेषु
विहिताभ्युदयिकश्राद्धव्यतिरिक्तं द्रष्टव्यं, जातकर्मोदौ विशे-
षेणाभ्युदयिकश्राद्धविधानस्य पूर्वमेव प्रदर्शितत्वात् । अन्या-
न्यापि च वर्ज्यान्याह वृद्धमनुः—
अग्नयाधेयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥
माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् ।
बाले वा यदि वा वृद्धे शुक्रे चास्तमुपागते ॥
मलमास इवैतानि वर्जयेद्देवदर्शनम् ।
इति । 'अग्नयाधेयं प्रतिष्ठां च यज्ञदानव्रतानि च' इत्यत्र
अनावश्यकत्वे सतीति विशेषो द्रष्टव्यः । तेन मलमासेऽपि
प्रायश्चित्तभूतमग्नयाधेयमग्न्यनुगत्यनन्तरं कर्तव्यं न प्रतिषिध्यते ।
एवं प्रतिमादिनाशे पुनःप्रतिष्ठा न प्रतिषिध्यते । एवं प्राय-
श्चित्तभूतसंसर्गेष्ट्यादियज्ञो न प्रतिषिध्यते । यद्यत्प्रायश्चित्ते
देयमिति प्रायश्चित्तदानं च 'ब्राह्मणं तु वसत्यै नापरुन्ध्यात्'
इत्यादिव्रतं च । वृषोत्सर्गस्य नैकादशाहिकस्य प्रतिषेधः,
षोडशश्राद्धादिवत्तस्यापि प्रेतोपकारकत्वात् । शुक्रास्तमयादाव-
प्यनावश्यकत्वे सत्येव अग्नयाधेयादि प्रतिषिध्यते । मलमास
इत्येवाभिधानात् । 'वर्जयेद्देवदर्शनम्' इति प्रतिषेधः प्रथ-
मदर्शनविषय एवेत्याहुः । हारीतोपि—
श्राद्धकाण्डे अधिमासविषयाणि 111
...............वत्सरात्प्रथमादृते ।
सपिण्डीकरणादूर्ध्वं यत्किञ्चिच्छ्राद्धकं भवेत् ॥
इष्टं वाऽप्यथ वा पूर्तं तन्न कुर्यान्मलिम्लुचे ।
इति । सपिण्डीकरणादूर्ध्वं यत्प्रथमसंवत्सरे प्रतिमासं पुनः
क्रियमाणं त्रैपुरुषिकं मासिकं श्राद्धं तन्मलिम्लुचेऽपि मासे
कार्यमिति वक्तुं 'वत्सरात्प्रथमादृते' इत्युक्तम् । अस्मिन्नेव
विषये वासिष्ठोपि—'संवत्सरमध्येऽधिमासो भवेत् मासिकार्थं
दिनमेकं वृद्धिं नयेत्' इति । स्मृत्यन्तरेऽपि—
संवत्सरे विवृद्धेऽपि प्रतिमासं च मासिकम् ।
इति । सपिण्डीकरणात्प्राक् क्रियमाणमासिकविषये तु गभस्ति-
नोक्तम्—
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
तत्कार्यं पूर्वमासे च कालाधिक्येऽपि धर्मतः ॥
इति । चशब्दादुत्तरमासेऽपि कार्यमिति गम्यते । तदेतत् सपि-
ण्डीकरणात्प्राक्तनमासिकविषयं, एकोद्दिष्टरूपमासिकविषयत्वा-
त् । यत्तु ऋश्यशृङ्गेणोक्तम्—
संवत्सरातिरेको यो मासश्चैव त्रयोदशः ।
असुराणां तु मासौसौ तस्माद्देवविगर्हितः ॥
तस्मात्त्रयोदशं श्राद्धं न कुर्यान्नोपतिष्ठते ।
