शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
१८५ शिल्परत्ने [उत्तरभागः
पट्टमर्धेन कण्ठोऽशः कम्पोऽर्धेनार्धमम्बुजम् ।
द्व्यंशं वाजनमर्धेन पद्मं क्षेपणमर्धतः ॥ ३४ ॥
एतद्धि रुद्रकान्ताख्यं पीठमुक्तं सुशोभनम् ।
अतिधृत्यंशिते पीठे भागं भूतमंशकौ ॥ ३५ ॥
वप्रं महाब्जं वेदांशैर्धृगर्धं वेत्रमंशतः ।
अर्धं गलं चार्धमब्जं वृत्तमध्यर्धतो भवेत् ॥ ३६ ॥
अर्धेनोर्ध्वदलं कुर्याद् वेत्रमंशं धृगर्धतः ।
अंशेन वेत्रं सार्धांशैस्त्रिभिरूर्ध्वाम्बुजं भवेत् ॥ ३७ ॥
अध्यर्धं घृतभृच्चेति सोमकान्तमुदीरितम् ।
पीठोच्चे षोडशांशे तु भागाभ्यां मूलपट्टिका ॥ ३८ ॥
महापद्मं तु वेदांशैर्धृगर्धेनांशतो गलम् ।
अर्धेन पद्मं वृत्तं तु (भागेनार्धेन पङ्कजम् ॥ ३९ ॥
धृगर्धमूर्ध्वपद्मं तु) चतुर्भिरथ पट्टिका ।
द्व्यंशेन घृतभृत् प्रोक्तमेतत् सर्वाङ्गभद्रकम् ॥ ४० ॥
पीठोच्चे षोडशांशेऽङ्घ्रिशरार्धकार्धसागरैः ।
नेत्रेन्दुभिर्जगत्यब्जधृग्वेत्रं धृक् चपङ्कजम् ॥ ४१ ॥
पट्टिका चाज्यभृच्चेति श्रीकरे स्याद् यथाक्रमम् ।
एकस्मिन्नेव सार्धांशाज्जगत्यर्धेन कम्पकम् ॥ ४२ ॥
(पट्टिकाधः स्ववेदांशात् सकम्पा पुष्टिवर्धने ।
पीठोदये षोडशांशे खुरं द्व्यंशमथार्धतः ॥ ४३ ॥
क्षेपणं सार्धवेदांशैः) पद्ममर्धेन कम्पकम् ।
धृगर्धे वज्रमेकं स्यादूर्ध्वाब्जं वेदभागतः ॥ ४४ ॥
चित्र-लक्षण (रंग-निर्माण, भित्तिचित्र व यन्त्र) एवं उपसंहार
पीठलक्षणम् ] सप्तविंशोऽध्यायः । १८७
अ(धः ? र्ध) क्षेपगमंशौ द्वौ पट्टिकार्धेन चाज्यधृक् ।
सामान्यं नागरादीनां सौम्यं पीठमिदं स्मृतम् ॥ ४५ ॥
एवं द्वादशभेदेन पीठानां लक्ष्म वर्णितम् ।
अथ सामान्यपीठं —
द्व्यष्टांशे शिवपीठेके क्षितिशराब्धीन्द्वंशकैः पादुकं
प्राग्ध्याज्जगतीं तथा कुमुदकं तत्पट्टिकां च क्रमात् ।
अंशाभ्यां गलमंशकेन गलपट्टिं जागतेऽध्यंशिनि
ग्रीवान्तेऽर्धयुतद्वयेन वलभिं शिष्टेन पट्टिं सदा ॥ ४६ ॥
चतुर्दशप्रकारेण पीठानीत्यब्रवीन्मयः ॥ ४७ ॥
वेदर्तुवसुसूर्याश्रैः षोडशाश्रं च वर्तुलम् ।
एतेषामायतैः षड्भिस्त्र्यश्रं चार्धेन्दुसन्निभम् ॥ ४८ ॥
पीठे मुक्त्वा प्रतिष्ठाविधिमुदधिविभागं विधायावशिष्टं
द्वाभ्यामाधाय पाथोवलयमुदकधात्रीं विधायांशकेन ।
शिष्टेनाधाय तद्वेष्टनमथ तदुद्(यः ? क्) त्र्यंशविस्तारदैर्घ्यं
कुर्यादष्टाश्रमाशांशककृतजलकुल्यं कृशाग्रं प्रनालम्॥४९॥
प्राक्प्रत्यङ्मुखबिम्बानां पीठमुत्तरनालकम् ।
दक्षिणोदङ्मुखानां तु पूर्वनालं प्रकल्पयेत् ॥ ५० ॥
पीठव्यासत्रिवेदांशं नालमूलस्य विस्तृतम् ।
आयामं तत्समं तस्मात् त्रिचतुर्भागहापनात् ॥ ५१ ॥
कुर्यान्नालाग्रविस्तारं तन्मूलविकृतौ पुनः ।
मूलादर्धत्रिभागं वा गोमुखाकारमाचरेत् ॥ ५२ ॥
१८८ शिल्परत्ने [उत्तरभागः
गजोष्ठसदृशं वाथाप्युन्नताग्रं मनाक् शुभम् ।
नालतारत्रिभागैकं खातं व्यासांशतः समम् ॥ ५३ ॥
