शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 214, कुल 280 में से
संदर्भ में पढ़ेंस्रुवलक्षणम् ] अष्टाविंशोऽध्यायः । १९५
अथाष्टदलकुण्डम् —
क्षेत्रं प्रकल्प्य फणिभागगुणं समन्तात्
तद्बाहुसूत्रदलतोऽथ परिभ्रमय्य
व्याख्यास्यमानविधिनाष्टदलं लिखित्वा
खात्वा प्रकल्पयतु पद्मनिभं च कुण्डम् । २१ ॥
अथाष्टाश्रम् —
क्षेत्रे तत्र समन्ततो दिनकरांशान् न्यस्य तुर्यश्रिते
कोणेभ्यो भुजसूत्रकेषु निहितैः स्वैः कर्णसूत्रार्धकैः ।
द्वौ द्वौ दिक्षु झषान् प्रकल्प्य भक्तेष्वास्फालितैरष्टभिः
सूत्रैरीश्वरदिङ्मुखे विदधदष्टाश्रकुण्डं सुधीः ॥ २२ ॥
दोर्मात्रकुण्डे विधिरैष शेषे-
षून्नीय तन्वीत तथोक्तमस्मात् ।
कुण्डानि तत्तद्धवनोपपत्त्या
द्वित्रादिदोरत्निमितान्यपि स्युः ॥ २३ ॥
अथ स्रुवलक्षणम् ।
कुर्यात् स्रुवं खादिरजं द्विजदारुजं वा
मित्राङ्गुलं शशधराङ्गुलमस्य वक्त्रम् ।
अङ्गाग्निनेत्रयवदीर्घविताननिम्न-
गर्तद्वयं यवदलाहितनेमिवीतम् ॥ २४ ॥
मूलाग्रशातयवनिम्नबिलार्गलाढ्य-
माश्यानपङ्कगतधेनुपदोपमं च ।
मूले यवाष्टकततं यवहीनमग्रे
दण्डं सुवर्तुलमिलायववेष्टनाग्रम् ॥ २५ ॥