इति, तत् सपिण्डीकरणात्प्राक्तनमासिकेषु · सपिण्डीकरणा-
त्प्राक्कथञ्चिदकृतेषु वचनबलात्सपिण्डीकरणादूर्ध्वमनुष्ठातव्येष्वे-
कोद्दिष्टेषु प्रतिमासं क्रियमाणेषु त्रयोदशे मासि प्राप्तमासि-
कश्राद्धविषयम् । विगर्हिते मासि प्रतिप्रसवमन्तरेण क्रिय-
माणं यतो नोपतिष्ठते अतस्त्रयोदशं श्राद्धं न कुर्यादित्यर्थः ।
अस्य वचनस्योक्ता विषयव्यवस्था देवस्वामिना दर्शिता—
‘यस्य तारतम्याच्छीघ्रतरमुपस्थिते पिण्डपितृयज्ञादौ देशका-
लानुरोधतो द्रव्यब्राह्मणाभावात् षोडशश्राद्धान्यकृत्वा संव-
त्सरादर्वाक् सपिण्डीकरणं कृतं, तस्य कृतेऽपि सपिण्डीकरणे—
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ।
इति वाक्यात् यदा त्रयोदशं श्राद्धं प्राप्तमासिकाख्यं प्रे-
तश्राद्धं तदनेन ऋष्यशृङ्गवाक्येन निषिध्यते’ इति ग्रन्थेन ।
एवंच त्रयोदशमासशालिनि संवत्सरे प्रमीतस्य मासिकानि
श्राद्धानि त्रयोदश भवन्ति । यदा तु द्रव्यब्राह्मणाद्यलाभेन
सपिण्डीकरणादूर्ध्वमेव मासिकश्राद्धानि क्रियन्ते तदा तानि
द्वादश भवन्तीति मन्तव्यम् । एवञ्च यत्कैश्चिदुक्तं—संवत्स-
रविमोकान्तमानुमासिकानि कुर्वन्मलमासे नैव कुर्यादुत्तरे कु-
र्यादेव । संवत्सरान्ते सपिण्डीकरणं संवत्सरविमोकं च
यथाकालं मासिकानि कुर्वन्नपि मलमासे नैव कुर्यादुत्तरे
कुर्यादेवेति, तत्
‘मासिकार्थं दिनमेकं वृद्धिं नयेत्’
संवत्सरे विवृद्धेऽपि प्रतिमासं च मासिकम् ।
पूर्वमासे च कर्तव्यं कालाधिक्येऽपि धर्मतः ॥
श्राद्धकाण्डे अधिमासविषयाणि 113
इति वचनद्वयादर्शननिबन्धनमित्युपेक्षणीयम् । मासिकश्राद्धा-
भिप्रायेण वृद्धवसिष्ठेनाप्युक्तम्-
श्राद्धीयाहनि संप्राप्ते अधिमासो भवेद्यदि ।
श्राद्धद्वयं प्रकुर्वीत एवं कुर्वन्न मुह्यति ॥
इति । श्राद्धद्वयं प्रकुर्वीत अधिमासे तदुत्तरमासे च मासि-
कश्राद्धं प्रकुर्वीतेत्यर्थः । यत्तु ज्योतिःपराशरेणोक्तम्-
उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ पराः कार्याः वर्जयित्वा तु पैतृकम् ॥
इति, पराः कार्याः उत्तरे मासि कार्या इत्यर्थः । तत्र
प्रसवाहोत्सवशब्देन जातेष्टिरेव गृह्यते । न पुनराभ्युदयिकं
श्राद्धं जातकर्म च, तयोरपि ग्रहणे-
श्राद्धजातकनामानि ये च संस्कारसत्रताः ।
मलिम्लुचेऽपि कर्तव्या इष्टीः काम्याश्च वर्जयेत् ॥
इति स्मृतिविरोधापत्तेः । पैतृकशब्देन सांवत्सरिकरूपं गृह्यते
न तु सामान्यम् ।