पीठमध्ये तु कौबेर्यां नालमित्थं प्रकल्पयेत् ।
स्यादूर्ध्वपट्टबहलं समं पादाधिकं तु वा ॥ ५४ ॥
अध्यर्धं वाज्यभृद्व्यासो मूल(घा ? खा)तं च तत्समम् ।
आलिङ्गमूलपर्यन्तं तत् क्रमेणोन्नतं भवेत् ॥ ५५ ॥
पीठोपलं त्वेकभागं ह्येकमेवोर्ध्वमण्डनम् ।
अधोमण्डनमेकं वा स्यान्नैकं चोपपत्तितः ॥ ५६ ॥
तत्र मध्यं (ज?वि)ना कोणं सन्धयेत् सुन्दरं यथा ।
उपर्यङ्गावसानं तदूर्ध्वसन्धानमाचरेत् ॥ ५७ ॥
शिवभागस्त्वधःपीठान्न किञ्चिदवलम्बनम् ।
उन्नतोऽपिच दोषाय तस्मात् तौ परिवर्जयेत् ॥ ५८ ॥
निस्सन्धिकं भवेत् पीठं प्रशस्तं शिलयैकया ।
तदलाभेऽप्येकयैव प्रकुर्यादूर्ध्वमण्डनम् ॥ ५९ ॥
क्षुद्रे महति मध्ये च स्यादधः सन्धिमण्डनम् ।
उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ ६० ॥
नालमध्ये तथा मध्ये कर्णे सन्धिर्न शस्यते ।
युञ्जीयाद् दक्षिणे वामे दीर्घादीर्घं यथाक्रमम् ॥ ६१ ॥
त्रिखण्डं नैकखण्डं वा युक्त्या कुर्यादधोगतम् ।
अथ पादशिला —
बिम्बे नपुंसकशिलां निजनालमूल-
विस्तारतोऽधिचरणांशदलांशतानाम् ।
ब्रह्मशिला ] सप्तविंशोऽध्यायः । १८९
द्विघ्नप्रथां च विदधीत निजप्रथार्ध-
पादोनतत्समसमुच्छ्रयसंप्रपन्नाम् ॥ ६२ ॥
भक्त्वा त्रिधाऽङ्घ्रिदृषदूच्छ्रयमेकमंशं
पीठे द्विभागमुपवेशयतुर्वरायाम् ।
द्व्येकार्धताङ्गुलिमितं खनतूत्तमादि-
ब्रह्माश्ममूर्ध्युचितनालनिवेशनाय ॥ ६३ ॥
लिङ्गायामसमो नपुंसकशिलाव्यासो वरिष्ठोऽवरः
पूजांशद्विगुणस्तदन्तरमितावष्टांशितायां क्रमात् ।
अंशादर्धममध्यमादिकविधिर्व्यासार्धतोऽङ्घ्रयन्तिम-
श्चोत्सेधश्च तथात्र लिङ्गविनिवेशार्हश्च कार्योऽवटः ॥ ६४ ॥
अथवा लिङ्गविष्कम्भाच्छ्रेष्ठा स्याद् द्विगुणा घना(त) ॥
विस्ताराद्ध्यर्धतो नीचा भवेद् ब्रह्मशिला कचित् ।
खातं ब्रह्मशिलामध्ये ब्रह्मभागोपमं भवेत् ॥ ६६ ॥
प्रविशेद् ब्रह्मभागं तु नीरन्ध्रं च यथा भवेत् ।
नन्द्यावर्तसमाः कार्याश्चतस्रस्तु शिलाः क्रमात् ॥ ६७ ॥
पीठब्रह्माश्मनोर्मध्ये प्रदक्षिण्येन योजयेत् ।
अथ नागरादिब्रह्मशिला —
द्विगुणं लिङ्गविस्तारात् *त्रिगुणं वेदसङ्गुणम् ॥ ६८ ॥
तुङ्गं व्यासत्रिपादांशाद् भवेल्लिङ्गे तु नागरे ।
गर्भकर्णचतुर्थांशव्यासा श्रेष्ठा(थ? य)तस्य तु ॥ ६९ ॥
- 'विस्तृतं वेदभागतः' इति गुरुदेवः ।
१९० शिल्परत्ने [उत्तरभागः
व्यासाध्यर्धविहीना स्यान्नीचा मध्येऽष्टधा तयोः ।
(मध्ये ? भक्ते) तु नवधा ब्रह्मशिला स्याद् द्राविडे शिवे ॥
व्यासार्धं तत्र पादोनं तयोर्मध्येऽष्टभाजिते ।
तुङ्गं ब्रह्मशिलायाः स्यान्नवधा द्राविडाह्वये ॥ ७१ ॥
अथ गर्भगृहार्धेन त्रिचतुर्भागविस्तृता ।
व्यासार्धवेदभागोच्चा प्राग्वन्मध्येऽष्टभाजिते ॥ ७२ ॥
नव ब्रह्मशिलाः प्रोक्ता लिङ्गब्रह्मांशतोऽवटम् ।
द्वियवाधिकविस्तारं विस्ताराष्टांशकं नतम् ॥ ७३ ॥
तन्मध्यवटगं¹ रत्नगतं स्याद् वेसराभिधे ।
