सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

कृतानां शस्त्रादिहतानां त्रयाणामपि चतुर्दशीरूपविहितकाल
सम्भवेऽपि विहितकालसम्भवनिबन्धनैकोद्दिष्टविधेरनवतारात् ।
अनेनैवाभिप्रायेणापरार्केणाप्युक्तं—'तत्र चैकस्य शस्त्रहतत्वे
एकोद्दिष्टविधानं न तु त्रयाणां तथात्वे तत्र तु पार्वणमेव'
इति । त्रयाणां तथात्वे शस्त्रहतत्वे नैकोद्दिष्टविधानं, किन्तु
पार्वणमेवेति तस्यार्थः । देवस्वामिना तु त्रिष्वपि शस्त्रहतेषु
पृथगेकोद्दिष्टत्रयमेव कार्यं, आहत्य वचनाभावान्न पार्वणमि-
त्युक्तम् । यदत्र युक्तं तद्ग्राह्यम् । यत्पुनः शाकटायनेनोक्तं—
जलाग्निभ्यां विपन्नानां संन्यासे वा गृहे पथि ।
श्राद्धं कुर्वीत तेषां वै वर्जयित्वा चतुर्दशीम् ॥
इति, तत् प्रायश्चित्तार्थं विहितजलाप्रचादिकृतमरणयुक्तविष-
यम् । ये हि पापमृत्यवः

94 स्मृतिचन्द्रिकायां
तुर्दश्यां क्रियते, तत्रैवैकोद्दिष्टविधानेन नान्यदेत्यर्थः । न च
शस्त्रादिहतानां कथञ्चिच्चतुर्दश्यतिक्रमे विहितकालातिक्रमे श्रा-
द्धस्याकरणमेवेति वाच्यं, प्रशस्ततरकालालाभेऽपि महालय-
श्राद्धस्यानुष्ठानमावश्यकमिति प्राग्दर्शितत्वात् । ततश्च शस्त्रहता-
नामपि प्रशस्ततरपञ्चमपक्षचतुर्दश्यतिक्रमे पार्वणविधानेनैव दि-
नान्तरेऽपि कार्यम् ।
सङ्क्रान्तावुपरागे च वर्षोत्सव * महालये ।
निर्वपेदत्र पिण्डांस्त्रीन्.... ............. .... ॥
इति प्रजापतिस्मरणात् । सङ्क्रान्त्यादावपि अपुत्रस्यैकोद्दिष्टमेव ।
यथाऽऽह गर्गः—
अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषास्तथा ।
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ॥
इति । स्त्रियो भगिन्यादयः । पुरुषाः भ्रात्रादयः । तथाच
सुमन्तुः—
सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥
मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ।
इति । यत्र यत्र सङ्क्रान्त्युपरागवर्षोत्सव*महालयगयादौ
भ्रात्रादिभ्यः प्रदीयते तदैकोद्दिष्टविधानेन कर्तव्यमित्यर्थः ।
कात्यायनोपि—

  • पर्वोत्सव.