प्रतिसंवत्सरश्राद्धे नाधिमासं विवर्जयेत् ।
मलमासेऽपि कर्तव्यं श्राद्धं यत्प्रतिवत्सरम् ॥
प्रतिसंवत्सरं यच्च पूर्वमासे प्रकीर्तितम् ।
इत्यादिवचनेषु तस्यैव स्पष्टमभिधानात् । सर्वाण्येतानि वच-
नानि मलमासमृतस्य पुनर्मलमासप्राप्तौ द्रष्टव्यानि,
SMRITI CHA.--VOL. V. 15
114 स्मृतिचन्द्रिकायां
मासपक्षतिथिस्पृष्टे यो यस्मिन्म्रियतेऽहनि ।
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥
इति स्मरणात् । एवञ्च मलमासमृतस्य मलमाससम्भवे
सति मलमासस्पृष्ट एव मृतहः तथाभूतो न तु शुद्धमासस्पृष्ट
इति मलमासगतक्षयाह एवाब्दिकश्राद्धं कर्तव्यम् । न तु
शुद्धमासगतक्षयाहे, अतथाभूतत्वात् । मलमासासम्भवे तु
गुणलोपन्यायात् मलमासास्पृष्टेऽपि क्षयाहे मृताहश्राद्धं कर्त-
व्यमेवेत्यवगन्तव्यम् । यत्तु सत्यव्रतेनोक्तं—
वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि ।
मलमासे न कर्तव्यं व्याघ्रस्य वचनं यथा ॥
इति, तत् अधिकमासादन्यत्र मृतस्य मृताहश्राद्धविषयम् ।
शुद्धे मासि मृतस्य शुद्धमासस्पृष्ट एव मृताहः तथाभूतो न
तु मलमासस्पृष्टः, मलमासगतक्षयाहस्याविहितकालत्वात् । अत
एव पैठीनसिः—
मलमासे मृतानां तु श्राद्धं यत्प्रतिवत्सरम् ।
मलमासे तु कर्तव्यं नान्येषां तु कथञ्चन ॥
इति । अन्येषां मलमासादन्यत्र मृतानामित्यर्थः । मलमासेऽ-
पि कर्तव्यं तत्रैव विहितकालसद्भावादित्यभिप्रायः । भृगुरपि—
'मलमासमृतानां तु श्राद्धं यत्प्रतिवत्सरम् ।
मलमासेऽपि तत्कार्यं नान्येषां तु कथञ्चन ॥
श्राद्धकाण्डे अधिमासविषयाणि
यत्तु वृद्धवासिष्ठेनोक्तम्—
श्राद्धीयाहनि संप्राप्ते अधिमासो भवेद्यदि ।
श्राद्धद्वयं प्रकुर्वीत एवं कुर्वन्न मुह्यति ॥
इति, न तत् सांवत्सरिकश्राद्धविषयं, सांवत्सरिकश्राद्धे उत्तरे
मासि मलमासस्पृष्टक्षयाहासम्भवात् । तेन मासिकश्राद्धविष-
यमेतद्वचनम् । एवञ्च मासिकश्राद्धं मलमासे उत्तरमासे च
कार्यम् । सांवत्सरिकं त्वन्यतरमासे, तत्र मलमासमृताना-
माद्यमासे तदन्यमासमृतानामुत्तरे मासीत्यनुसन्धेयम् । 'ना-
न्येषां तु कथञ्चन' इति योऽयं प्रतिषेधः स तु प्रथमाब्दि-
कव्यतिरिक्तविषयः, प्रथमाब्दिकस्य मलमासे वचनबलेन कर्त्त-
व्यत्वात् । तथाच हारीतः—
असङ्क्रान्तेतु कर्तव्यमाब्दिकं प्रथमं द्विजैः ।
इति । स्मृत्यन्तरेऽपि—
आब्दिकं प्रथमं यत् स्यात्तत्कुर्वीत मलिम्लुचे । इति.
