शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 210, कुल 280 में से
संदर्भ में पढ़ेंप्रतिष्ठाविधिः ] अष्टाविंशोऽध्यायः । १९१
दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् ।
प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः ॥ ७९ ॥
इति शिल्परत्ने उत्तरभागे पीठादिलक्षणं नाम
सप्तविंशोऽध्यायः ॥
अथाष्टाविंशोऽध्यायः ।
अथ प्रतिष्ठाविधिः ।
कुर्यात् प्रतिष्ठां सुमुहूर्तलग्ने
देवस्य मन्त्री सुसमाहितात्मा ।
बीजाङ्कुरारोपणमुख्यकर्म-
जालानि कृत्वोचितमूर्तिपान्वितः ॥ १ ॥
सर्वदिङ्मुखसङ्घेषु सर्वदेवेषु सर्वदा ।
अदित्युदित्योः कर्तव्यं मङ्गलाङ्कुरमण्डपम् ॥ २ ॥
संवृतं पश्चिमद्वारं ध्वजयोनिगतं शुभम् ।
तुर्यश्रं वायताश्रं वा वितानपरिशोभितम् ॥ ३ ॥
पात्राणि वापविहितानि पृथग् द्विषड् वा
स्युः पालिकाश्च घटिकाश्च शरावकाश्च ।
तत्त्वाष्टिभानुभिरिह प्रतिमाङ्गुलैस्त-
दुत्सेधक्लप्तिरथ वाष्टिचतुर्दशाकैः ॥ ४ ॥
तत्त्वांशकोनमुदितोच्छ्रयमत्र कृत्वा
षोढा द्वयेन वदने क्रमशः परांशैः ।
तत्पीठ(दण्डगल)सन्धिगलेषु कुर्याद्
दैर्घ्यं पुरोविरहितेन च पीठसन्धौ ॥ ५ ॥
अङ्गुष्ठयूनमंशम(थ ? धि)पीठ(गृ ? मि)हाघ्रिदण्डं
चैके समुच्छ्रयमुशन्त्यपरेऽर्धवृद्धिम् ।