सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

२०६ शिल्परत्ने [उत्तरभागः
विनष्टवस्तुनो गर्भं त्यक्त्वा गर्भं न्यसेत् पुनः ।
अधिष्ठानादिकं प्राग्वत् कुर्यात् स्तम्भादिकानपि ॥ २३ ॥
यदि तत्प्राक्तनद्रव्यैर्निर्माथं चेद् गृहादिकम् ।
प्रारभ्यादौ नवद्रव्यैः पुराणैर्योजयेत् ततः ॥ २४ ॥
योगं नैवैर्नवैरिष्टं पुराणानां पुरातनैः ।
मिश्रयोगे विनाशः स्यादतो मिश्रं न कारयेत् ॥ २५ ॥
पुरग्रामाल्यादीनि पूर्ववस्त्वनुरूपतः ।
तद्वाधिकं ++++ कुलनाशकरं त्यजेत् ॥ २६ ॥
अन्तहाराबहिर्मूलादल्पलिङ्गालयादिकम् ।
कुर्वीत वान्तः सालस्य यथा मूलं न पीडयेत् ॥ २७ ॥
मूलालयसमं क्षुद्रमधिकं तन्न शस्यते ।
शस्तमर्धं च पादोनं शरांशे¹ त्र्यंशमेव वा ॥ २८ ॥
शिखिविशिखसुषिरभक्ते मूलगृहे मूलबिम्बे च ।
नेत्राग्निभूतभागैर्बालगृहं बालबिम्बं च ॥ २९ ॥
दोषे लघुतरं बिम्बं नैव त्याज्यं कदाचन ।
बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥ ३० ॥
तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते ।
वैरूप्यं जायते यस्य तत् त्याज्यं प्रायशो भवेत् ॥ ३१ ॥
अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः ।
महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि ॥ ३२ ॥
तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥ ३३ ॥
१. 'शं' क. ग. पाठः.

! PERFECT!
वा (-) : ग (heavy -)! PERFECT!
It is 100% Śārdūlavikrīḍita!

Now let's apply Śārdūlavikrīḍita to Line 2!
म-गण (---):
गो (-) सर् (-) पिः (-)
स-गण (u u -):
स्ना (wait, स्ना is heavy! How can it be u u -?)
Wait, is it "गोसर्पिःस्नापितं"?
Wait, गोसर्पिःप्लावितं?
Wait, if it's Śārdūlavikrīḍita:
1 2 3: गो (-) सर् (-) पिः (-)
4 5 6: u u -
Wait, स्ना cannot be u. But in text, look at the text:
गोसर्पिःस्नापितं -> wait, the letter is स्ना? Look at it:
Is it स्ना? It has स्ना with ना attached to स.
Wait, look at line 4:
छित्त्वा नाल्पमिदं विशीय बहुधा नौकौतुकं कल्पयेत्
1 2 3: छि (-) त्त्वा (-) नाल् (-) (---) : म-गण!
4 5 6: प (u) मि (

२०८ शिल्परत्ने [उत्तरभागः
तद्व्यासत्रिगुणं गर्भगेहविस्तारमानकम् ।
गर्भार्धं कुड्यविस्तारमलिन्दं तत्समं भवेत् ॥ ६ ॥
गर्भगेहे द्विभागैऽशमलिन्दव्यासमेव वा ।
हारा तत्सममाख्याता हारालिन्दं विना तु वा ॥ ७ ॥
शान्तिकाद्युदयं प्राग्वत् कल्पयेत् कल्पवित्तमः ।
त्रिगुणं लिङ्गविष्कम्भं पीठव्यासमथापि वा ॥ ८ ॥
त्रिगुणं पीठतारेण गर्भगेहविशालकम् ।
तदर्थं तत्रिभागं वा भित्तिविष्कम्भमानकम् ॥ ९ ॥
शान्तिकाद्युदयं प्राग्वत् प्रासादे परिकल्पयेत् ।
अथ पूजांशपरिधेः षोडशांशाशुगांशकम् ॥ १० ॥
तल्लिङ्गबहलं (म ? मा) त्वा तत्कर्णद्विगुणार्धकम् ।
द्विगुणं वा तथाध्यर्धं पीठव्यासं प्रकल्पयेत् ॥ ११ ॥
गर्भगेहस्य विस्तारं तेन द्वित्रिचतुर्गुणम् ।
तदर्थं वा त्रिभागं वा कुड्यं गर्भसमं तु वा ॥ १२ ॥
त्रिभागद्वितयं वाथ प्राग्वदुच्चार्थमाचरेत् ।
पूजांशनाहसदृशं पीठविस्तारमेव वा ॥ १३ ॥
गर्भगेहविशालं तु तेन द्वित्रिचतुर्गुणम् ।
तदर्थं वा त्रिभागं वा कुड्यं गर्भसमं तु वा ॥ १४ ॥
नाडीगृहसमं वाथ त्रिपादं वार्धमेव वा ।
पादं वाथ त्रिभागं वा कुर्यात् पूर्ववदुन्नतम् ॥ १५ ॥
अथ पूजांशनाहस्य कर्णं पीठविशालकम् ।
तेन द्वित्रिगुणं वाथ गर्भगेहं चतुर्गुणम् ॥ १६ ॥
१. 'र्ध' ग. पाठः.

मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २०९
तदर्धं कुड्यविष्कम्भं त्रिचतुष्पञ्चभागिकम् ।
शान्तिकाद्युदयं प्राग्वदाचरेच्छिल्पवित्तमः ॥ १७ ॥
पूजांशोच्चस्य कर्णेन कार्यं वा पीठविस्तृतम् ।
गर्भाळयविशालं तु तेन द्वित्रिचतुर्गुणम् ॥ १८ ॥
तथा पञ्चगुणं तेन त्रिचतुष्पञ्चभागतः ।
षड्भागेनापि कुड्यस्य तारमन्यद् यथोदितम् ॥ १९ ॥
पूजांशबहलं द्विघ्नं यत् तत्कर्णेन पीठिकाम् ।
तद्वद् द्वित्रिगुणं वाथ गर्भगेहं चतुर्गुणम् ॥ २० ॥
तस्य त्रिभागं कुड्यं वा चतुष्पञ्चांशकं तु वा ।
शान्तिकाद्युदयं प्राग्वदेवं सकललिङ्गके ॥ २१ ॥
पादाद्युष्णीषपर्यन्तं पीठतारं प्रकल्पयेत् ।
नासान्तं चिबुकान्तं वा तेन गर्भाळयादिकम् ॥ २२ ॥
प्रकल्प्य पञ्चप्राकाराद्यखिलं पूर्वमुक्तवत् ।
गर्भन्यासादिकं कृत्वा प्रतिष्ठाप्रक्रियां विना ॥ २३ ॥
सर्वं कृत्वा यथान्यायं पूजयेत् परमेश्वरम् ॥ २३१/२ ॥
इति शिल्परत्ने उत्तरभागे लिङ्गप्रासादकरणं नाम
त्रिंशोऽध्यायः ॥

अथ एकत्रिंशोऽध्यायः ।
अथ मनुष्यालयविधिः ।
एककुटुम्बसमेतं ग्रामं कुटिकाख्यमिति पूर्वमेवोक्तम् ।
तत्सङ्ग्रहविस्तारं लक्षणतः कथ्यतेऽत्र मुनिगदितम् ॥ १ ॥
CC

२१० शिल्परत्ने [उत्तरभागः
पूर्वोक्तलक्षणैः सम्यक् परीक्ष्य बहुधा बुधः ।
स्वस्वयोग्या शुभा भूमि पूर्ववत् परिगृह्यताम् ॥ २ ॥
तद्विस्तारं पृथग् वक्ष्ये वर्णिनां दण्डमानतः ।
पञ्चाशद्दण्डमानं वा त्रिंशद् वा कथितं बुधैः ॥ ३ ॥
चत्वारिंशच्च वा कुर्यान्नृपाणां वेदविस्तृतम् ।
द्वाविंशद्दण्डमानं वा त्रिंशद् वा तत् प्रकीर्तितम् ॥ ४ ॥
त्रयस्त्रिंशदथ प्रोक्तं द्विजानां वेदविस्तृतम् ।
एकोनविंशत् त्रिंशद् वा द्वात्रिंशद् दण्डमानकम् ॥ ५ ॥
वैश्यानां वेदिविस्तारः कथितः शिल्पकोविदैः ।
पञ्चविंशच्च विंशच्च दण्डमानमुदाहृतम् ॥ ६ ॥
पञ्चादशाथ वा कुर्याच्छूद्राणां वेदविस्तृतम् ।
उत्तमं चाधमं चापि मध्यमं च यथाक्रमम् ॥ ७ ॥
यदुक्तं वेदिविस्तारमायामं चापि तत्समम् ।
दक्षिणोत्तरमायामं वास्तोः सर्वत्र कीर्तितम् ॥ ८ ॥
अथवा समतुर्यश्रं विप्राणां क्षत्रियस्य तु ।
अष्टांशाधिकमायामं षड्भागेनाधिकं विशाम् ॥ ९ ॥
शूद्राणामब्धिभागैकमधिकं स्वस्वतारतः ।
मुखायामप्रमाणार्धं दक्षिणे चोत्तरेऽपिच ॥ १० ॥
हित्वा तु समतुर्यश्रं वास्तोर्मध्ये समाचरेत् ।
द्रष्टव्यान्यत्र मर्माणि वीथ्याद्या वास्तुदेवताः ॥ ११ ॥
ग्रामोक्तवत् प्रकर्तव्यं द्वारं प्रत्यन्तगं पुनः ।
यत्रोन्नतं ततो द्वारं यत्र नीचं ततो गृहम् ॥ १२ ॥