अथासनशयनादीनां पीठभेदः ।
स्थानासनविभागेन प्रतिमानां (प ? पु)रे (प ? पु)रे ॥ ७४ ॥
एकद्वित्रिचतुष्पञ्चषण्मात्रं वाधिकं ततः ।
आसनानां स्वविस्तारादष्टभागाधिकायतः ॥ ७५ ॥
द्विगुणं तन्निजायामान्मण्डनं पीठिकास्सिव ।
रामवेदेषुभागे तु बेरोच्चे भागताः क्रमात् ॥ ७६ ॥
पीठस्योन्नतिरिष्टा स्याच्छयने वासने स्थिते ।
यथोचितं तथा दैर्घ्यं व्यासश्च शयने स्मृतः ॥ ७७ ॥
अथासनभेदः —
ब्रह्मविष्णुशिवानां च गौर्यादीनां तथासनम् ।
सोपपीठमिहाङ्घ्रिस्थसिंहसिंहासनं स्मृतम् ॥ ७८ ॥
१- 'कं' ग. पाठः.
प्रतिष्ठाविधिः ] अष्टाविंशोऽध्यायः । १९१
दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् ।
प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः ॥ ७९ ॥
इति शिल्परत्ने उत्तरभागे पीठादिलक्षणं नाम
सप्तविंशोऽध्यायः ॥
अथाष्टाविंशोऽध्यायः ।
अथ प्रतिष्ठाविधिः ।
कुर्यात् प्रतिष्ठां सुमुहूर्तलग्ने
देवस्य मन्त्री सुसमाहितात्मा ।
बीजाङ्कुरारोपणमुख्यकर्म-
जालानि कृत्वोचितमूर्तिपान्वितः ॥ १ ॥
सर्वदिङ्मुखसङ्घेषु सर्वदेवेषु सर्वदा ।
अदित्युदित्योः कर्तव्यं मङ्गलाङ्कुरमण्डपम् ॥ २ ॥
संवृतं पश्चिमद्वारं ध्वजयोनिगतं शुभम् ।
तुर्यश्रं वायताश्रं वा वितानपरिशोभितम् ॥ ३ ॥
पात्राणि वापविहितानि पृथग् द्विषड् वा
स्युः पालिकाश्च घटिकाश्च शरावकाश्च ।
तत्त्वाष्टिभानुभिरिह प्रतिमाङ्गुलैस्त-
दुत्सेधक्लप्तिरथ वाष्टिचतुर्दशाकैः ॥ ४ ॥
तत्त्वांशकोनमुदितोच्छ्रयमत्र कृत्वा
षोढा द्वयेन वदने क्रमशः परांशैः ।
तत्पीठ(दण्डगल)सन्धिगलेषु कुर्याद्
दैर्घ्यं पुरोविरहितेन च पीठसन्धौ ॥ ५ ॥
अङ्गुष्ठयूनमंशम(थ ? धि)पीठ(गृ ? मि)हाघ्रिदण्डं
चैके समुच्छ्रयमुशन्त्यपरेऽर्धवृद्धिम् ।
१९२ शिल्परत्ने [उत्तरभागः
पीठेऽङ्घ्रिहीनमपरत्र च शिष्टयुक्त्या
सन्धि गलांशगतमास्यबिलं च कार्यम् ॥ ६ ॥
दण्डे स्वदैर्घ्यकसमं द्विगुणं स्वदैर्घ्याद्
व्यासं परेषु वियुगांशमधः शिरोधेः ।
तत्पीठिकाविततिखण्डमितं च पीठ-
सन्धौ प्रकल्पयतु¹ मङ्गलपालिकायाः ॥ ७ ॥
पीठोच्छ्रयः —
ऊर्द्ध्वार्धक्लृप्तपृथुबुध्नघटोत्तराङ्गे
दिक्षूर्ध्वतश्च घटिका घटितेषुवक्त्रैः ।
वर्णाङ्गुलिप्रततिभिः सुगलैरधोर्धे
तत्पालिकावदुदिताङ्घ्रिससन्धिदण्डा ॥ ८ ॥
अब्ध्यङ्गुलात् समधिके सति पालिकायाः
पीठोच्छ्रये तु घटिकाघटिताङ्घ्रिदण्डौ ।
त्र्यङ्गुलोच्छ्रयनिजोच्चसमप्रतानौ
स्यातामिनाङ्गुलिमितः सकलोच्छ्रयो वा ॥ ९ ॥
व्यासेन दैर्घ्यसुसमं दहनांशहीनं
वास्ये ततो हुतवहांशततं च पीठे ।
कुर्याच्छरावमपकन्धरपालिकाव-
दूर्द्ध्वार्धमस्य घटिकाव(यव ? दथा)धरार्धम् ॥ १० ॥
पीठाग्रकार्श्यपरिशेषितमूलकार्श्य-
वृत्तिक्रियादिरचना सकलेषु कार्या ।
स्युस्तानि लोहरचितान्यथ मार्त्तकानि
पात्राणि विष्णुविधिधूर्जटिदैवतानि ॥ ११ ॥
१. 'त' ग. पाठः.