त्रयोदशे च संप्राप्ते कुर्वीत पुनराब्दिकम् ॥
पुनराब्दिकं प्रथमाब्दिकं त्रयोदशे उत्तरे मासि संप्राप्ते कु-
र्वीतेत्यर्थः । लघुहारीतोऽपि—
प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया द्विजैः ।
क्वचित्त्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम् ॥
पिण्डक्रिया मृताहश्राद्धक्रिया द्वादशे मासि परिपूर्णे सति
116 स्मृतिचन्द्रिकायां
त्रयोदशे मासीति यावत् । क्वचिदधिमासयुक्तसंवत्सरे त्र-
योदशे मासि परिपूर्णे सति चतुर्दशे मास इति यावत् ।
आद्यमाब्दिकं त्वधिमासवत्यपि संवत्सरे द्वादशे मासि परि-
पूर्णे सति कार्यम्, त्रयोदशे मासि कार्यमित्यर्थः । यत्तु
शातातपेनोक्तं—
एकसंज्ञौ यदा मासौ स्यातां संवत्सरे क्वचित् ।
तत्राद्ये पितृकार्याणि देवकार्याणि चोत्तरे ॥
इति, यच्च पैठीनसिना—
द्वौ मासावेकनामानौ स्यातां संवत्सरे यदि ।
पूर्वे तु पितृकार्याणि देवकार्याणि चापरे ॥
इति, तत् येषां पितृकार्याणां मलिम्लुचे विधिः, येषां च
देवकार्याणामुत्तरे मासि विधिः, तथाविधपितृदेवकार्यपर
मित्यवगन्तव्यम् । यद्यप्यसङ्क्रान्तिः सङ्क्रान्तिद्वययुतो वा संस-
र्पसंज्ञोऽंहस्पतिसंज्ञश्च मासः कदाचिच्चैत्रादर्वाग्भवति, तथाऽ-
पि तत्र न पूर्वोक्तविधिनिषेधवचनानि विधायकानि निषेध-
कानि वा, तेषां वचनानामधिमासविषयत्वात् । न च संस-
र्पाहस्पतिसंज्ञकावधिमासौ
चैत्रादर्वाङ्गाधिमासः परतस्त्वधिको भवेत् ।
दृष्टा हि सर्वशास्त्रेषु तस्मिन्मूर्तिस्त्रयोदशी ॥
इति वचनेन चैत्रात्परत एवाधिमासस्मरणात् । तस्मिन्
चैत्रादुत्तरत्रैव त्रयोदशी मूर्तिरधिमासमूर्तिः सर्वगणितशास्त्रेषु
यतो दृष्टेत्यर्थः । एवञ्च संसर्पोंहस्पतिसंज्ञकौ न कर्मानर्हका-
लौ किंतु प्रशस्तावेवेति मन्तव्यम् ॥
इति स्मृतिचन्द्रिकायां अधिमासविषयाणि.
अथान्यान्यपि मृताहविषयाणि कानिचिद्वचनानि
लिख्यन्ते.