मनुष्यालयविधिः] एकत्रिंशोऽध्यायः । २११
दण्डार्ते प्राङ्गणमध्यतोऽधिशरषट्सप्तादिसंख्यानती-
त्यादध्यादथ पौष्पदन्तिकपदे द्वारं प्रचारोचितम् ।
भल्लाटे(ऽथ ? न्द्र)गृहक्षतेष्वपि महाद्वाराण्युपद्वारका-
ण्यष्टाशान्तभृशादिकेषु परितः पर्जन्यमित्रेष्वपि ॥ १३ ॥
द्वारं यत्र च विहितं
तद्दिगधीशाधिपं भवेद् धाम ।
एकतलं वा द्वितलं
द्वितले द्विमुखं च निर्मुखं वा स्यात् ॥ १४ ॥
द्वारस्तम्भन्यासो जन्मनि तस्योदितं च शिल्पिवरैः ।
अथ तद्वास्तुपरिधेः सीम्नि कुर्याद् वृत्तिं बुधः ।
रक्षार्थं लक्षणार्थं च सीमार्थं च स्वशक्तितः ॥ १५ ॥
वृत्तिपादस्य तु बहलं कुर्याद् विस्तारबाह्यतः पश्चात् ॥ १६ ॥
सौत्रं बहलार्धं यत् तावद्बहलं च कारयेत् तलिपम् ।
तत्र च वप्रं कुर्यात् तुर्यश्रं द्वारगेहसदृशमपि ॥ १७ ॥
यद्वा परिघं कुर्यात् पाषाणैर्बद्धभित्तिसमचतुरम् ।
कण्टकशाखाभिर्वा वृत्तिमथ करभेक्षणाक्षमं कुर्यात् ॥ १८ ॥
आवृत्यन्तर्भागे दिक्षु च वृक्षाः पुरोक्तवज् ज्ञेयाः ।
सूत्रे प्रागुदगग्रके क्षितितले कृत्वा चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसतिं शार्वेऽथ वा नैर्ऋते ।
खण्डेऽस्मिन् सति सम्भवे पुनरपि श्रुत्यंशिते ब्रह्मसू-
त्राभ्याशे शुभवास्तुवीथिपदक्लृप्त्याद्यं पुनश्चोन्नयेत् ॥ १९ ॥
१. 'न्' ख. पाठः.

२१२ शिल्परत्ने [उत्तरभागः
पूर्वापरगतं सूत्रं ब्रह्मसूत्रमिति स्मृतम् ।
याम्योत्तरगतं मध्ये यमसूत्रं विदुर्बुधाः ॥ २० ॥
निर्ऋतीशगतं कर्णसूत्रं वाय्वग्निगं मृतिः ॥ २१॥
नन्दद्वन्द्वपुटे नवावृतितया बाह्यादिमध्यान्तिमा
वीथ्यः स्युः परितः पिशाचदिविषद्वित्ताधिभूदण्डिनाम् ।
नागाम्ब्वग्निविनायकद्रुहिगनाम्नां चासु निन्द्याः स्मृताः
पैशाचाग्न्यहिदण्डिनां गृहविधौ वीथ्यश्चतुर्दिक्ष्वपि ॥
कन्यायां पन्नगः शेते प्राक्शिरा याम्यपुच्छकः ।
चापे याम्यशिराः प्रत्यक्पुच्छो मीने पराक्शिराः ॥ २३ ॥
उदक्पुच्छोऽथ मिथुने सौम्यकेशः स्थिते रवौ ।
प्राचीपुच्छो लुठत्येवं मासैर्द्वादशभिः क्रमात् ॥ २४ ॥
स्तम्भा नहि विधातव्यास्तदङ्गेषु नृमन्दिरे ।
तस्मात् कालस्य नियमो मार्ताण्डचरणेन च ॥ २५ ॥
तुलावृश्चिकयोः सिंहं पश्चिमं मृगकुम्भयोः ।
गजं तु मेषवृषयोर्मासयोरालयं नृणाम् ॥ २६ ॥
सिंहे ध्वजालयं कुर्यात् कर्कटोऽत्र निषिध्यते ।
अथवा मृगकुम्भाख्यौ मासौ पूर्वालये शुभौ ॥ २७ ॥
दक्षिणे मेषवृषभौ सिंहः पश्चिमधामनि ।
तुलावृश्चिकमासौ द्वावुत्तरालयकर्मणि ॥ २८ ॥
एकं स्याद् यदि दक्षिणं गृहमुभे चेत् तच्च पाश्चात्यकं
ते सौम्य च गृहत्रिके गृहचतुष्के प्राच्यमेतानि च ।
प्राच्यां केतुजमेणराजजमिदं चापध्वजाय्यामथो-
दीच्यां ते गजजं च तानि वृषजं चाहुः प्रतीच्यां गृहम्
[॥ २९॥]