कुण्डलक्षणम् । अष्टाविंशोऽध्यायः । १९३
देवस्याग्रे सव्यहस्तान्तः स्याद्
नाधिष्ठानं मण्डपं वृद्धभागे ।
साङ्गं मालिन्दकं सौरभाख्यं
द्वारे द्वारे शङ्खजं वाभिचारे ॥ १२ ॥
मण्डपं कलशार्थं यद्विधेयं करोतु तत् ।
अन्तर्मण्डलबाह्यं वा मध्यभागबहिस्तु वा ॥ १३ ॥
अथ कुण्डम् —
दोर्मात्रं परिसूच्य तत्र चतुरश्रं क्षेत्रमर्काङ्गुलं
खात्वा तद्द्विगुणं तु यावदवटं तन्मेखलाः कल्पयेत् ।
मार्ताण्डाहियुगाङ्गुलोच्छ्रययुताः श्रुत्यङ्गुलव्यासिनो-
स्तिस्रोऽन्तः क्रमतो निजावटनिभाद्याब्ध्यश्ररूपेऽवटे
[॥ १४ ॥
योनिं पश्चिममेखलोपरि मितामर्काङ्गुलैरुच्छ्रया-
यत्योः सार्धयुगाङ्गुलैरपि तदूनैस्तैश्च विस्तारतः ।
आम्नायाङ्गुलनालकां ससुषिरां व्याख्यानयोग्याकृतिं
कुर्यात् कुण्डनतां स्वमूलपरिवृत्त्याग्रप्रक्लृप्त्यादिना
[॥ १५ ॥
अथ योनिरूपकुण्डम् —
क्षेत्रेऽत्राब्धिपुटे प्रतीच्यपुटयोः कर्णार्धसूत्रं निजं
संस्थाप्याप्पतिसन्धितः सुपरिवर्त्यार्केन्दुसन्ध्यन्तिमम् ।
ताभ्यां सूत्रयुगं प्रसार्य हरिदिग्बाह्यायतेष्वंशत-
श्छित्त्वेऽन्योन्यमिदं सुयोज्य शिखिकुण्डं योनिरूपं खनेत्
[॥ १६ ॥
AA
१९४ किरणे [उत्तरभागः
अथार्धचन्द्राभम् —
क्षेत्रं विभज्य नवधोदगवाक् च भागौ
त्यक्त्वाचलांशकमितं परिवर्त्य सूत्रम् ।
प्रागादिकाप्यककुबन्तमुदग्भुजां च
तावत् प्रसार्य च तदर्कशिखण्डखण्डम् ॥ १७ ॥
अथ त्रिकोणम् —
षष्ठांशकं यमदिगंघ्रिविदिक्प्रतीत्य
सूत्रे सुयोज्य हरिदिग्बहिरङ्घ्रियित्वा ।
तेनैव तेषु सुविधा च सूत्रपातं
कुर्यात् त्रिकोणपरिकल्पितवह्निकुण्डम् ॥ १८ ॥
अथ वृत्तम् —
कर्णार्धसूत्रस्य भुजार्धतोऽति-
रिक्तांशकार्धं बहिरर्णयित्वा ।
मध्यस्थसूत्रं परिवर्त्य कुण्डं
कुर्वीत चण्डद्युतिमण्डलाभम् ॥ १९ ॥
अथ षट्कोणम् —
अङ्घ्रौ^१ प्रकल्प
स्रुवलक्षणम् ] अष्टाविंशोऽध्यायः । १९५
अथाष्टदलकुण्डम् —
क्षेत्रं प्रकल्प्य फणिभागगुणं समन्तात्
तद्बाहुसूत्रदलतोऽथ परिभ्रमय्य
व्याख्यास्यमानविधिनाष्टदलं लिखित्वा
खात्वा प्रकल्पयतु पद्मनिभं च कुण्डम् । २१ ॥
अथाष्टाश्रम् —
क्षेत्रे तत्र समन्ततो दिनकरांशान् न्यस्य तुर्यश्रिते
कोणेभ्यो भुजसूत्रकेषु निहितैः स्वैः कर्णसूत्रार्धकैः ।
द्वौ द्वौ दिक्षु झषान् प्रकल्प्य भक्तेष्वास्फालितैरष्टभिः
सूत्रैरीश्वरदिङ्मुखे विदधदष्टाश्रकुण्डं सुधीः ॥ २२ ॥
दोर्मात्रकुण्डे विधिरैष शेषे-
षून्नीय तन्वीत तथोक्तमस्मात् ।
कुण्डानि तत्तद्धवनोपपत्त्या
द्वित्रादिदोरत्निमितान्यपि स्युः ॥ २३ ॥
अथ स्रुवलक्षणम् ।
कुर्यात् स्रुवं खादिरजं द्विजदारुजं वा