तत्र गर्गः—
विवाहादौ स्मृतस्सौरो यज्ञादौ सावनस्मृतः ।
आब्दिके पितृकार्येऽपि चान्द्रमासः प्रशस्यते ॥
यज्ञादौ माससंवत्सरसाध्ययज्ञव्रतप्रायश्चित्तक्रियादिष्वित्यर्थः ।
तत्र माससाध्ययज्ञाः ‘दर्शपूर्णमासाभ्यां यजेत, मासं वैश्व-
देवेन’ इत्येवमादिवाक्यैः विहिताः । माससाध्यव्रतानि मा-
सोपवासादीनि । माससाध्यप्रायश्चित्तक्रियास्तु—
गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतः ।
[L
118 स्मृतिचन्द्रिकायां
त्कार्ये षाण्मासिकश्राद्धादौ । अपिशब्दान्माससंवत्सरसाध्ये
यज्ञव्यतिरिक्ते सर्वस्मिन् देवकार्ये चान्द्रो मासः प्रशस्यत
इत्युक्तम् । उक्तं च पितामहेन—
दैवे कर्मणि पित्र्ये च मासश्चान्द्रमसः स्मृतः ।
इति । कः पुनर्भेदश्चान्द्रसावनसौराणामित्यपेक्षिते ब्रह्मसिद्धान्त
उक्तं—
दर्शादर्शश्चान्द्रस्त्रिंशद्दिवसस्तु सावनो मासः ।
रविसङ्क्रान्तिकचिह्नस्सौरो मासो निगद्यते तज्ज्ञैः ॥
अस्यार्थः स्मृत्यन्तरे स्पष्टीकृतः—
चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशौ रविर्यावत्कालं मासस्स भास्करः ॥
शुक्लप्रतिपदादिदर्शान्तश्चान्द्रो मास इत्येतद्दक्षिणापथे द्रष्टव्यम् ।
उत्तरापथे तु कृष्णप्रतिपदादिपौर्णमास्यन्तः चान्द्रो मास इति
वेदितव्यः, तत्र पौर्णमास्यन्ते चान्द्रमासव्यवहारात् । अत
एव द्विविधचान्द्रमाससङ्ग्रहार्थं—
यस्मिन्मासे दिने यस्मिन्विपत्तिरुपजायते ।
पर्वान्तस्स तु विज्ञेयो मासो नैमित्तिकं प्रति ॥
इति गार्ग्येण पर्वान्त इति सामान्येनोक्तम् । नैमित्तिकं
प्रतिसांवत्सरिकश्राद्धं प्रतीत्यर्थः । दिने तु विशेषः स्मृत्य-
न्तरे दर्शितः—
मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि ।
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥
इति । तिथिशब्देन चान्द्र एवाहोररात्र उच्यते । न तु सौ-
रस्सावनो वाऽहोरात्रः, 'तदाद्यास्तिथयो द्वयोः' इत्यमरसिं-
हेन चान्द्राहोरात्रेष्वेव तिथिशब्दानुशासनात् । तदाद्याः प्र-
तिपदाद्याः तिथिशब्दाभिधेया इत्यर्थः । कः पुनः सावनसौ-
रचांद्राहोरात्राणां भेद इत्यपेक्षिते ब्रह्मसिद्धान्ते उक्तं—
सावनं स्यादहोरात्रमुदयादोदयाद्रवेः ।
सौरस्त्रिंशस्तु राश्यंशः तिथिसंयोगमैन्दवम् ॥
मेषादिराशेः त्रिंशमंशं यावता कालेन रविर्भुङ्क्ते तावान्
कालस्सोरः अहोरात्रः । प्रतिपदादितिथिपरिमितः कालश्चान्द्रः
अहोरात्र इत्यर्थः । स च सावनाहोरात्रवत् सूर्योदयादारभ्य
पुनस्सूर्योदयपर्यन्तो यदा भवति तदा सम्पूर्ण इति नि-
गद्यते ।
प्रतिपत्प्रभृतयस्सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याताः .......... ॥
