सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 216, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 216

मण्डललक्षणम् ] अष्टाविंशोऽध्यायः । १९७
चक्राम्बुजं द्विकरमप्यवरं वरिष्ठं
तद् वेददोःप्रभृति पन्नगहस्तनिष्ठम् ॥ ३० ॥
विकृतिकृतिपुटे षट्त्रिंशतान्तःस्थकोष्ठै-
र्नलिनमवनिपङ्क्त्या पीठिका वीथिकाथ ।
पुटयुगपरिक्लृप्ता द्वारशोभोपशोभा-
श्रियुतपुटयुगल्या मुद्रिता भद्रके स्यात् ॥ ३१ ॥
अब्जक्षेत्रे यवांशं बहिरिह परिनांऽपास्य वृत्तीकृतेऽर्धे
मित्रांशऽग्रार्थमन्तः सुसममथ चतुर्धा विभक्ते दलार्थम् ।
सन्ध्यर्थं केसरार्थं भ्रमयतु परितः कर्णिकार्थं च सूत्रं
दिक्कोणाभ्यन्तरेऽष्टौ क्षिपतु च परितस्तत्र सूत्राणि तिर्यक्
[॥ ३२ ॥]
अग्रादिसन्धिचरमं दलमध्यसंस्थं
सूत्रं सुवर्त्य परिलिख्य दलं तदग्रम् ।
तत्सूत्रतन्मुखतयान्तिमवृत्तसंस्थं
तन्मात्रसूत्रमभिदर्त्य लिखेद् द्विपाश्वें ॥ ३३ ॥
दिशि करयुगकोष्ठैर्द्वारमन्तर्बहिष्ठै-
स्त्रिशशिपदविपर्यस्तैश्च शोभोपशोभे¹ ।
त्रिभुवनपदक्लृप्तं कोणमम्भोजपीठं
श्रुतिदहनपदोद्यद्गात्रपादान्वितं च ॥ ३४ ॥
पीता पङ्कजकर्णिका दलततिः श्वेतान्तरालं हरि-
द्वर्णं रक्तरुचोऽश्रयः सितपदारक्तेक्षकं पीठकम् ।
१. 'भम्' ग. पाठः.