श्राद्धकाण्डे श्राद्धकालविषयाणि ९५

सम्बन्धिबान्धवादीनामेकोद्दिष्टं तु सर्वदा ॥

इति । यत्तु जातूकर्ण्येन सपिण्डीकरणं प्रकृत्योक्तं-

अत ऊर्ध्वं न कर्तव्यमेकोद्दिष्टं कदाचन ।

सपिण्डीकरणान्तं च तत्प्रोक्तमिति मुद्गलः ॥

प्रेतत्वं चैव निस्तीर्णः प्राप्तः पितृगणं तु सः ।

च्यवते पितृलोकात्तु पृथक्पिण्डेन योजितः ॥

सपिण्डीकरणादूर्ध्वं पृथक्त्वं नोपपद्यते ।

पृथक्त्वे तु कृते पश्चात् पुनः कार्या सपिण्डता ॥

इति, यच्च कार्ष्णाजिनिना-

अत ऊर्ध्वं न कर्तव्यमेकोद्दिष्टं कदाचन ।

सपिण्डीकरणान्तं च प्रेतस्यैतदमङ्गलम् ॥

यच्च यमेन-

यस्सपिण्डीकृतं प्रेतं पृथक्पिण्डेन योजयेत् ।

विधिघ्नस्तेन भवति पितृहा चोपजायते ॥

एकमुद्दिश्य यद्दानं प्रेतकर्म तदुच्यते ।

पितृभ्यो दीयते श्राद्धमाहुस्तत्र द्विजोत्तमाः ॥

इति, यच्च पुराणे-

प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् ।

तत्र पार्वणवच्छ्राद्धमेकोद्दिष्टं त्यजेद्बुधः ॥

इति, तदेतत्सर्वं प्रातिपद्येनैकोद्दिष्टविध्यभावे द्रष्टव्यम् । ननु-

मघायुक्ता तु तत्रापि शस्ता राजन् त्रयोदशी ।

प्रमाण-काण्ड: लिखित, भुक्ति (कब्जा), साक्षी एवं दिव्य-प्रमाण

96 स्मृतिचन्द्रिकायां

इति पूर्वोक्तमार्कण्डेयवचनेन मघानक्षत्रयुक्तत्रयोदश्यां यत्प्रा-

शस्त्यमुक्तं तदयुक्तमिव प्रतिभाति ।

कृष्णपक्षे त्रयोदश्यां यच्छ्राद्धं कुरुते नरः ।

पञ्चत्वं तस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितम् ॥

मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।

इत्यादिवचनैः कृष्णपक्षत्रयोदश्यां मघानक्षत्रे च श्राद्धानुष्ठाने

दोषस्मरणात् । सत्यं, किन्तु प्रागुक्तप्राशस्त्यं मातामहवर्ग-

सहितपितृवर्गश्राद्धविषयम्, 'कृष्णपक्षत्रयोदश्याम्' इत्यादि

दोषाभिधायकवचनं तु केवलपितृवर्गश्राद्धविषयमिति विषय-

भेदान्मघानक्षत्रयुक्तत्रयोदश्याः प्राशस्त्यं युक्तमेव । अत एव

स्मृत्यन्तरम्-

इच्छेत्त्रयोदशीश्राद्धं पुत्रवान्यस्सुतायुषोः ।

एकस्यैव तु नो दद्यात्पार्वणं तु समाचरेत् ॥

इति । यः पुत्रवान् सुतायुषोरभिवृद्धिमिच्छेत्तस्य एकस्य वर्गस्य

त्रयोदशीश्राद्धं नो दद्यात् । वर्गद्वयस्य पार्वणं समाचरेदि-

त्यर्थः । अयमेवार्थः कार्ष्णाजिनिना स्पष्टीकृतः-

श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।

न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥

इति । तेन वर्गद्वयस्य श्राद्धं कार्यमित्यभिप्रायः । तस्य फल

माह शङ्खः-

प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन च ॥
प्रजामिष्टां यशस्स्वर्गमारोग्यं च धनं तथा ।
नृणां श्राद्धे सदा प्रीताः प्रयच्छन्ति पितामहाः ॥
मार्कण्डेयपुराणेऽपि—
प्रजामिष्टं पशून्मेध्यांस्वातन्त्र्यं बुद्धिमुत्तमाम् ।
दीर्घमायुस्तथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ॥
इति । मघात्रयोदशीश्राद्धं कुर्वाणः प्रजादिकं प्राप्नोतीत्यर्थः ।
महाभारतमपि—
ज्ञानिनां तु भवेच्छ्रेष्ठः कुर्वन् श्राद्धं त्रयोदशीम् ।
नावश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥
अत्र मघात्रयोदशीश्राद्धकर्तुः गृहे युवानो नरा अवश्यं नि-
श्चितं न प्रमीयन्त इत्यर्थः । अस्मिन् श्राद्धे पिण्डप्रदानं
पुत्रवद्भिः पुत्ररहितैश्च न कार्यम्, मघात्रयोदश्याः युगादित्वात् ।
तथाच पुलस्त्यः—
अयनद्वितये श्राद्धं विषुवद्वितये यथा ।
युगादिषु च सर्वेषु पिण्डनिर्वपणादृते ॥
कर्तव्यमिति शेषः । पुत्रवद्गृहिणा तु पिण्डनिर्वपणं सुतरां
न कर्तव्यं मघानक्षत्रान्वितत्वात् ।
सङ्क्रान्त्यामुपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठपुत्रो विनश्यति ॥
Smriti Cha.---Vol. V. 13

६३ स्मृ काया
इति पुराणे दोषश्रवणात् । तस्मात्पिण्डमात्रवर्जं वर्गद्वयस्य
श्राद्धं मघात्रयोदश्यां पुत्रवद्गृहिणा पुत्ररहितेन वा कर्तव्यम् ।
न च वाच्यम्—
श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥
इति वचनान्मातामहवर्गस्य पृथगुद्देशेन श्राद्धवन्मातृवर्गस्यापि
मघात्रयोदश्यां पृथगुद्देशेन श्राद्धमावश्यकमिति । पृथगुद्देशा-
भावेऽपि मातृवर्गस्य तृप्तिसम्भवात् । तथाच स्मृतिः—
न मातृषु पृथक् श्राद्धं मुनिभिर्यत्र कीर्तितम् ।
पितुः पिण्डोदके साध्वी भुङ्क्ते याऽनपचारिणी ॥
इति । बृहस्पतिरपि—
स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सदैवतम् ।
पितामही सदा स्वेन स्वेनैव प्रपितामही ॥
इति । सदैवतं श्राद्धं पार्वणश्राद्धमित्यर्थः । एतत्पत्या सह
स्त्रीणां सपिण्डीकरणविषयम् । श्वशुरेण सह सपिण्डीकरण-
विषये तु तेन सह पार्वणश्राद्धं भुङ्क्ते । तथाच शातातपः—
एकमूर्तित्वमायाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्मादंशेषु भागिनी ॥
इति । पत्युः पित्रा सह सपिण्डीकरणे पत्युः पित्रंशभागिनीति
विवेकः । स्मृत्यन्तरेऽपि—