इति स्मरणात् । यदा त्वेवम्भूतो न भवति तदा खण्डति-
थिरिति व्यतिरेकाद्गम्यते । प्रत्यब्दं मरणमासपक्षतिथिस्पृष्ट-
कालाभावेऽपि तत्सदृशकाल एवाब्दिकश्राद्धकाल इति वक्तुं,
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ।
इत्युक्तम् । तथाभूतं मरणमासपक्षतिथिस्पृष्टकालसदृशमित्यर्थः -
यदा पुनर्द्दिनद्वयं तथाभूतं पूर्वदिने तु कर्मकाले तिथियोगः,
उत्तरदिने तु कर्मकाले तिथियोगाभावः तदा पूर्वमहः श्राद्ध
काल इत्याह सुमन्तुः—
द्वयहव्यापिनी चेत्स्यान्मृताहस्य तु या तिथिः ।
पूर्वस्यां निर्वपेत्पिण्डमित्याङ्गिरसभाषितम् ॥
पूर्वस्यां पूर्वदिनव्यापिन्यामित्यर्थः । अनेन पूर्वदिने चतुर्थ
प्रहरोत्तरार्धव्यतिरिक्तापराह्ने तिथियुक्तसमय एव सांवत्सरि
कश्राद्धं कार्यमित्युक्तं भवति । यदा तु पूर्वदिने चतुर्थप्रह
रोत्तरार्धव्यतिरिक्तेऽपराह्ने चरममुहूर्ते तिथियोगः तदा उत्तर
दिने कुतपादारभ्य मुहूर्तपञ्चके मृततिथियुक्तेऽपि पूर्वदिने
तिथियोगसमये श्राद्धमुपक्रम्य रात्रेः प्रागेव समापनी
यं, स्वकालोपक्रान्ते कर्मणि कालान्तरेऽप्यविलम्बेन तत्सम
पनस्य विधिनाऽऽक्षिप्तत्वात् । एवञ्च यद्व्याघ्रपादवचनं—
विधिज्ञः श्रद्धयोपेतः सम्यक्पात्रनियोजकः ।
रात्रेरेन्यत्र कुर्वाणः श्रेयः प्राप्नोत्यनुत्तमम् ॥
इति, तत् स्वकालोपक्रान्तश्राद्धविषयमित्यवगन्तव्यम् । तदेतत्सर्व
र्वमभिसन्धायापरार्केणाप्युक्तम्— 'सांवत्सरिकादिश्राद्धं तिथि
युक्तेऽपराह्नकाले यत्रकुत्रचित्कार्यम् । सा चेत्सायाह्नमात्रव्य
पिनी स्यात् तदा सायाह्न एव व्याघ्रपादवचनबलेन श्रा.
कार्यम् । न पुनरुदयव्यापिन्यामपराह्नपर्यन्तायाम्' इति । या
तु पूर्वदिने कर्मकालासंस्पर्शिन्यप्यस्तगामिनी तिथिः उत्तरदि
कर्मकालसंस्पर्शिन्यनस्तगामिनी तदाऽपि पूर्वमेवाहः श्रा
श्राद्धकाण्डे मृताहविषयाणि 121
कालः 'श्राद्धादावस्तगामिनी' इति स्मरणात् । अस्तगामि-
नी तिथिः सांवत्सरिकश्राद्धादौ ग्राह्येत्यर्थः । न च पूर्ववद्
त्रापि तिथियुक्तसमये श्राद्धमुपक्रम्य रात्रेः प्राक्समापनं
युक्तं, चतुर्थप्रहरोत्तरार्धस्य श्राद्धकालत्वाभावात् । तथाचोक्तं
मत्स्यपुराणे—
ऊर्ध्वं मुहूर्तात्कुतपान्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत् स्वधाभवनमिष्यते ॥
इति । कात्यायनेनाप्युक्तं—
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ।
इति । न चात्र चतुर्थप्रहरोत्तरार्धव्यतिरिक्तापराह्नकाले तिथि-
योगासम्भवेन तिथियुक्तापराह्नकालाभावादननुष्ठानमेव श्राद्ध-
स्येति वाच्यम् । यदाह नारदीयपुराणे वसिष्ठः—
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ॥
