सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 211, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 211

१९२ शिल्परत्ने [उत्तरभागः
पीठेऽङ्घ्रिहीनमपरत्र च शिष्टयुक्त्या
सन्धि गलांशगतमास्यबिलं च कार्यम् ॥ ६ ॥
दण्डे स्वदैर्घ्यकसमं द्विगुणं स्वदैर्घ्याद्
व्यासं परेषु वियुगांशमधः शिरोधेः ।
तत्पीठिकाविततिखण्डमितं च पीठ-
सन्धौ प्रकल्पयतु¹ मङ्गलपालिकायाः ॥ ७ ॥
पीठोच्छ्रयः —
ऊर्द्ध्वार्धक्लृप्तपृथुबुध्नघटोत्तराङ्गे
दिक्षूर्ध्वतश्च घटिका घटितेषुवक्त्रैः ।
वर्णाङ्गुलिप्रततिभिः सुगलैरधोर्धे
तत्पालिकावदुदिताङ्घ्रिससन्धिदण्डा ॥ ८ ॥
अब्ध्यङ्गुलात् समधिके सति पालिकायाः
पीठोच्छ्रये तु घटिकाघटिताङ्घ्रिदण्डौ ।
त्र्यङ्गुलोच्छ्रयनिजोच्चसमप्रतानौ
स्यातामिनाङ्गुलिमितः सकलोच्छ्रयो वा ॥ ९ ॥
व्यासेन दैर्घ्यसुसमं दहनांशहीनं
वास्ये ततो हुतवहांशततं च पीठे ।
कुर्याच्छरावमपकन्धरपालिकाव-
दूर्द्ध्वार्धमस्य घटिकाव(यव ? दथा)धरार्धम् ॥ १० ॥
पीठाग्रकार्श्यपरिशेषितमूलकार्श्य-
वृत्तिक्रियादिरचना सकलेषु कार्या ।
स्युस्तानि लोहरचितान्यथ मार्त्तकानि
पात्राणि विष्णुविधिधूर्जटिदैवतानि ॥ ११ ॥
१. 'त' ग. पाठः.