[header] श्राद्धकाण्डे श्राद्धकालविषयाणि 99
सपिण्डीकरणादूर्ध्वं यत्पितृभ्यः प्रदीयते ।
सर्वत्रांशहरा माता इति धर्मेषु निश्चयः ॥
सर्वत्रेति वचनान्महालयाख्ये भाद्रपदापरपक्षे गयाख्ये च दे-
शविशेषे क्रियमाणे पार्वणेऽनन्तप्रीतिजनकेऽपि मातुरंशहारि-
त्वमस्तीति महालयगयादावपि पुत्रेण मातुः पृथगुद्देशेन श्राद्धं
न कार्यमिति गम्यते । अत एव चतुर्विंशतिमते—
क्षयाहं वर्जयित्वैकं स्त्रीणां नास्ति पृथक्क्रिया ।
इत्युक्तम् । यत्पुनस्तत्रैवोक्तं—
केचिदिच्छन्ति नारीणां पृथक्श्राद्धं महर्षयः ।
इति, तत् यत्र नारीणां पितामह्यादिभिस्सह सपिण्डीकरणं
कृतं तद्विषयम्, तत्र पितृपिण्डेष्वंशभागित्वाभावात् । एवञ्च
सांवत्सरिकश्राद्धादन्यत्र पार्वणश्राद्धेऽपि पित्राद्युद्देशेन क्रिय-
माणे पत्यादिभिस्सह सपिण्डीकृतानां पृथगुद्देशेन श्राद्धं न
कर्तव्यम् । पितामह्यादिभिस्सार्धं सपिण्डीकृतानां पृथगुद्देशेन
श्राद्धं कर्तव्यमिति स्थितम् । कथं तर्हि वृद्धिश्राद्धेऽन्वष्टक्ये
च पत्यादिभिस्सह सपिण्डीकृतानामपि मात्रादीनां पृथक्श्राद्धा-
नुष्ठानं, अंशहारिणीनां पृथक्श्राद्धाभावात् । उच्यते,—
अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरे तथा ।
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह ॥
इति स्मृत्यन्तरवचनबलात् ,
अन्वष्टके तथा मातृश्राद्धे चैव मृतेऽहनि ।

100 स्मृतिचन्द्रिकाया ।
एकोद्दिष्टं तथा मुक्त्वा त्रिषु नान्यत्पृथग्भवेत् ॥
इति शङ्खवचनबलाच्च अन्वष्टकादौ पृथगनुष्ठानम् । मातृश्राद्धं
नान्दीश्राद्धम् । एवञ्च यत्र श्राद्धं स्त्रीणां पत्यादिभागहारित्वं
न संभवति, सम्भवत्यपि वचनात्पृथक्श्राद्धविधानं तद्विषयं —
केचिदिच्छन्ति नारीणां पृथक्श्राद्धं महर्षयः ।
इति चतुर्विंशतिवचनमिति मन्तव्यम् । अपरे त्वेवं मन्यन्ते—
एकमूर्तित्वमायाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्मादंशेषु भागिनी ॥
इति वचनेन सपिण्डीकरणानन्तरकालं पत्यादिदेवत्ये श्राद्धे
मातृणां सहभावेन देवतात्वं भवतीत्येतन्मात्रं विधीयते । न
तु येन सह सपिण्डीकरणं कृतं तद्देवत्ये श्राद्धे सहभावेन
दैवतात्वमिति, अस्मिन् वचने तथाविधविशेषानवगमात् ।
अतश्च पितामह्यादिभिस्सह सपिण्डीकृताया अपि मातुर्न पृथ-
क्श्राद्धम् । एतच्च मातुरपृथक्श्राद्धमनित्यं—
केचिदिच्छन्ति नारीणां पृथक्छ्राद्धं महर्षयः ।
इति चतुर्विंशतिमते पृथक्श्राद्धपक्षस्याप्यभिधानात् । एवञ्चा-
न्वष्टकादित्रये मातृणां श्राद्धं पृथगेव, गयामहालयादिदेश-
कालवैशिष्ट्यात्तृप्त्याधिक्यापादकश्राद्धे तु पृथक्सह वा स्वभ-
र्तृभिरिति विकल्पो न सर्वत्रामावास्यादिष्वपीति । यदत्र युक्तं
तद्ग्राह्यम् ॥
कन्यागते सवितरि महालयाख्ये

