सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 218, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 218

मण्डललक्षणम्] अष्टाविंशोऽध्यायः । १९९
सत्त्वाद्युक्तसदिक्षुनाभिरुपाख्यातं कृष्णरु-
क्पर्यायारुणपीतरुक्तदधिताम्राद् भद्रकोदिष्टवत् ॥ ४० ॥
अथ शक्तिदण्डः —
धृतिकृतिपुटक्षेत्रे मध्ये द्विपदं विशन्ततो
विकृतिकृतिरजोध्यायैः कौष्ठैः संपरितन्मद्रकम् ।
लिखतु परितः पङ्क्ती रूप्यद्वयं सावशेषकै-
र्दिशि विदिशि च स्त्रोतःसन्ध्याम्भोजप्रभाञ्चलम् ॥ ४१ ॥
मध्येशक्ति षडङ्गेन चाष्टमुष्टिं दिशाश्वत्रिषु
त्यक्त्वा कोणगतैककं पदमुरो मध्यान्त्युक्तस्था¹स्तुना ।
मुष्ट्युद्दिष्टपदान्तपार्श्वयुगदोःसूत्रेण शक्त्यग्रके
तत्तार्तीयककोष्ठमध्यमिलिताग्रेणालिखेद् ह अपि ॥ ४२ ॥
विन्यस्यच्छोटिकां मुष्ट्याङ्कितपदयुङ्मध्यदिक्सूत्रसंस्थां
सूत्रं तावत्प्रमाणं भ्रमयतु बहिरन्तश्च दोःसूत्रसंस्थम् ।
सूत्रं तत्प्रान्तयोस्तद्दलमितमपि संवर्तयेत् कोणसिद्धयै
दिश्येवं कोणमुष्टिं विरचयतु तथा सन्धिभुमावलम्बम्
[॥ ४३ ॥
शक्त्यग्रान्तरमुष्टिशिष्टपदवर्णं रक्तपीतारुणा-
कृष्णं श्यामलकोणगैककविराजद्देवताविग्रहम् ।
शोभे पीतहरिद्रुची विरचयेत्कोणं त्रिशूलोज्ज्वलं
पीतां वीथिमथाङ्घ्रिगात्रमसितारक्तं परं पूर्ववत् ॥ ४४ ॥
अथ षड्दलम् —
कुर्यात् षड्दलमिन्धिवर्गपुटकेऽत्रान्तश्चतुष्कस्फुर-
द्धृत्तेषु त्रिषु कर्णिकां च दलसन्धीन् षड्दलान्यंशकैः ।
१. ‘स्ता’ क., ‘स्का’ ख. पाठः.