मित्राङ्गुलं शशधराङ्गुलमस्य वक्त्रम् ।
अङ्गाग्निनेत्रयवदीर्घविताननिम्न-
गर्तद्वयं यवदलाहितनेमिवीतम् ॥ २४ ॥
मूलाग्रशातयवनिम्नबिलार्गलाढ्य-
माश्यानपङ्कगतधेनुपदोपमं च ।
मूले यवाष्टकततं यवहीनमग्रे
दण्डं सुवर्तुलमिलायववेष्टनाग्रम् ॥ २५ ॥
१९६ शिल्परत्ने [उत्तरभागः
मार्ताण्डाङ्गुलदैर्घ्यतत्करदशांशाव्यासतीव्रा जुहू-
र्बाह्यायामशरांशतोऽत्र चतुरश्रं पुष्करं कल्पयेत् ।
अद्ध्यंशाहितमेखलावृतपक्षांशाखातगर्तान्विता
तस्याग्रे गलमर्धविस्तृततदर्धायातमभ्युज्ज्वलम् ॥ २६ ॥
पञ्चांशायततच्चिपादशशिपादव्यासमूलाग्रकं
कुर्याद् व्यासमृगांशखातवृतकुल्योल्लासितं तन्मुखम् ।
तच्छिद्रेण सुवृत्तपुष्करदलव्यासाब्धिमूलानलां-
शोनव्यासयुताग्रकं विरचयेद् दण्डं च गोपुच्छवत्
[॥ २७ ॥
अथ महास्रुक् —
हस्तायामयुगांशविस्तृतितदर्धोत्सेधयुक्ता महा-
स्रुक् स्याद् विस्तृतिदीर्घपुष्करगुणांशाखातवृत्तावटा ।
बाह्याचर्धतदर्धतदलवशाच्छेषे चतुर्धा कृते
कुर्यात् तद्रशनात्रयं त्रिभिरथान्तःस्थैः क्रमादंशकैः ॥ २८ ॥
बाह्येऽर्धे त्रियवं तदर्धमपरेंऽशे तद्दलं चान्यतः
संशोध्यावटमेखलां सुपरिवृत्तां पीठमम्बोजोज्ज्वलम् ।
दण्डं त्र्यंशततं गलं सुविरितं पादत्रिभागातति-
व्यासं पादविहीनपुष्करमितं कुर्याज्जुहूवन्मुखम् ॥ २९ ॥
अथ पद्मं तत्र पूर्वं भद्रकम् ।
एकद्विसागरकरप्रमितानि तानि
स्युर्भद्रकप्रकृतिकान्यथ मण्डलानि ।
मण्डललक्षणम् ] अष्टाविंशोऽध्यायः । १९७
चक्राम्बुजं द्विकरमप्यवरं वरिष्ठं
तद् वेददोःप्रभृति पन्नगहस्तनिष्ठम् ॥ ३० ॥
विकृतिकृतिपुटे षट्त्रिंशतान्तःस्थकोष्ठै-
र्नलिनमवनिपङ्क्त्या पीठिका वीथिकाथ ।
पुटयुगपरिक्लृप्ता द्वारशोभोपशोभा-
श्रियुतपुटयुगल्या मुद्रिता भद्रके स्यात् ॥ ३१ ॥
अब्जक्षेत्रे यवांशं बहिरिह परिनांऽपास्य वृत्तीकृतेऽर्धे
मित्रांशऽग्रार्थमन्तः सुसममथ चतुर्धा विभक्ते दलार्थम् ।
सन्ध्यर्थं केसरार्थं भ्रमयतु परितः कर्णिकार्थं च सूत्रं
दिक्कोणाभ्यन्तरेऽष्टौ क्षिपतु च परितस्तत्र सूत्राणि तिर्यक्
[॥ ३२ ॥]
अग्रादिसन्धिचरमं दलमध्यसंस्थं
सूत्रं सुवर्त्य परिलिख्य दलं तदग्रम् ।
तत्सूत्रतन्मुखतयान्तिमवृत्तसंस्थं
तन्मात्रसूत्रमभिदर्त्य लिखेद् द्विपाश्वें ॥ ३३ ॥
दिशि करयुगकोष्ठैर्द्वारमन्तर्बहिष्ठै-
स्त्रिशशिपदविपर्यस्तैश्च शोभोपशोभे¹ ।
त्रिभुवनपदक्लृप्तं कोणमम्भोजपीठं
श्रुतिदहनपदोद्यद्गात्रपादान्वितं च ॥ ३४ ॥
पीता पङ्कजकर्णिका दलततिः श्वेतान्तरालं हरि-
द्वर्णं रक्तरुचोऽश्रयः सितपदारक्तेक्षकं पीठकम् ।
१. 'भम्' ग. पाठः.
