सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 205, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 205

१८५ शिल्परत्ने [उत्तरभागः
पट्टमर्धेन कण्ठोऽशः कम्पोऽर्धेनार्धमम्बुजम् ।
द्व्यंशं वाजनमर्धेन पद्मं क्षेपणमर्धतः ॥ ३४ ॥
एतद्धि रुद्रकान्ताख्यं पीठमुक्तं सुशोभनम् ।
अतिधृत्यंशिते पीठे भागं भूतमंशकौ ॥ ३५ ॥
वप्रं महाब्जं वेदांशैर्धृगर्धं वेत्रमंशतः ।
अर्धं गलं चार्धमब्जं वृत्तमध्यर्धतो भवेत् ॥ ३६ ॥
अर्धेनोर्ध्वदलं कुर्याद् वेत्रमंशं धृगर्धतः ।
अंशेन वेत्रं सार्धांशैस्त्रिभिरूर्ध्वाम्बुजं भवेत् ॥ ३७ ॥
अध्यर्धं घृतभृच्चेति सोमकान्तमुदीरितम् ।
पीठोच्चे षोडशांशे तु भागाभ्यां मूलपट्टिका ॥ ३८ ॥
महापद्मं तु वेदांशैर्धृगर्धेनांशतो गलम् ।
अर्धेन पद्मं वृत्तं तु (भागेनार्धेन पङ्कजम् ॥ ३९ ॥
धृगर्धमूर्ध्वपद्मं तु) चतुर्भिरथ पट्टिका ।
द्व्यंशेन घृतभृत् प्रोक्तमेतत् सर्वाङ्गभद्रकम् ॥ ४० ॥
पीठोच्चे षोडशांशेऽङ्घ्रिशरार्धकार्धसागरैः ।
नेत्रेन्दुभिर्जगत्यब्जधृग्वेत्रं धृक् चपङ्कजम् ॥ ४१ ॥
पट्टिका चाज्यभृच्चेति श्रीकरे स्याद् यथाक्रमम् ।
एकस्मिन्नेव सार्धांशाज्जगत्यर्धेन कम्पकम् ॥ ४२ ॥
(पट्टिकाधः स्ववेदांशात् सकम्पा पुष्टिवर्धने ।
पीठोदये षोडशांशे खुरं द्व्यंशमथार्धतः ॥ ४३ ॥
क्षेपणं सार्धवेदांशैः) पद्ममर्धेन कम्पकम् ।
धृगर्धे वज्रमेकं स्यादूर्ध्वाब्जं वेदभागतः ॥ ४४ ॥