सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 206, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 206

पीठलक्षणम् ] सप्तविंशोऽध्यायः । १८७
अ(धः ? र्ध) क्षेपगमंशौ द्वौ पट्टिकार्धेन चाज्यधृक् ।
सामान्यं नागरादीनां सौम्यं पीठमिदं स्मृतम् ॥ ४५ ॥
एवं द्वादशभेदेन पीठानां लक्ष्म वर्णितम् ।
अथ सामान्यपीठं —
द्व्यष्टांशे शिवपीठेके क्षितिशराब्धीन्द्वंशकैः पादुकं
प्राग्ध्याज्जगतीं तथा कुमुदकं तत्पट्टिकां च क्रमात् ।
अंशाभ्यां गलमंशकेन गलपट्टिं जागतेऽध्यंशिनि
ग्रीवान्तेऽर्धयुतद्वयेन वलभिं शिष्टेन पट्टिं सदा ॥ ४६ ॥
चतुर्दशप्रकारेण पीठानीत्यब्रवीन्मयः ॥ ४७ ॥
वेदर्तुवसुसूर्याश्रैः षोडशाश्रं च वर्तुलम् ।
एतेषामायतैः षड्भिस्त्र्यश्रं चार्धेन्दुसन्निभम् ॥ ४८ ॥
पीठे मुक्त्वा प्रतिष्ठाविधिमुदधिविभागं विधायावशिष्टं
द्वाभ्यामाधाय पाथोवलयमुदकधात्रीं विधायांशकेन ।
शिष्टेनाधाय तद्वेष्टनमथ तदुद्(यः ? क्) त्र्यंशविस्तारदैर्घ्यं
कुर्यादष्टाश्रमाशांशककृतजलकुल्यं कृशाग्रं प्रनालम्॥४९॥
प्राक्प्रत्यङ्मुखबिम्बानां पीठमुत्तरनालकम् ।
दक्षिणोदङ्मुखानां तु पूर्वनालं प्रकल्पयेत् ॥ ५० ॥
पीठव्यासत्रिवेदांशं नालमूलस्य विस्तृतम् ।
आयामं तत्समं तस्मात् त्रिचतुर्भागहापनात् ॥ ५१ ॥
कुर्यान्नालाग्रविस्तारं तन्मूलविकृतौ पुनः ।
मूलादर्धत्रिभागं वा गोमुखाकारमाचरेत् ॥ ५२ ॥