श्राद्धकाण्डे श्राद्धकालविषयाणि 101
कर्तव्यमित्युक्तम् । यदा तु कन्यागतत्वाभावः तदा श्राद्धं
न कार्यम् । यदाह ज्योतिःपराशरः—
अर्के नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ।
सिनीवालीमतिक्रम्य यदा कन्यां व्रजेद्रविः ॥
तदा कालस्य वृद्धत्वादतीतैव पितृक्रिया ।
कालस्य वृद्धत्वात् वृद्धियुक्तत्वात् अतीतैव पञ्चमपक्षमतिक्रा-
न्तैव पितृक्रिया, तत्र महालयश्राद्धनिषेधात् । तथाच भृगुः—
एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् ।
हव्यकव्यक्रियाहन्ता तदा ज्ञेयोऽधिमासकः ॥
वृद्धिश्राद्धं तदा सोममग्नयाधेयं महालयम् ।
राजाभिषेकं काम्यं च न कुर्याद्भानुलाङ्घितः ॥
इति । महालयं महालयश्राद्धम् । ज्योतिःपितामहोपि—
षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः ।
पूर्वार्धं तु परित्यज्य कर्तव्या उत्तरे क्रिया ॥
षष्टिदिनात्मकमासस्य पूर्वार्धं परित्यज्य उत्तरार्धे श्राद्धक्रिया
यथाकालमनुष्ठेयेत्यर्थः । ज्योतिःपराशरोपि—
यातुधानप्रियो मासः कन्यार्के जायते यदा ।
पित्र्यं दैवं तथा कर्म उत्तरे मासि युज्यते ॥
यदा कन्यागतेऽर्के यातुधानप्रियो मासो जायते असङ्क्रान्तिको
भाद्रपदो मासो जायते इत्यर्थः । 'नैर्ऋतयातुधानानामसङ्क्रा-
न्तिकोऽधिमासः' इति ब्रह्मसिद्धान्ते । नैर्ऋतदिग्वर्तिराक्षस-

सम्बन्धितया असङ्क्रान्तिकमासस्याभिधानादेवं व्याख्यातम् ।
उत्तरे मासि युज्यते इत्यस्यायमर्थः —
षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः ।
इति मतानुसारेण भाद्रपदमासस्य द्वैगुण्ये सति त्रिंशद्दिनस्य
पक्षस्थानीयत्वादुत्तरो मास उत्तरं त्रिंशद्दिनं षष्टिदिनात्मक-
भाद्रपदमासस्यापरपक्षो भवति । कन्यासङ्क्रान्तियुक्तश्चेति म-
हालये कर्तव्यं पित्र्यादिकर्म तत्रैव युज्यत इति, तत्रापि
शुक्लपक्षात्कृष्णपक्षः प्रशस्ततर इति शास्त्रान्तरतोऽवगन्तव्यम् ।
यत्तु तेनैवोक्तं—
मासः कन्यागते भानौ असङ्क्रान्तो यदा भवेत् ।
पित्र्यं देयं तथा कर्म तुलास्थे कर्तुरक्षयम् ॥
इति, तत् पूर्वोक्तकाले कथञ्चिच्छ्राद्धस्याकरणे द्रष्टव्यं, पूर्वोक्त-
कालापेक्षया जघन्यकालत्वात् ॥
इति स्मृतिचन्द्रिकायां श्राद्धकालविषयाणि.
अथान्यान्यप्यधिमासविषयाणि कानिचिद्वचनानि
लिख्यन्ते.
तत्र पैठीनसिः —
श्रौतस्मार्ताः क्रियास्सर्वा द्वादशे मासि कीर्तिताः ।
त्रयोदशे तु सर्वास्ता निष्फला इति संज्ञिताः ॥
तस्मात्त्रयोदशे मासि कुर्यात्ता न कथञ्चन ॥

103

इति । ताः श्रौतस्मार्तक्रिया इत्यर्थः । त्रयोदशे मासि अधि-
मासीत्यर्थः । अत एव गभस्तिः --
न कुर्यादधिके मासि तस्मिन् कर्म कदाचन ।
इति अधिकमासस्य कालमलत्वेन कर्मानर्हत्वादित्यभिप्रायः ।
तथाच गृह्यपरिशिष्टे—
मलं वदन्ति कालस्य मासं कालविदोऽधिकम् ।
इति । अधिकं मासं कालस्य मलं वदन्तीत्यन्वयः । एवंविधो
मासः कदा भवतीत्यपेक्षिते ब्रह्मसिद्धान्त उक्तं—
चैत्रादर्वाङ्गाधिमासः परतस्त्वधिको भवेत् ।
इति । चैत्रादर्वाक् कन्यासंक्रान्तिमारभ्येत्यर्थः । अत एव ज्यो-
तिस्सिद्धान्त उक्तं—
घटकन्यागते सूर्ये वृश्चिके वाऽथ धन्वनि ।
मकरे वाऽथ कुम्भे वा नाधिमासो विधीयते ॥
कन्यातुलावृश्चिकधनुर्मकरकुम्भगते सूर्ये अधिमासो न संपद्यते,
किन्त्ववशिष्टराशिगते सूर्ये कदाचित्कालवृद्धौ सम्पद्यत इति
शेषः । तथाच वासिष्ठसिद्धान्त उक्तम्--
द्वात्रिंशद्भिर्गतैर्मासैर्दिनैष्षोडशभिस्तथा ।
घटिकानां चतुष्केण पतत्यधिकमासकः ॥
अतीताधिकमासादारभ्य द्वात्रिंशन्मासादुपरिषोडशदिनेषु घटि-
काचतुष्टयाधिकेषु गतेष्वधिमासो भवतीत्यर्थः । यत्तु काठक-
गृह्येऽभिहितम्—