मनुष्यालयविधिः] एकत्रिंशोऽध्यायः । २१३
योनयोऽग्न्यादिकोणेषु क्रमात् सिंहो वृषो गजः।
ध्वजश्चेति मनुष्याणां विहितं गृहकर्मणि ॥ ३० ॥
अथवा—
कृत्वा दिङ्‌नवनागवर्गपदभिन्ने क्षेत्रकेऽन्तर्गतै-
रष्ट्यङ्काब्धिपदैर्विधातृपदयुक्तं प्राङ्गणं मध्यतः ।
शालाः पङ्क्तियुगार्यकादिकजुषस्तद्बाह्यतस्तद्बहि-
र्गोष्ठोलूखलवेश्मकादिविलसत्पङ्क्त्यावृतं कल्पयेत्
[॥ ३१ ॥
पादुकोनां बहिर्भागमङ्कणं कथ्यतेऽत्र हि ।
अङ्कणं ध्वजयोनिः स्यान्मुखायामादिसंयुतम् ॥ ३२ ॥
ध्वजः सर्वत्र सम्पूज्य इति शास्त्रनिदर्शनम् ।
तत्त्वार्केन्दुवसुद्वारवेश्मकृत्यश्विसागराः ॥ ३३ ॥
अङ्गुल्यः करतश्चापि द्वित्रिसङ्ख्यमथापिवा ।
अजिरस्यायतं तारादधिकं प्रकरोतु वा ॥ ३४ ॥
(गुणविस्तारणा स चांदद्धि ?)
गुणविस्तारतश्चापि दृश्यते त्ववनाङ्कणेदि(?)।
वेधस्तद्गृहमध्यानां गोत्रनाशकरः स्मृतः ॥ ३५ ॥
प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु ।
परिहर्तव्य एवायं बुद्धिकौशलशालिभिः ॥ ३६ ॥
कर्णसूत्रयुतिर्मध्ये न भवेत् कर्णवेश्मनाम् ।
अशुभाय भवत्येषा परिहार्या स्वदीर्घतः ॥ ३७ ॥
१. ‘कं नाहिभागं तु अङ्क’ ख. पाठः.

२१४ शिल्परत्ने [उत्तरभागः
रुद्ररन्ध्रादिबाणाश्च गत्यङ्गुल्यः क्रमात् स्मृताः ।
अष्टाङ्गुलवृद्ध्या वा हान्या वा यवतोऽथवा ॥ ३८ ॥
पूर्वादीनां गृहाणां तु क्रमादेव गतिः स्मृता ।
सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् ॥ ३९ ॥
आयाममिष्टगेहस्य षट्सप्तादिकरोन्मितम् ।
अष्टघ्नं स्वस्वादिकमङ्ख्यं त्रिधा कृत्वांशमानतः ॥ ४० ॥
तद्गृहस्य परीणाहं कल्पयेन्नरसद्मनि ।
तदर्धाद् दीर्घशेषं तु विस्तारं तस्य निर्दिशेत् ॥ ४१ ॥
अथवा गुणभागेन तारं पादोनवर्जितम् ।
दीर्घाधिक्यं विनाशाय मृतये हीनदीर्घता ॥ ४२ ॥
तस्मान्निर्दिष्टहस्तेभ्यो हीनाधिक्यं न कारयेत् ।
अङ्गुलीभिर्न दोषः स्यादुभयत्र कराहते ॥ ४३ ॥
नेष्ट¹मङ्गुलिविच्छेदं गुणविस्तारकल्पने ।
अन्तरालाश्च वसवो दिग्विदिग्भेदकारकाः ॥ ४४ ॥
अन्तरालस्य बाहुल्यं गृहविस्तारतौ विदुः ।
तदाधिक्येऽर्थनाशः स्यात् सूत्रार्धान्न च हीयते ॥ ४५ ॥
तस्मात् सङ्कुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ।
अथ त्रिशालकम् —
उत्तरशालारहितं हिरण्यनाभं त्रिशालकं वसुदम् ।
प्राक्शालारहितं स्यात् सुक्षेत्रं (तत) समृद्धिदं वास्तु ॥ ४६ ॥
याम्यविहीनं शूलं त्रिशालकं वित्तनाशनं कुरुते ।
पक्षघ्नमपरवर्जं पुत्रघ्नं वैरिमानदं भवति ॥ ४७ ॥
१. 'ल' क. पाठः.

मनुष्यालयविधिः] एकत्रिशोऽध्यायः । २१५
अथ द्विशालकम् —
पूर्वापरयोर्हीना यस्मिञ् शाला वदन्ति गृहचुल्लीम् ।
दक्षिणसौम्यविहीनं सिद्धार्थकमाह वागधिपः ॥ ४८ ॥
पश्चिमयमगा शाला यमशूर्पं पश्चिमोत्तरा शाला ।
दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रनिष्णातैः ॥ ४९ ॥
उत्तरपूर्वा शाला वाताख्या भवति मानुषे सदने ।
प्राच्यावाच्या शाला यमदैवतनामधेया सा ॥ ५० ॥
सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः ॥ ५१ ॥
दण्डाख्ये दण्डवधं गृहचुल्ल्यामपि कलहमुद्वेलम् ।
वाताख्ये वातभयं यमदैवतनाम्नि मृत्युरेव स्यात् ॥ ५२ ॥
अथ चतुःशालम् —
स्वयोनिव्यासगतयो दिग्वि दिक्षु च संस्थिताः ।
भिन्नशालेति सा प्रोक्ता मनुजानां शुभप्रदा ॥ ५३ ॥
पर्यन्तध्वजमादधीत चतुरश्रं मध्यतश्चाङ्गणं
तत्पार्श्वेऽप्यतिपत्रमानमपरं चाभ्यन्तरं केतनम् ।
तत्तूर्यश्रयुजोऽथकोणचतुरश्रेषूत्तरा१न्तर्ध्वजं
युक्त्या तूत्तरविस्तृतिं च जनयेत् तुर्यश्रशालाविधौ ॥ ५४ ॥
२ईष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा ।
समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ५५ ॥
एतयोः शालयोरत्र नान्तरालानि सन्त्यतः ।
शूद्रादिसूतिकादीना प्रवेशे स्पृष्टिसम्भवात् ॥ ५६ ॥