इति । अस्तमयवेळायां स्पृष्टा मृततिथिस्तत्तिथौ कर्तव्ये पित्र्ये
आब्दिकादिश्राद्धे पूर्णा निगद्यत इत्यर्थः । अस्तमयवेळायां
स्पृष्टेत्यनेनास्तमयसमये कलामात्रसद्भावेऽपि मृततिथेः पूर्णत्व-
मुक्तमिति मन्तव्यम् । यत्तु स्मृत्यन्तरं—
दिनान्ते पञ्चनाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥
इति, पित्र्ये कर्मणि कालत्वेन चोदिततिथिसम्बन्धिन्यो दि-
Smriti Cha.—Vol. V. 16
प्राक्तननाड्यो? Wait, let's look at the word: प्राक्तननाड्यो- wait, is itप्राक्तननाड्योorप्राक्तननाड्योः? No, it's प्राक्तननाड्योwith a small circle/dot. Let's writeप्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ`? Let's
123
वेऽपि मध्याह्नव्यापित्वात् ‘सा तिथिसकला ज्ञेया' इति
न्यायेन न कुतपे प्रारभ्य श्राद्धं रौहिणे समापनीयम् । ‘ए-
कोद्दिष्टं तु मध्याह्ने' इति स्मरणात् । यदा तु पूर्वदिने अस्त-
मयात्पूर्वक्षणे तिथियोगः उत्तरदिने त्वस्तमयादुपरि त्रिमुहूर्त्त-
युक्ता तदा उत्तरमाह श्राद्धकालं सुमन्तुः—
उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूर्त्ता त्रिर्ह्नो या सा तिथिर्हव्यकव्ययोः ॥
अस्यार्थः—उदिते भानौ सत्यहस्सम्बन्धिनी दैवकर्माङ्गभूता
तिथिर्या द्विमुहूर्त्ता भवति सा सम्पूर्णतिथिवत्कृत्स्नस्याह्नो हव्य-
दानकालतामापादयति । तेन तस्मिन्नहनि दैवतं कर्म कुर्या-
त् । पितृकर्माङ्गभूता तिथिरस्तमिते रवौ सति या त्रिमुहूर्त्तम-
नुवर्तते सा कव्यदानकालतां स्वसम्बद्धस्याह आपादयति ।
तेन तत्सम्बद्धेऽह्नि पैतृकं पितृसम्बन्धि सांवत्सरिकादि श्राद्धं
कुर्यादिति । तेनोत्तरदिनेऽस्तमयादुपरि त्रिमुहूर्त्तानुवृत्त्यभावे अ-
स्तगामिनी पूर्वतिथिरेव ग्राह्येत्युक्तं भवति । एवञ्च यदुक्तं
नारदीयपुराणे—
दर्शं च पूर्णमासं च पितुस्सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥
इति, तत् उत्तरदिने अस्तमयादुपरि मुहूर्त्तत्रयानुवृत्त्यभावे द्रष्ट-
व्यम् । यदा तु पूर्वेद्युरस्तगामिनी तिथिर्न भवति उत्तरेद्यु-
रप्यस्तमिते रवौ त्रिमुहूर्त्तव्यापिनी न भवति किं त्वस्तगा-
124 स्मृतिचन्द्रिकायां
मिनी भवति तदाऽपि सैव ग्राह्या 'श्राद्धादावस्तगामिनी'
इति स्मरणात् । यदा तु दिनद्वयेऽप्यस्तगामिनी तिथिर्न भव-
ति तत उत्तरेद्युरेवास्तगामित्वरूपगुणाभावेऽपि गुणलोपन्यायेन
सांवत्सरिकश्राद्धं कर्तव्यं, तिथियुक्तापराह्नकालसम्भवात् । अ-
करणे विहितातिक्रमेण प्रत्यवायापत्तेश्च ॥
इति स्मृतिचन्द्रिकायां मृताहविषयाणि.
अथ मासपक्षतिथिस्पृष्टमृताहापरिज्ञानविषयाणि.
