शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 219, कुल 280 में से
संदर्भ में पढ़ें२०० शिल्परत्ने [उत्तरभागः
सन्ध्यर्धेऽत्र तु केसरांश्च रचयेद् द्वाराणि दिक्षु द्विकैः
कोणान्येकपदैरितीष्रुजतुषि स्यात् षड्दलं मण्डलम् ॥ ४५ ॥
अथ स्वस्तिकभद्रम्*
नीवारशालिप्रभवं सितं स्याद्
रक्तं कुसुम्भप्रभवं रजश्च ।
गोरोचनोत्थं च मनःशिलाजं
पीतं च शालीप्रभवं च दग्धम् ॥ ४६ ॥
कृष्णं तथा याज्ञिकवृक्षपत्रैः
सङ्कल्पितं श्यामरजः प्रशस्तम् ।
शुक्लं च रक्तं च तथैव कृष्णं
मुख्यं रजस्तत् त्रिगुणात्मकं तत् ॥ ४७ ॥
पुष्ट्यर्थमिष्टं त्वथ मुष्टिना च
सर्वार्थसिद्ध्यै तु कराग्रजैश्च ।
मध्याङ्गुलीतुल्यकृताश्च रेखा-
स्तनमध्यनिम्नं च यवं यथावत् ॥ ४८ ॥
अथ प्रतिष्ठास्थानम् —
कृत्वा गर्भगृहं कुलाद्रिकृतिकोष्ठाढ्यं समन्तात्पदे
ब्राह्मे पञ्चदशांशकान् विरचयेत् सौम्याग्रसूत्रैः समम् ।
तत्पृष्ठस्थितदेवमानुषपिशाचावारकेषु क्रमाद्
विश्रोमेशनवांशकानपि ततः स्वं स्वं पदं कल्पयेत् ॥ ४९ ॥
ब्राह्मेऽशेऽन्तरनन्तरे महति चाल्पे चेशलिङ्गे हरौ
तार्तीये द्रुहिणांशमध्यपदतस्तुर्ये गुहेशाच्युते ।
- इत उपरि मातृकासु पुट एकोऽलेखो दृश्यते ।