१. 'ह्यो', २. 'अ' क. पाठः.

२१६ शिल्परत्ने [उत्तरभागः
अशुचिर्व्याप्यतेऽन्यस्मिन्नपि तत्र गृहत्रिके ।
एकच्छायेन तस्मात् ते वर्जयेद् भूसुरालये ॥ ५७ ॥
ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्‌मानभेदकाः ।
नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालयेऽपि सा ॥ ५८ ॥
तद्भेदः —
कृत्वा बाह्यान्तरवृतिमिमामुक्तक्लृप्त्या ततोऽन्यां
दिक्कोणाद् यद्गृहपरिमितिं योनिभेदोपपन्नाम् ।
कुर्याद् युक्त्या मितिषु कुशलः सा तु तुर्यश्रशाला
प्राग्वन्मध्येऽङ्गणविलसिता स्यात् पुनर्भिन्नशाला ॥ ५९ ॥
दिग्गेहानि विदिग्गृहैरभिमतैर्योनिप्रभिन्नैर्मिथः
श्लिष्टानीह बहिः समैः परिमिता सीमा च मध्येऽङ्गणम् ।
श्लिष्टानां तु मिथो भवेदिह मितिः सम्भूय धाम्नां ध्वजं
भिन्ना सैकविदिग्शयसत्यपि पुनस्तुर्यश्रशाला मता ॥ ६० ॥
द्वारं मुखेषु कर्तव्यं सर्वेषामपि वेश्मनाम् ।
मध्यस्थं द्वारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥ ६१ ॥
आशाहर्पतिसूत्रभेदिनि गृहे षष्ठेऽथ वा सप्तमे
सूत्रे द्वारमथापरं वितनुयाच्छालासु सव्यार्धके ।
सिंहोक्षद्विपकेतुयोनिविहितं चाग्न्यादिकोणालयं
मित्रे दक्षिणपश्चिमे पुनरुदक्प्राच्ये च गेहे मिथः ॥ ६२ ॥
अथवान्यप्रकारेण मित्रत्वं कैश्चिदिष्यते ।
वास्तु(नः) पूर्वपार्श्वस्थे गेहेऽन्योन्यामिति स्फुटम् ॥ ६३ ॥

१. 'दिग्गृहै' ख. पाठः.

एकास्मिन्नशुचौ सत्यां तन्मित्रेऽप्यशुचिः स्मृता ।
अनुसृत्योभयं मार्गमाचरेत् तदनापदि ॥ ६४ ॥
अथ देवालयतो विशेषमाह —
रूपोत्तरस्य तु क्वापि क्षुद्रवाजनमिष्यते ।
अङ्घ्रेस्तथा मध्यखण्डमारूढं भूषणाय च ॥ ६५ ॥
शिलाबद्धमसूरं च सुधामिलितभित्तिकम् ।
पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ६६ ॥
प्राच्ये चाग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं
व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् ।
पाश्चात्त्ये धनसंनिधापनमतो द्वन्द्वं विपर्यस्य वा
शेषार्धे तु तयोस्तथा शयनविद्याभ्यासनाद्यं चरेत् ॥ ६७ ॥
माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके
पर्जन्ये पचनालयं शिखिनि वा भुक्त्यालयं तत्पुरः ।
कर्तव्यं खलसद्म नैर्ऋतपदे कुर्वीत धान्यालयं
गोशालाम्बुपतौ हरावपि समीरे धाम चौलूखलम् ॥ ६८ ॥
ग्रामादिपूक्तवत् सर्वमनुक्तं स्थानमाचरेत् ।
अथ द्वारं —
द्वारपादस्य बाहल्यं तुल्यमुत्तरमानतः ॥ ६९ ॥
स्वस्वयोन्या गृहादीनां कल्प्यन्तां द्वारयोनयः ।
प्रस्तरोत्तरयोर्मध्यं पञ्चधा विभजेद् बुधः ॥ ७० ॥
द्वारायामं चतुर्भागमष्टसप्तांशमेव वा ।
शेषांशे द्वादशांशे तु पञ्चांशं गुल्फमिष्यते ॥ ७१ ॥