तत्र बृहस्पतिः—
न ज्ञायते मृताहश्चेत् प्रमीते प्रोषिते सति ।
मासश्चेत्प्रतिविज्ञातः तद्दर्शस्यान्मृतेऽहनि ॥
यदा मासो न विज्ञातो विज्ञातं दिनमेव तु ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥
इति । दिनशब्देन मृततिथिरेवाधिगन्तव्या । प्रोषिते पित्रा-
दावप्रगल्भस्वजनसमीपे प्रमीते सति कालविशेषज्ञानाद्यभावेन
मृताहो यदि न विज्ञायेत मासमात्रमेव तु ज्ञातं तदा मृताहे
यत्कार्यं तत्सर्वं मृतमासस्यामावास्यायां कर्तव्यमिति प्रथम-
श्लोकस्यार्थः । 'तद्दर्शस्यान्मृतेऽहनि' इत्यत्र दर्शग्रहणं तन्मा-
श्राद्धकाण्डे मृताहापरिज्ञानविषयाणि 125
ससम्बन्धिन्या एकादश्या अपि प्रदर्शनार्थम् । अत एव
मरीचिः-
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषतः ॥
पूर्वोक्तया दिशेत्यस्यायमर्थः-यदि प्रस्थानमासमात्रं ज्ञातं
तदा तन्मासस्यामावास्यायां सांवत्सरिकश्राद्धं कार्यम् । यदि
प्रस्थानतिथिपक्षावेव ज्ञातौ तदामार्गशीर्षे माघे वा मासि ज्ञा-
तपक्षतिथिस्पृष्टदिने कार्यम् । यदा तु प्रस्थानादिनमासाद्यपि न
ज्ञातं तदा मरणवार्ताश्रवणमासपक्षतिथिस्पृष्टदिने कार्यम् ।
'अपरिज्ञाते अमावास्यायां श्रवणदिने वा' इति प्रचेतसोक्त-
त्वात् । यदा तु मरणवार्ताश्रवणस्याप्यभावः तदा त्वाह जातू-
कर्ण्यः-
पितरि प्रोषिते यस्य न वार्ता नैव चागतिः ।
ऊर्ध्वं पञ्चदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ॥
कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः ।
तदादीन्येव सर्वाणि शेषकार्याणि सञ्चरेत् ॥
इति । सर्वाणीति वचनान्मृताहकार्यमपि दहनमासपक्षतिथि-
स्पृष्टदिने कर्त्तव्यमिति गम्यते ॥
इति स्मृतिचन्द्रिकायां मासपक्षतिथिस्पृष्टमृताहापरिज्ञान-
विषयाणि
126 स्मृतिचन्द्रिकायां
अथ काम्यश्राद्धकालाः.
तत्र विष्णुः—
सङ्क्रान्तिविषुवे चैव विशेषेणायनद्वयम् ।
व्यतीपातोऽथ जन्मर्क्षं चन्द्रसूर्यग्रहस्तथा ॥
इत्येतान् श्राद्धकालांस्तु काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥
इति । श्राद्धकालान् काम्यानाहेत्यनेन सङ्क्रान्त्यादिकालल-
क्षणो गुणः काम्यफलसाधको न पुनः श्राद्धलक्षणं कर्मेति
दर्शयति । श्राद्धलक्षणकर्मणस्तु काम्यफलं 'पितॄन् श्राद्धेन
तर्पयेत्' इति शास्त्रेण दर्शितम् । यथा जातेष्टिः पित्रा
क्रियमाणा पुत्रस्य पूतत्वादिकं फलं निष्पादयतीति 'पूत
एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति' इति शा-
स्त्रप्रामाण्यादाश्रितं, तथा पुत्रादिनाऽपि क्रियमाणं श्राद्धं
तत्पित्रादीनां तृप्तिरूपं फलं साधयतीति 'पितॄञ्छ्राद्धेन
तर्पयेत्' इति शास्त्रप्रामाण्यादाश्रयणीयम् । सङ्क्रान्त्यादिका-
ललक्षणगुणसाध्यं फलमत्र श्राद्धसाध्यपितृतृप्त्याश्रितातिशया-
धिक्यरूपमिति रात्रिसत्रन्यायेनावगन्तव्यम् ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ।
इति वाक्यशेषे श्राद्धसाध्यपितृतृप्तेरानन्त्यश्रवणात् । आन-
न्त्यशब्देन वस्तुत आनन्त्यासम्भवात् तृप्त्याश्रितातिशया-
धिक्यमुच्यते । एवञ्चैतदुक्तं भवति—सङ्क्रान्त्यादौ पितृतृप्त्य-