यस्मिन्मासे न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव वा ।
मलमासस्स विज्ञेयो मासे त्रिंशत्तमे भवेत् ॥
इति, तत्त्रिंशन्मासादूर्ध्वं संभवतीत्येवं परम् । यत्तु ब्रह्मसिद्धा-
न्तेऽभिहितम्—
मासद्वयेऽब्दमध्ये तु सङ्क्रान्तिर्न यदा भवेत् ।
प्राकृतस्तत्र पूर्वः स्यादधिमासस्तथोत्तरः ॥
इति , अत्र त्रिंशन्मासादूर्ध्वं यस्सङ्क्रान्तिरहितो मासः सोऽ-
धिमासः । ततोर्वाग्योऽसंक्रान्तो मासः स प्राकृतः नाधिमास
इत्येतावन्मात्रं विवक्षितं न पुनः पौर्वापर्यमिति मन्तव्यम् ।
यदा त्वेकस्मिन् संवत्सरे असंक्रान्तमासद्वयं संक्रान्तिद्वययुतो
मासः तत्रापि त्रिंशन्मासादूर्ध्वं योऽसङ्क्रान्तो मासः सोऽ-
धिमासः । शेषौ तु संसर्पाहस्पतिसंज्ञकाविति बोद्धव्यम् । तथाच
बार्हस्पत्ये ज्योतिर्ग्रन्थेऽभिहितम्—
यस्मिन्मासे न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव वा ।
संसर्पाहस्पती मासावधिमासश्च निन्दिताः ॥
इति । यस्मिन्मासे चैत्रादर्वाङ् संक्रान्तिः संक्रान्तिद्वयमेव वा
भवति तौ संसर्पाहस्पतिसंज्ञकौ मासौ, चैत्रात्परतो योऽसं-
क्रान्तो मासः सोऽधिमाससंज्ञकः । एते च त्रयो मासा
निन्दिता इत्यर्थः । एतेष्वधिमासोऽतिनिन्दितः, कालमलरूप-
त्वात्तस्य । तदपि तत्रैवोक्तं— 'अधिमासोऽतिदुष्टस्स्यात्'

श्राद्धकाण्डे अधिमासविषयाणि 105
इति, अत एवास्य मलिम्लुचसंज्ञा लघुहारीतेन दर्शिता—
इन्द्राग्नी यत्र हूयेते मासादिः सम्प्रकीर्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमपौ ॥
तमतिक्रम्य चान्यस्मिन् मासे गच्छेत्कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतस्स्मृतः ॥
इति । इन्द्राग्नी यत्र हूयेते इत्यनेन वचोभङ्ग्या कृष्णप्रतिपन्नि-
र्दिष्टा । अग्नीषोमौ स्मृतौ मध्य इत्यनेन शुक्लप्रतिपन्निर्दिष्टा ।
समाप्तौ पितृसोमपावित्यनेनामावास्या । एतेन चान्द्रो मास
उपलक्षितः । पूर्वाधिमासादारभ्य त्रिंशन्मासात्परतो यो भवति-
तमतिक्रम्यान्यस्मिन्मासे यदा सूर्यो राश्यन्तरं गच्छति तदा
पूर्वोऽसङ्क्रान्तो मासो मलिम्लुचो ज्ञेयः । उत्तरः ससङ्क्रान्तिमासः
प्राकृतो ज्ञेय इत्यर्थः । पराशरोपि—
रविणा लङ्घितो मासश्चान्द्रश्चाद्यो मलिम्लुचः ।
तत्र यद्विहितं कर्म उत्तरे मासि कारयेत् ॥
स्मृत्यन्तरेऽपि—
एवं षष्टिदिनो मासः तदर्धं तु मलिम्लुचः ।
त्यक्त्वा तदुत्तरे कुर्यात्पितृदैवादिकाः क्रियाः ॥
मलिम्लुचमप्यर्धं कासांचित्पितृदेवक्रियाणामनुष्ठाने न त्याज्य-
मित्याह बृहस्पतिः—
नित्यनैमित्तिके कुर्यात्प्रयतस्स मलिम्लुचे ।
SMRITI CHA.—Vol. V. 14