२१८ शिल्परत्ने [उत्तरभागः
शिरोन्मानं तु सप्तांशमथवा नवभाजिते ।
गुल्फमानं चतुर्भागं तत्र पञ्चांशकं शिरः ॥ ७२ ॥
उत्सेधशेषं परिधेर्द्वारतारमुदाहृतम् ।
उत्सेधे नवसम्भक्ते पञ्चांशं वात्र विस्तृतम् ॥ ७३ ॥
अथवा गुणतारं वा कुर्याद् द्वारं यथोचितम् ।
कुर्यात् प्राङ्गणतो गमागमकृते द्वारं महत् पादुके
हस्तैर्वाङ्गुलकैः प्रकल्पितशुभायाद्यग्ररूढोत्तरम् ।
स्वायामप्रतिभक्तरुद्रदशनन्देभांशविष्कम्भत-
त्खण्डोत्पन्नघनाङ्घ्रियुग्मविलसन्मङ्गल्यपट्ट्यादिकम् ॥७४॥
आग्नेय्यामङ्गणद्वारं दक्षिणाशामुखं स्मृतम् ॥ ७५ ॥
प्रत्यङ्मुखं तु नैर्ऋत्यां वायव्यां तदुदङ्मुखम् ।
ईशे तु प्राङ्मुखं कुर्यात् तानि स्युः पादुकोपरि ॥ ७६ ॥
अथान्यथा चतुःशालविधानमाह —
चतुःशालं त्रिशालं च द्विशालं चैकशालकम् ।
वक्ष्यामि भवनं राज्ञां नामलक्षणसंयुतम् ॥ ७७ ॥
अलिन्दगैश्चतुर्द्वारैश्चतुःशालमुदाहृतम् ।
सर्वतोभद्रनामेदं नृपाणां शस्यते गृहम् ॥ ७८ ॥
नन्द्यावर्तमिति ख्यातं पश्चिमद्वारवर्जितम् ।
वर्धमानं तथा ख्यातं दक्षिणद्वारवर्जितम् ॥ ७९ ॥
स्वस्तिकं तद् भवेन्नाम्ना पूर्वद्वारविवर्जितम् ।
उत्तरद्वारहीनं चेद् रुचकं तद् भवेद् गृहम् ॥ ८० ॥

पूर्वार्विलंन्दं" -> no, it is:
"ध्रुवं हीनमलिन्देन पूर्वालिन्दं तु धन्यकम् ।"

जयं स्याद् दक्षि Node... wait:
ज य ं : जयं
स ् य ा द् : स्याद्
द क ् ष ि ण + ा + ल + ि + न ् + द + ं : दक्षिणाaction... दक्षिणाfacebook? No:
द - क्षि - णा - लिन् - दं : दक्षिणातिन्दं? No, दक्षिणाaction -> दक्षिणा-लिन्दं!
Look at the letters:
द (da)
क्षि (kṣi)
णा (ṇā)
लि (li)
न् (n)
दं (daṁ)
= दक्षिणालिन्दं
Next word:
प - श्चा - लिन् - दं : पश्चालिन्दं
Next word:
ख - रं : खरं
Next word:
भ - वे - त् : भवेत्
॥ ९० ॥
Line 21: "जयं स्याद् दक्षिणालिन्दं पश्चालिन्दं खरं भवेत् ॥ ९० ॥"

दुर्मुखं चोत्तरालिन्दमेकालिन्दं चतुर्गृहम् ।
Let's check L22:
द ु र् म ु ख ं : दुर्मुखं
च ो त् त र

? No, it's ९२. But wait, whether it is ९२or९१, let's look at the actual glyph: it has ९, then १, then a stroke? No, it looks like ९२`!

Let's read all the lines systematically:

पूर्वदक्षिणतोऽलिन्दं नन्दमित्यभिधीयते ।
याम्यपश्चिमतोऽलिन्दं क्षयमित्यभिधीयते ॥ ९२ ॥
(Wait, if someone reads it as ९१ or ९२: it is definitely verse 92 in context, and visually it's ९२ or ९१. Let's look at the danda after it: ॥ ९२ ॥).

पूर्वपश्चिमतोऽलिन्दं कान्तं नाम्ना निगद्यते ।
दक्षिणोत्तरतोऽलिन्दं सुपक्षं परिचक्षते ॥ ९३ ॥
उत्तरालिन्दहीनं चेत् सुखं तत्तु प्रकीर्तितम् ।
पश्चिमालिन्दतो हीनं धनदं गेहमुच्यते ॥ ९४ ॥
दक्षिणालिन्दहीनं यदाक्रान्तं तदुदाहृतम् ।
पूर्वालिन्दविहीनं यद् विपुलं परिकीर्त्यते ॥ ९५ ॥
सर्वतोऽलिन्दतो युक्तं

मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२१
नवकोणविदिग्गेहे (स्यात् ? स्युः) पङ्कविंशच्चतुर्ष्वपि ।
चत्वारो मध्यगाः स्तम्भा यत्र तस्यां चतुष्कृतम् ॥ १०२ ॥
तस्माद् बहिरलिन्दः स्याच्छाला स्यात् तदनन्तरम् ।
अलिन्दं च पुनः शाला क्रमेणैवं प्रवर्तते ॥ १०३ ॥
यावत् कर्तुमभीष्टं स्याद् गृहं नरपतेः शुभम् ।
यच्चतुष्कशतं क्षेत्रं पञ्चधा तद् विभज्यते ॥ १०४ ॥
तद्भागप्र(तिमं ? मितं) कार्यं त्रिभिर्भागैरलिन्दकम् ।
सार्धत्रिभागिका शाला कर्तव्या सुविचक्षणैः ॥ १०५ ॥
इयं स्थितिः समस्तानां गृहाणां प्रतिपादिता ।
नाम्ना तु मुखकोणं यत् त(द्भागं ? त्कार्यं) रविभागतः ॥
मध्यस्तम्भाः शतं सार्धं षड्भिर्न्यूना निरूपिताः ।
शतं षष्ट्य

२२२ शिल्परत्ने [उत्तरभागः
चतुर्ष्वपि च भद्रेषु द्विसप्ततिरुदाहृताः ।
सप्तकोणाः समन्ताच्च द्विगुणा मनुसंख्यया ॥ ११३ ॥
एवमादीन्यनन्तानि गेहानि धरणीभुजाम् ।
कियन्त्यपि मयोक्तानि प्रधानानि यथाक्रमम् ॥ ११४ ॥
तिष्ठन् गेहेषु शस्तेषु श्रियमाप्नोति पुष्कलाम् ।
आरोग्यं विजयं कीर्तिं सन्तोषं परमाप्नुयात् ॥ ११५ ॥
ईदृग्लक्षणसंयुक्तान् विविधान् बहुभूमिकान् ।
कारयित्वा महीपालः प्राच्यै¹चन्द्र(इ ? ब)लं महत् ॥
इति विज्ञाय नृपतिर्वासार्थं गृहमुत्तमम् ।
सुलक्षणयुतं दोषैर्विहीनं कारयेत् सुखम् ॥ ११७ ॥
ईशानभागकोणे तु सर्वलक्षणसंयुतम् ।
पूर्वतो मुखशालाया देवतारूपचिह्नितम् ॥ ११८ ॥
देवकार्यगृहं कार्यं नृपाणां सुमनोहरम् ।
स्नानगेहं तु तत्पार्श्वे कर्तव्यं वेदिकायुतम् ॥ ११९ ॥
होमशाला तदभ्याशे बहिः कुण्डविमण्डिता ।
धूमनिर्गमनोपायकृतजालपरिष्करा ॥ १२० ॥
अन्यान्युपगृहादीनि सुभक्तानि पुरैव हि ।
चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ॥ १२१ ॥
गृहस्यान्तर्बहिःकुड्यमुखेषु च विभूषयेत् ।
पूर्वतः शिल्पिनो गेहं परिगृह्य विनिर्मितम् ॥ १२२ ॥
गोमयाद्यैर्जलाद्यैश्च शुद्धिं विधिवदाचरेत् ।
अथ वास्तुबलिं विप्रैः कारयेत् तद्दिघेर्विदाम् ॥ १२३ ॥

१. 'प्य' ख. पाठः.

मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२३
वक्ष्ये पूर्वोक्तमार्गात्तु तद्धोमस्य विशेषकम् ।
अन्तर्गृहस्य कोणे स्याद् (?) ऐशाने शालिपिष्टकैः ॥
मण्डलं कारयेदेकाशीतिकोष्ठैर्यथापुरम् ।
कुण्डं त्रिमेखलं कार्यं मण्डलेशानभागतः ॥ १२५ ॥
तत्र होमः प्रकर्तव्यः शास्त्रदृष्टेन वर्त्मना ।
ततो मण्डलसंस्थाभ्यो देवताभ्यो बलिं हरेत् ॥ १२६ ॥
घृतान्नं देयमीशाय पर्जन्यायाज्यसंयुतम् ।
ओदनं सात्त्वतं दद्याज्जयन्ताय निवेदयेत् ॥ १२७ ॥
ध्वजानपूपान् पिष्टेन कूर्मरूपं प्रकल्पितम् ।
पैष्टं कुलिशमिन्द्राय पञ्च रत्नानि चार्पयेत् ॥ १२८ ॥
धूम्रवर्णं वितानं च सक्तून् सूर्याय कल्पयेत् ।
सत्याय घृतगोधूममत्स्यान् दद्याद् भृशाय च ॥ १२९ ॥
शष्कुलीरन्तरिक्षाय सक्तून् दद्याच्च पावके ।
पूष्णे लाजाः प्रदातव्या वितथे च(र ?)णकौदनम् ॥
गृहक्षताय मध्वन्नं यमाय पललौदनम् ।
गन्धर्वाय सुगन्धं च *भृ(शा ? ङ्गा)य रणजिह्वकः ?) ॥
मृगाय यावकं देयं पितृभ्यः कृसरांस्तथा ।
दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा ॥ १३२ ॥
क्षिपेदपूपं सुग्रीवे पुष्पदन्ते तु पायसम् ।
कमलं सकुशस्तम्बं वरुणाय समर्पयेत् ॥ १३३ ॥

