सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 212, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 212

कुण्डलक्षणम् । अष्टाविंशोऽध्यायः । १९३
देवस्याग्रे सव्यहस्तान्तः स्याद्
नाधिष्ठानं मण्डपं वृद्धभागे ।
साङ्गं मालिन्दकं सौरभाख्यं
द्वारे द्वारे शङ्खजं वाभिचारे ॥ १२ ॥
मण्डपं कलशार्थं यद्विधेयं करोतु तत् ।
अन्तर्मण्डलबाह्यं वा मध्यभागबहिस्तु वा ॥ १३ ॥
अथ कुण्डम् —
दोर्मात्रं परिसूच्य तत्र चतुरश्रं क्षेत्रमर्काङ्गुलं
खात्वा तद्द्विगुणं तु यावदवटं तन्मेखलाः कल्पयेत् ।
मार्ताण्डाहियुगाङ्गुलोच्छ्रययुताः श्रुत्यङ्गुलव्यासिनो-
स्तिस्रोऽन्तः क्रमतो निजावटनिभाद्याब्ध्यश्ररूपेऽवटे
[॥ १४ ॥
योनिं पश्चिममेखलोपरि मितामर्काङ्गुलैरुच्छ्रया-
यत्योः सार्धयुगाङ्गुलैरपि तदूनैस्तैश्च विस्तारतः ।
आम्नायाङ्गुलनालकां ससुषिरां व्याख्यानयोग्याकृतिं
कुर्यात् कुण्डनतां स्वमूलपरिवृत्त्याग्रप्रक्लृप्त्यादिना
[॥ १५ ॥
अथ योनिरूपकुण्डम् —
क्षेत्रेऽत्राब्धिपुटे प्रतीच्यपुटयोः कर्णार्धसूत्रं निजं
संस्थाप्याप्पतिसन्धितः सुपरिवर्त्यार्केन्दुसन्ध्यन्तिमम् ।
ताभ्यां सूत्रयुगं प्रसार्य हरिदिग्बाह्यायतेष्वंशत-
श्छित्त्वेऽन्योन्यमिदं सुयोज्य शिखिकुण्डं योनिरूपं खनेत्
[॥ १६ ॥
AA