-ण्य-प-दि-शं कु-र्या-द-थ द्वा-द-शा-
1: इ (–, ty makes it guru)
2: त्यष्टा (–)
3: ष्ट (–)
4: प (ᴗ)
5: दै (–? wait, ᴗ required? No, 4=ᴗ, 5=ᴗ, 6=– -> प-दै? no, दै is guru)
Wait, what meter is verse 39?
Line 17: एष्वष्टादशकोष्ठवत्स्वरपदेष्वन्तःस्थषट्काङ्घ्रिगा-
Line 18: न्यन्तर्वृत्तगतैककोच्छुरितपार्श्वेन्दून्तुन्दीनि च ।
Line 19: इत्यष्टाष्टपदैररण्यपदिशं कुर्यादथ द्वादशा-
Line 20: थैतावन्ति हरित्पदानि परिशिष्टान्यन्तरालान्यपि ॥ ३९ ॥
Line 20: थैतावन्ति हरित्पदानि परिशिष्टान्यन्तरालान्यपि ॥ ३९ ॥
Wait! द्वादशा- / थैतावन्ति -> द्वादशाथैतावन्ति!
द्वादश, अथ एतावन्ति!
Let's scan Line 20:
`थै-ता
मण्डललक्षणम्] अष्टाविंशोऽध्यायः । १९९
सत्त्वाद्युक्तसदिक्षुनाभिरुपाख्यातं कृष्णरु-
क्पर्यायारुणपीतरुक्तदधिताम्राद् भद्रकोदिष्टवत् ॥ ४० ॥
अथ शक्तिदण्डः —
धृतिकृतिपुटक्षेत्रे मध्ये द्विपदं विशन्ततो
विकृतिकृतिरजोध्यायैः कौष्ठैः संपरितन्मद्रकम् ।
लिखतु परितः पङ्क्ती रूप्यद्वयं सावशेषकै-
र्दिशि विदिशि च स्त्रोतःसन्ध्याम्भोजप्रभाञ्चलम् ॥ ४१ ॥
मध्येशक्ति षडङ्गेन चाष्टमुष्टिं दिशाश्वत्रिषु
त्यक्त्वा कोणगतैककं पदमुरो मध्यान्त्युक्तस्था¹स्तुना ।
मुष्ट्युद्दिष्टपदान्तपार्श्वयुगदोःसूत्रेण शक्त्यग्रके
तत्तार्तीयककोष्ठमध्यमिलिताग्रेणालिखेद् ह अपि ॥ ४२ ॥
विन्यस्यच्छोटिकां मुष्ट्याङ्कितपदयुङ्मध्यदिक्सूत्रसंस्थां
सूत्रं तावत्प्रमाणं भ्रमयतु बहिरन्तश्च दोःसूत्रसंस्थम् ।
सूत्रं तत्प्रान्तयोस्तद्दलमितमपि संवर्तयेत् कोणसिद्धयै
दिश्येवं कोणमुष्टिं विरचयतु तथा सन्धिभुमावलम्बम्
[॥ ४३ ॥
शक्त्यग्रान्तरमुष्टिशिष्टपदवर्णं रक्तपीतारुणा-
कृष्णं श्यामलकोणगैककविराजद्देवताविग्रहम् ।
शोभे पीतहरिद्रुची विरचयेत्कोणं त्रिशूलोज्ज्वलं
पीतां वीथिमथाङ्घ्रिगात्रमसितारक्तं परं पूर्ववत् ॥ ४४ ॥
अथ षड्दलम् —
कुर्यात् षड्दलमिन्धिवर्गपुटकेऽत्रान्तश्चतुष्कस्फुर-
द्धृत्तेषु त्रिषु कर्णिकां च दलसन्धीन् षड्दलान्यंशकैः ।
१. ‘स्ता’ क., ‘स्का’ ख. पाठः.
