सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 222, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 222

जीर्णोद्धारः ] एकोनत्रिंशोऽध्यायः । २०३
बल्यर्चा चोत्सवार्चा च तीर्थयात्रार्थकल्पिता ।
स्वापोत्थानकृता चेति चतस्रस्तूपबेरकाः ॥ ६१ ॥
कर्मार्चा स्नपनार्चा च बहुबेरेऽधिकं द्वयम् ॥ ६२ ॥
इति शिल्परत्ने उत्तरभागे प्रतिष्ठाविधानं नाम
अष्टाविंशोऽध्यायः ।
अथैकोनत्रिंशोऽध्यायः ।
अथ जीर्णोद्धारः ।
आकल्पान्तस्थास्नुभावेन भक्त्या
देवस्यैवं सम्प्रतिष्ठापितस्य ।
प्रासादादिस्वाङ्गजीर्त्तिर्यदि स्या-
दुद्धृत्यातस्तं नवाङ्गीकरोतु ॥ १ ॥
जीर्णोद्धृतिं स्थापितमन्त्रबिम्ब-
गृहादिजीर्त्तौ सपदीति कुर्यात् ।
दुःस्थोऽन्यथा चेद् विपदे तथा चेत्
सुस्थोऽत्र देवो यदि सम्पदे स्यात् ॥ २ ॥
जीर्णोद्धारविधिं वदामि शिथिले जीर्णेऽथ दग्धेऽथवा
प्रासादे स्फुटिते विपर्ययगते लिङ्गेऽथवा चोभये ।
ऐशान्यां दिशि तस्य गेहमभितः कृत्वा नवं मन्दिरं
तत्पार्श्वे चतुरश्रकं च पुरतः कुर्यात् पुनर्मण्डपम् ॥ ३ ॥
ऐन्द्रेशानविभागे वा सोमेशा(न ? ना)न्तरेऽपि वा ।
कृत्वा काष्ठमयं गेहमल्पं प्राकारबाह्यतः ॥ ४ ॥
१. 'सु' क. पाठः. २. 'रि' ग. पाठः.