शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 224, कुल 280 में से
संदर्भ में पढ़ेंजीर्णोद्धारः ] एकोनत्रिंशोऽध्यायः २०५
मानतुङ्गत्वहानिश्च वृद्धिश्चापि न शस्यते
जानिच्छन्दविकल्पानां व्यास्थानं वस्तुनो हि ॥ १२ ॥
स्वयम्भूदैविकार्षाणां... प्राक्तनानां च
जीवापतितं मन्ये... ( ? ) ॥ १३ ॥
द्वारप्राकारपीठानां...
परिवारं च तत्स्थाने... मुचितं लक्षणम् ॥ १४ ॥
सलक्षणं प्रकुर्वीत...
स्वायम्भुवादीनां च निष्कलं सकलं तु वा ॥ १५ ॥
स्थानान्न चालयेल्लिङ्गं पूर्वैस्संस्थापितं स्थितिः ।
नद्यब्धिजलवाताद्यैर्हृते वा चलितेऽपि वा ॥ १६ ॥
तस्मात् सहस्रदण्डान्तं क्षेमे संस्थापयेत् पुनः ।
तदेव तदभावे तु पूर्वलिङ्गसमं नवम् ॥ १७ ॥
पूर्वतुल्यविमाने तु प्रायश्चित्तानन्तरम् ।
प्रतिष्ठितं भवेद् वृद्ध्यै राजराष्ट्रप्रजाहितम् ॥ १८ ॥
तत्र मूलालयस्थानाद् (या ? य)माग्निमरुतां दिशम् ।
त्यक्त्वा यथेष्टमन्यत्र विधिना स्थापयेद् दिशि ॥ १९ ॥
यमे (भ ? क)र्तृनृपस्याप(: ? द्) मरुद् (मे ? न्यो) र्जनक्षयः।
तस्मात् ते परिहृत्यैव चलितस्थापनं हितम् ॥ २० ॥
छन्दानां प्राक्तना(ष्ठा ? त् स्थाना)त् प्राग्वोदक् परितो-
ऽधिकम् ।
मानोन्मानप्रमाणोच्चं तलाधिक्यं च शस्यते ॥ २१ ॥
पूर्वस्माद्धीनमानाद्यं स्थानं कर्तृनृपाहितम् ।
द्वारभित्यङ्कणादीनां गोपनं च विनाशकृत् ॥ २२ ॥