२०० शिल्परत्ने [उत्तरभागः
सन्ध्यर्धेऽत्र तु केसरांश्च रचयेद् द्वाराणि दिक्षु द्विकैः
कोणान्येकपदैरितीष्रुजतुषि स्यात् षड्दलं मण्डलम् ॥ ४५ ॥
अथ स्वस्तिकभद्रम्*
नीवारशालिप्रभवं सितं स्याद्
रक्तं कुसुम्भप्रभवं रजश्च ।
गोरोचनोत्थं च मनःशिलाजं
पीतं च शालीप्रभवं च दग्धम् ॥ ४६ ॥
कृष्णं तथा याज्ञिकवृक्षपत्रैः
सङ्कल्पितं श्यामरजः प्रशस्तम् ।
शुक्लं च रक्तं च तथैव कृष्णं
मुख्यं रजस्तत् त्रिगुणात्मकं तत् ॥ ४७ ॥
पुष्ट्यर्थमिष्टं त्वथ मुष्टिना च
सर्वार्थसिद्ध्यै तु कराग्रजैश्च ।
मध्याङ्गुलीतुल्यकृताश्च रेखा-
स्तनमध्यनिम्नं च यवं यथावत् ॥ ४८ ॥
अथ प्रतिष्ठास्थानम् —
कृत्वा गर्भगृहं कुलाद्रिकृतिकोष्ठाढ्यं समन्तात्पदे
ब्राह्मे पञ्चदशांशकान् विरचयेत् सौम्याग्रसूत्रैः समम् ।
तत्पृष्ठस्थितदेवमानुषपिशाचावारकेषु क्रमाद्
विश्रोमेशनवांशकानपि ततः स्वं स्वं पदं कल्पयेत् ॥ ४९ ॥
ब्राह्मेऽशेऽन्तरनन्तरे महति चाल्पे चेशलिङ्गे हरौ
तार्तीये द्रुहिणांशमध्यपदतस्तुर्ये गुहेशाच्युते ।
- इत उपरि मातृकासु पुट एकोऽलेखो दृश्यते ।
प्रतिष्ठास्थानम् । अष्टाविंशोऽध्यायः । २०१
षष्ठे सुम्भजिति प्रतिष्ठितिपदं शार्ङ्गेश्वरे चाष्टमे
प्रोक्तं शास्तरि षोडशे गणपतौ विंशे तथैकोत्तरे ॥ ५० ॥
*मध्ये महालिङ्गमतोऽल्पलिङ्गं
नारायणः शङ्करकेशवश्च ।
तत्रैव षड्वक्त्रनिवासभूमिः
स्याद् वासुदेवोऽश्विनौ च पश्चात् ॥ ५१ ॥
सुखासनं सप्तपदे विदध्या-
दतोऽष्टमे वा हरवासुदेवः ।
ततः परस्मिन् मणिलिङ्गधाम
व्यासस्तथैकादशरुद्रभूमिः ॥ ५२ ॥
सूर्यस्तथाभिर्भिषजौ वसूनां
गणश्च शास्ता प्रहराणि भूयः ।
अष्टादशे मातृनिवासभूमि-
र्नतः परस्तादथवायुधानि ॥ ५३ ॥
स्याद् वाहनं शूकरवामनौ च
लक्ष्मीश्च तत्रैव वसुन्धरा च ।
अनन्तमूर्तिप्रहराणि पञ्च
पश्चादनन्तासनवाहनानि ॥ ५४ ॥
विद्येश्वराश्चानु गणेश्वराश्च
मार्ताण्डचन्द्रौ मुनयः प्रदिष्टाः ।
कृत्वोदङ्मुखमत्र सूत्रमथ मध्योद् द्वारविस्तारत-
स्तूत्कृत्याव्यशतांशकं प्रतिगमय्योदीचि चैन्द्राग्रगम् ।
१. 'मके वि', २. 'त्स्यद्वा' ग. पाठः.
- इत आरभ्य सार्धश्लोकपंचतुष्टयं ख. मातृकायां न दृश्यते.
सर्वेष्वीशहरीशयोः पुनरिदं वार्त्तांशतो¹ वाखिले
दिश्यैश्यां गमयेद् यवं यद्युगं वार्त्तोर्ध्वं सन्धितः ॥५५॥
ब्राह्मे कौतुकमामरे न्यसतु मूलार्चां स्थितामासिता-
मीषन्मानुषसंयुते समनुदेवांशे शयानामपि ।
गर्भे षोडशवर्गभेदिनि पदैर्बाह्यं चतुर्वर्गकै-
स्त्रिद्यैकोन्मितपङ्क्तिभिः सुरनृपैशाचान् प्रकुर्वीत वा ॥ ५६ ॥
ब्राह्मे षोडशमंशकं स्वपुरतो मध्याद् दलाढ्यैककं
वामे चाप्यपहाय वह्निभुवि बिम्बं स्थापयेत् स्थास्नुकम् ।
एवं मानुषमध्यतोऽथ गमयित्वा पृष्ठतो वामत-
श्चांशे स्थापयतु स्वमूलमनुबिम्बं बाहुबेरे विधौ ॥ ५७ ॥
त्रिखण्डलिङ्गस्य ततः प्रतिष्ठां(?)