106 स्मृतिचन्द्रिकायां

इति। यस्य नित्यस्याकरणे कालात्ययनिमित्तं प्रायश्चित्तमा-
म्नायते, तद्यथा-- 'अग्नये पथिकृते पुरोडाशमष्टाकपालं नि-
र्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽ-
तिपादयेत्' इति । तथाभूतस्य नित्यस्य ग्रहणं, न तु नि-
त्यमात्रस्य । तेन दर्शपूर्णमासाग्निहोत्रपञ्चमहायज्ञादेरनुष्ठानं
मलिम्लुचे कर्तव्यं, स्वकालातिक्रमे प्रायश्चित्ताम्नानात् । ए-
वञ्च नित्याऽपि सोमयागक्रिया मलिम्लुचे मासि न कार्या,
मलिम्लुचमासातिक्रमेऽपि वसन्तादिकालस्य सोमयागाङ्गभूत-
स्यानातिक्रान्तत्वेनात्र प्रायश्चित्तप्राप्तेरसम्भवात् । एवं यस्य
नैमित्तिकस्य गृहदाहेष्ट्यादेर्निमित्तानन्तरकाले कर्तव्यस्य मा-
सान्तरे विहितकालालाभः तथाभूतावश्यकक्रियाविषय एव म-
लिम्लुचे मासि कुर्यादिति विधानम् । जातेष्ट्यादेर्नैमित्तिक-
स्यापि शिशुसंरक्षणार्थं निमित्तानन्तरकालमपहाय कालान्तरे
कर्तव्यस्य यथा दशरात्रादिसूतककालमध्येऽनुष्ठानमन्याय्यं, तथा
मलिम्लुचकालमध्येऽपीति तस्य न मलिम्लुचेऽनुष्ठानम् । एवञ्च
नित्यत्वं नैमित्तिकत्वं चाविवक्षितम् । यस्यातिक्रमे प्रायश्चि-
त्तप्राप्तिः यस्य च मासान्तरे विहितकालालाभेनावश्यकं म-
लिम्लुचेऽनुष्ठानं तत्सर्वं मलिम्लुचे कुर्यादिति बार्हस्पत्यवच-
नतात्पर्यार्थः प्रत्येयव्यः । तथाच स्मृत्यन्तरे--
अनन्यगति यन्नित्यं कुर्यान्नैमित्तिकं तथा ।

श्राद्धकाण्डे अधिमासविषयाणि 107
इति। गृह्यपरिशिष्टेऽपि-
मलं वदन्ति कालस्य मासं कालविदोऽधिकम्।
नेहेतात्र त्वशेषेज्यामन्यत्रावश्यकाद्विधेः ॥
इति। अनेनावश्यको विधिरधिकमासेऽनुष्ठेय इत्यर्थादुक्तं भव-
ति। उक्तं च साक्षादपि तत्रैव-
अवषट्कारहोमाश्च पर्व चाग्रयणं तथा।
मलमासे तु कर्तव्यं........................॥
इति। अवषट्कारहोमाः अग्निहोत्रौपासनवैश्वदेवादयः। पर्व
दर्शपूर्णमासौ, पार्वणस्थालीपाकश्च। आग्रयणमाग्रयणेष्टिः।
यद्यप्याग्रयणं 'वर्षासु श्यामाकैर्यजेत' इति मासद्वयात्मकव-
र्षाख्यतौ विहितं तत् अमलिम्लुचमासेऽपि तत्कालसम्भवा-
दनन्यगतिकं न भवति। तथाऽपि दुर्भिक्षे नवश्यामाकव्यतिरि-
क्तधान्यासम्भवे जीवनार्थं नवश्यामाकान्नभोजनमकृताग्रयणेना-
कर्तव्यमित्याग्रयणानुष्ठानं जीवनार्थमावश्यकमिति युक्तमुक्तमा-
ग्रयणं तथेति। यदा तु दुर्भिक्षाभावादनावश्यकं तदाऽधि-
मासे नवश्यामाकाग्रयणं न कर्तव्यम्। अनेनैवाभिप्रायेण पै-
ठीनसिना-
सङ्क्रान्तिरहिते मासि कुर्यादाग्रयणं न वा।
इति विकल्प उक्तः। अन्यान्यपि कानिचित् मलिम्लुचे
कार्याणीत्युक्तानि यमेन-

