सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 118, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 118

६३ स्मृ काया
इति पुराणे दोषश्रवणात् । तस्मात्पिण्डमात्रवर्जं वर्गद्वयस्य
श्राद्धं मघात्रयोदश्यां पुत्रवद्गृहिणा पुत्ररहितेन वा कर्तव्यम् ।
न च वाच्यम्—
श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥
इति वचनान्मातामहवर्गस्य पृथगुद्देशेन श्राद्धवन्मातृवर्गस्यापि
मघात्रयोदश्यां पृथगुद्देशेन श्राद्धमावश्यकमिति । पृथगुद्देशा-
भावेऽपि मातृवर्गस्य तृप्तिसम्भवात् । तथाच स्मृतिः—
न मातृषु पृथक् श्राद्धं मुनिभिर्यत्र कीर्तितम् ।
पितुः पिण्डोदके साध्वी भुङ्क्ते याऽनपचारिणी ॥
इति । बृहस्पतिरपि—
स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सदैवतम् ।
पितामही सदा स्वेन स्वेनैव प्रपितामही ॥
इति । सदैवतं श्राद्धं पार्वणश्राद्धमित्यर्थः । एतत्पत्या सह
स्त्रीणां सपिण्डीकरणविषयम् । श्वशुरेण सह सपिण्डीकरण-
विषये तु तेन सह पार्वणश्राद्धं भुङ्क्ते । तथाच शातातपः—
एकमूर्तित्वमायाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्मादंशेषु भागिनी ॥
इति । पत्युः पित्रा सह सपिण्डीकरणे पत्युः पित्रंशभागिनीति
विवेकः । स्मृत्यन्तरेऽपि—