ब्रह्माश्ममूर्ध्नि विनिधाय पुनश्च मन्त्री ।
उन्नीय मन्दमथ यन्त्रगतं च पीठं
स्थाने प्रविन्यसतु तत्र समाहितात्मा ॥ ५८ ॥
पीठप्रतिष्ठां विनिधाय पूर्वं
पश्चात् स्वबिम्बं त्वथ निष्कलेषु ।
सर्वेषु तत्तत्परिवारजालं
जीर्णोद्धारः ] एकोनत्रिंशोऽध्यायः । २०३
बल्यर्चा चोत्सवार्चा च तीर्थयात्रार्थकल्पिता ।
स्वापोत्थानकृता चेति चतस्रस्तूपबेरकाः ॥ ६१ ॥
कर्मार्चा स्नपनार्चा च बहुबेरेऽधिकं द्वयम् ॥ ६२ ॥
इति शिल्परत्ने उत्तरभागे प्रतिष्ठाविधानं नाम
अष्टाविंशोऽध्यायः ।
अथैकोनत्रिंशोऽध्यायः ।
अथ जीर्णोद्धारः ।
आकल्पान्तस्थास्नुभावेन भक्त्या
देवस्यैवं सम्प्रतिष्ठापितस्य ।
प्रासादादिस्वाङ्गजीर्त्तिर्यदि स्या-
दुद्धृत्यातस्तं नवाङ्गीकरोतु ॥ १ ॥
जीर्णोद्धृतिं स्थापितमन्त्रबिम्ब-
गृहादिजीर्त्तौ सपदीति कुर्यात् ।
दुःस्थोऽन्यथा चेद् विपदे तथा चेत्
सुस्थोऽत्र देवो यदि सम्पदे स्यात् ॥ २ ॥
जीर्णोद्धारविधिं वदामि शिथिले जीर्णेऽथ दग्धेऽथवा
प्रासादे स्फुटिते विपर्ययगते लिङ्गेऽथवा चोभये ।
ऐशान्यां दिशि तस्य गेहमभितः कृत्वा नवं मन्दिरं
तत्पार्श्वे चतुरश्रकं च पुरतः कुर्यात् पुनर्मण्डपम् ॥ ३ ॥
ऐन्द्रेशानविभागे वा सोमेशा(न ? ना)न्तरेऽपि वा ।
कृत्वा काष्ठमयं गेहमल्पं प्राकारबाह्यतः ॥ ४ ॥
१. 'सु' क. पाठः. २. 'रि' ग. पाठः.
The provided image is completely blank (solid white) and contains no text to transcribe.
जीर्णोद्धारः ] एकोनत्रिंशोऽध्यायः २०५
मानतुङ्गत्वहानिश्च वृद्धिश्चापि न शस्यते
जानिच्छन्दविकल्पानां व्यास्थानं वस्तुनो हि ॥ १२ ॥
स्वयम्भूदैविकार्षाणां... प्राक्तनानां च
जीवापतितं मन्ये... ( ? ) ॥ १३ ॥
द्वारप्राकारपीठानां...
परिवारं च तत्स्थाने... मुचितं लक्षणम् ॥ १४ ॥
सलक्षणं प्रकुर्वीत...
स्वायम्भुवादीनां च निष्कलं सकलं तु वा ॥ १५ ॥
स्थानान्न चालयेल्लिङ्गं पूर्वैस्संस्थापितं स्थितिः ।
नद्यब्धिजलवाताद्यैर्हृते वा चलितेऽपि वा ॥ १६ ॥
तस्मात् सहस्रदण्डान्तं क्षेमे संस्थापयेत् पुनः ।
तदेव तदभावे तु पूर्वलिङ्गसमं नवम् ॥ १७ ॥
पूर्वतुल्यविमाने तु प्रायश्चित्तानन्तरम् ।
प्रतिष्ठितं भवेद् वृद्ध्यै राजराष्ट्रप्रजाहितम् ॥ १८ ॥
तत्र मूलालयस्थानाद् (या ? य)माग्निमरुतां दिशम् ।
त्यक्त्वा यथेष्टमन्यत्र विधिना स्थापयेद् दिशि ॥ १९ ॥
यमे (भ ? क)र्तृनृपस्याप(: ? द्) मरुद् (मे ? न्यो) र्जनक्षयः।
तस्मात् ते परिहृत्यैव चलितस्थापनं हितम् ॥ २० ॥
छन्दानां प्राक्तना(ष्ठा ? त् स्थाना)त् प्राग्वोदक् परितो-
ऽधिकम् ।
मानोन्मानप्रमाणोच्चं तलाधिक्यं च शस्यते ॥ २१ ॥
पूर्वस्माद्धीनमानाद्यं स्थानं कर्तृनृपाहितम् ।
द्वारभित्यङ्कणादीनां गोपनं च विनाशकृत् ॥ २२ ॥