108 स्मृतिचन्द्रिकायां

गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥
तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिः ।
जातकर्मान्तकर्माणि नवश्राद्धं तथैव च ॥
मखात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ।
चन्द्रसूर्यग्रहे स्नानं श्राद्धं दानं जपादिकम् ॥
कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ।
इति । गर्भे गर्भनिमित्तके गर्भमात्रप्रयुक्त्या विहिते पुंसवन-
सीमन्तादिक इति यावत् । वार्धुषिके—
अशीतिभागो वृद्धिस्यात् मासि मासि सबन्धके ।
इत्यादिवचनोक्तवृद्धिग्रहणे । भृत्ये संवत्सरादिपर्यन्तकालकृते
भृत्ये । मासिके श्राद्धकर्मणि, अमावास्याश्राद्धकर्मणीत्यर्थः ।
अन्ये तु मन्यन्ते—अमावास्याश्राद्धं त्रयोदशेऽपि मासि ऋश्य
शृङ्गवचनेन निषिद्धम्, तेन मासिकशब्दो नामावास्याश्राद्ध-
माह, किंतु प्रथमसंवत्सरविहितमासिकश्राद्धमाहेति । ऋश्य-
शृङ्गवचनं चैवं पठन्ति—
संवत्सरातिरेको वै मासो यस्यात्त्रयोदशः ।
तस्मात्त्रयोदशे श्राद्धं न कुर्यादिन्दुसंक्षये ॥
इति । अपरे तु—
तस्मात्त्रयोदशं श्राद्धं न कुर्यान्नोपतिष्ठते ।
इति पठन्ति । अयमेव पाठो युक्तः । इन्दुसंक्षय इति पाठे पि

ण्डपितृयज्ञवत्तदनन्तरमवश्यानुष्ठेयस्यामावास्याश्राद्धस्य प्रतिषेधा-
नर्हस्य प्रतिषेधप्रसङ्गात्,
जातकर्मणि यच्छ्राद्धं दर्शश्राद्धं तथैव च ।
प्रतिसंवत्सरं यच्च पूर्वमासे प्रकीर्तितम् ॥
इति वचनविरोधप्रसङ्गाच्च । तस्मात् ‘श्राद्धकर्मणि मासिके’
इत्यनेन अमावास्याश्राद्धमुक्तमिति व्याख्यानमेव युक्तम् ।
ऋष्यशृङ्गवचनार्थ उपरिष्टाद्भविष्यति । नित्ये नित्यदाने । हो-
मोऽत्रौपासनहोमः, ‘यवव्रीहितिलादिभिः’ इति तत्र होतव्य-
द्रव्यानुवादात् । अन्त्यकर्माणि दहनोदकपिण्डदानास्थिसञ्चय-
नादीनि । शेषं व्यक्तम् । जातकर्मग्रहणं जातश्राद्धादेरुपल-
क्षणार्थम् । अत एव स्मृत्यन्तरम्—
श्राद्धजातकनामानि ये च संस्कारसव्रताः ।
मलिम्लुचेऽपि कर्तव्या इष्टीः काम्याश्च वर्जयेत् ।
संस्काराः अन्नप्राशननिष्क्रमणादयः । सव्रता जनार्दनशयना-
दारभ्य यावदुत्थानं धारणपारणादिकं करिष्यामीत्येवं स-
ङ्कल्पसहिताः । काम्या इति ग्रहणं काम्यपशुबन्धादिकर्मो-
पलक्षणार्थम्, सर्वेषामपि काम्यानामनावश्यकत्वेन वर्जनीय-
त्वात् । अत एव हारीतः—
अधिमासे न कर्तव्यं श्राद्धमभ्युदयं तथा ।
तथैव काम्यं यत्कर्म.................... ॥
इति । यत्काम्यं कर्म इष्ट्यादिकं तत्सर्वमधिमासे न कर्तव्य-

110 स्मृतिचन्द्रिकायां

मित्यर्थः । आभ्युदयिकं श्राद्धं चूडाकरणात्प्राक्तनसंस्कारेषु
विहिताभ्युदयिकश्राद्धव्यतिरिक्तं द्रष्टव्यं, जातकर्मोदौ विशे-
षेणाभ्युदयिकश्राद्धविधानस्य पूर्वमेव प्रदर्शितत्वात् । अन्या-
न्यापि च वर्ज्यान्याह वृद्धमनुः—
अग्नयाधेयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥
माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् ।
बाले वा यदि वा वृद्धे शुक्रे चास्तमुपागते ॥
मलमास इवैतानि वर्जयेद्देवदर्शनम् ।
इति । 'अग्नयाधेयं प्रतिष्ठां च यज्ञदानव्रतानि च' इत्यत्र
अनावश्यकत्वे सतीति विशेषो द्रष्टव्यः । तेन मलमासेऽपि
प्रायश्चित्तभूतमग्नयाधेयमग्न्यनुगत्यनन्तरं कर्तव्यं न प्रतिषिध्यते ।
एवं प्रतिमादिनाशे पुनःप्रतिष्ठा न प्रतिषिध्यते । एवं प्राय-
श्चित्तभूतसंसर्गेष्ट्यादियज्ञो न प्रतिषिध्यते । यद्यत्प्रायश्चित्ते
देयमिति प्रायश्चित्तदानं च 'ब्राह्मणं तु वसत्यै नापरुन्ध्यात्'
इत्यादिव्रतं च । वृषोत्सर्गस्य नैकादशाहिकस्य प्रतिषेधः,
षोडशश्राद्धादिवत्तस्यापि प्रेतोपकारकत्वात् । शुक्रास्तमयादाव-
प्यनावश्यकत्वे सत्येव अग्नयाधेयादि प्रतिषिध्यते । मलमास
इत्येवाभिधानात् । 'वर्जयेद्देवदर्शनम्' इति प्रतिषेधः प्रथ-
मदर्शनविषय एवेत्याहुः । हारीतोपि—