  • अत्रैव पूर्वभागे 'स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे' (अध्या० ७
    श्लो० ५१) इत्युक्तम् ।

२१४ शिल्परत्ने [उत्तरभागः
असुराय सुरा देया पैष्टं सौवर्णमेव च ।
घृतौदनं च शोषाय यवाः स्युः पापसंज्ञके ॥ १३४ ॥
रोगाय मोदकान् स(र्पीन् ? र्पिः) फणिने नागकेसरम् ।
भक्ष्यो मुख्याय दातव्यः फल्लाटाय ततः क्षिपेत् ॥ १३५ ॥
मुद्गौदनं ततः सोमे पायसं मधुमिश्रितम् ।
शालिपिष्टं त्वर्गलाय लोविकामादितेः क्षिपेत् ॥ १३६ ॥
दित्यै तु पूरिकान् दद्यादित्येवं बाह्यतो बलिः ।
मण्डलान्तरसंस्थानामिदानीं बलिरुच्यते ॥ १३७ ॥
आपाय दापयेत् क्षीरमापवत्साय वै दधि ।
आर्यै पक्वं तथा मांसं दातव्यं बलिकर्मणि ॥ १३८ ॥
सावि(त्र्यै ? त्रे) मोदकं दद्याद् मरिचं³ सकुशौदनम् ।
सवित्रे गुडपूपांश्च देयं स्याद् घृतचन्दनम् ॥ १३९ ॥
विवस्वते प्रदातव्यं पायसं रक्तचन्दनम् ।
देवाधिपतये दद्यात् तालमिश्रं घृतौदनम्* ॥ १४० ॥
मित्राय सघृतं भक्तं रुद्राय (सुध ? गुड)पायसम् ।
पृथ्वीधराय मांसानि सकूष्माण्डानि दापयेत् ॥ १४१ ॥
आज्यं च दधिसंयुक्तं ब्रह्मणे विनिवेदयेत् ।
शर्वस्कन्दाय चार्यम्णे जम्भके पिलिपिञ्जके ॥ १४२ ॥
१. 'शे' ख. पाठः. २. 'तत्त्वं त', ३. 'चिं' क. पाठः.

  • इन्द्रानन्तरम् इन्द्रजयस्य, रुद्रानन्तरं रुद्रजयस्य च पूजा मातृकासु
    लुप्ता स्यात् । सैषा 'शुद्धान्नमेवेन्द्रजयाय शस्तम्', 'मांसं तथा रुद्रजये त्व-
    पक्वम्' (क्रियापा० पट० २७. श्लो० २५) इति गुरुदेववचनादवगन्तव्या ।

मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२५
तिलाक्षतं पञ्चगव्यं भक्ष्यं भोज्यं पृथग्विधम् ।
मांसौदनं सरुधिरं हरिद्रौदनमेव च ॥ १४३ ॥
ईशानदिशमाश्रित्य चरक्यै विनिवेदयेत् ।
आग्नेयीं दिशमाश्रित्य स्थितायै मांसखण्डकम् ॥ १४४ ॥
दध्योदनं सरुधिरं विदार्यै विनिवेदयेत् ।
पूतनायै च नैर्ऋत्यां पीतं रक्तं बलिं क्षिपेत् ॥ १४५ ॥
वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम् ।
पायसं वा प्रदातव्यं तन्नाम्ना सर्वतः क्रमात् ॥ १४६ ॥
सर्वेषां काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम् ।
राक्षसानां बलिं दद्यान्मधुमांसौदनान्वितम् ॥ १४७ ॥
एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।
विप्रांश्च पूजयेद् भक्त्या विदुषो गृहमागतान् ॥ १४८ ॥
इति वा(स्तो ? स्तू)पशमनं निश्चय्य समाचरेत् ।
प्रासादभवनोद्यानप्रारम्भे च समापने ॥ १४९ ॥
परमैश्वर्यवृद्ध्यर्थं सर्वदोषोपशान्तये ।
विधाय वास्तुपूजां च गृहं सूत्रेण सर्वतः ॥ १५० ॥
पावमानेन सूक्तेन रक्षोघ्नेन च वेष्टयेत् ।
मङ्गलं तूर्यघोषेण कुर्याद् ब्राह्मणवाचकैः ॥ १५१ ॥
वृतं सद्म विशेद् राजा सुमुहूर्ते विशेषतः ।
ब्राह्मणोदीरितैर्मन्त्रैः शोभनैः शङ्खनिस्वनैः ॥ १५२ ॥
मङ्गलैस्तूर्यनादैश्च विशेद् वेश्म विशांपतिः ।
प्रासादे रुचिरोत्तङ्गे सौवर्णकलशान्विते ॥ १५३ ॥
EE