श्राद्धकाण्डे अधिमासविषयाणि 111
...............वत्सरात्प्रथमादृते ।
सपिण्डीकरणादूर्ध्वं यत्किञ्चिच्छ्राद्धकं भवेत् ॥
इष्टं वाऽप्यथ वा पूर्तं तन्न कुर्यान्मलिम्लुचे ।
इति । सपिण्डीकरणादूर्ध्वं यत्प्रथमसंवत्सरे प्रतिमासं पुनः
क्रियमाणं त्रैपुरुषिकं मासिकं श्राद्धं तन्मलिम्लुचेऽपि मासे
कार्यमिति वक्तुं 'वत्सरात्प्रथमादृते' इत्युक्तम् । अस्मिन्नेव
विषये वासिष्ठोपि—'संवत्सरमध्येऽधिमासो भवेत् मासिकार्थं
दिनमेकं वृद्धिं नयेत्' इति । स्मृत्यन्तरेऽपि—
संवत्सरे विवृद्धेऽपि प्रतिमासं च मासिकम् ।
इति । सपिण्डीकरणात्प्राक् क्रियमाणमासिकविषये तु गभस्ति-
नोक्तम्—
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
तत्कार्यं पूर्वमासे च कालाधिक्येऽपि धर्मतः ॥
इति । चशब्दादुत्तरमासेऽपि कार्यमिति गम्यते । तदेतत् सपि-
ण्डीकरणात्प्राक्तनमासिकविषयं, एकोद्दिष्टरूपमासिकविषयत्वा-
त् । यत्तु ऋश्यशृङ्गेणोक्तम्—
संवत्सरातिरेको यो मासश्चैव त्रयोदशः ।
असुराणां तु मासौसौ तस्माद्देवविगर्हितः ॥
तस्मात्त्रयोदशं श्राद्धं न कुर्यान्नोपतिष्ठते ।
इति, तत् सपिण्डीकरणात्प्राक्तनमासिकेषु · सपिण्डीकरणा-
त्प्राक्कथञ्चिदकृतेषु वचनबलात्सपिण्डीकरणादूर्ध्वमनुष्ठातव्येष्वे-

कोद्दिष्टेषु प्रतिमासं क्रियमाणेषु त्रयोदशे मासि प्राप्तमासि-
कश्राद्धविषयम् । विगर्हिते मासि प्रतिप्रसवमन्तरेण क्रिय-
माणं यतो नोपतिष्ठते अतस्त्रयोदशं श्राद्धं न कुर्यादित्यर्थः ।
अस्य वचनस्योक्ता विषयव्यवस्था देवस्वामिना दर्शिता—
‘यस्य तारतम्याच्छीघ्रतरमुपस्थिते पिण्डपितृयज्ञादौ देशका-
लानुरोधतो द्रव्यब्राह्मणाभावात् षोडशश्राद्धान्यकृत्वा संव-
त्सरादर्वाक् सपिण्डीकरणं कृतं, तस्य कृतेऽपि सपिण्डीकरणे—
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ।
इति वाक्यात् यदा त्रयोदशं श्राद्धं प्राप्तमासिकाख्यं प्रे-
तश्राद्धं तदनेन ऋष्यशृङ्गवाक्येन निषिध्यते’ इति ग्रन्थेन ।
एवंच त्रयोदशमासशालिनि संवत्सरे प्रमीतस्य मासिकानि
श्राद्धानि त्रयोदश भवन्ति । यदा तु द्रव्यब्राह्मणाद्यलाभेन
सपिण्डीकरणादूर्ध्वमेव मासिकश्राद्धानि क्रियन्ते तदा तानि
द्वादश भवन्तीति मन्तव्यम् । एवञ्च यत्कैश्चिदुक्तं—संवत्स-
रविमोकान्तमानुमासिकानि कुर्वन्मलमासे नैव कुर्यादुत्तरे कु-
र्यादेव । संवत्सरान्ते सपिण्डीकरणं संवत्सरविमोकं च
यथाकालं मासिकानि कुर्वन्नपि मलमासे नैव कुर्यादुत्तरे
कुर्यादेवेति, तत्
‘मासिकार्थं दिनमेकं वृद्धिं नयेत्’
संवत्सरे विवृद्धेऽपि प्रतिमासं च मासिकम् ।
पूर्वमासे च कर्तव्यं कालाधिक्येऽपि धर्मतः ॥