शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 215, कुल 280 में से
संदर्भ में पढ़ें१९६ शिल्परत्ने [उत्तरभागः
मार्ताण्डाङ्गुलदैर्घ्यतत्करदशांशाव्यासतीव्रा जुहू-
र्बाह्यायामशरांशतोऽत्र चतुरश्रं पुष्करं कल्पयेत् ।
अद्ध्यंशाहितमेखलावृतपक्षांशाखातगर्तान्विता
तस्याग्रे गलमर्धविस्तृततदर्धायातमभ्युज्ज्वलम् ॥ २६ ॥
पञ्चांशायततच्चिपादशशिपादव्यासमूलाग्रकं
कुर्याद् व्यासमृगांशखातवृतकुल्योल्लासितं तन्मुखम् ।
तच्छिद्रेण सुवृत्तपुष्करदलव्यासाब्धिमूलानलां-
शोनव्यासयुताग्रकं विरचयेद् दण्डं च गोपुच्छवत्
[॥ २७ ॥
अथ महास्रुक् —
हस्तायामयुगांशविस्तृतितदर्धोत्सेधयुक्ता महा-
स्रुक् स्याद् विस्तृतिदीर्घपुष्करगुणांशाखातवृत्तावटा ।
बाह्याचर्धतदर्धतदलवशाच्छेषे चतुर्धा कृते
कुर्यात् तद्रशनात्रयं त्रिभिरथान्तःस्थैः क्रमादंशकैः ॥ २८ ॥
बाह्येऽर्धे त्रियवं तदर्धमपरेंऽशे तद्दलं चान्यतः
संशोध्यावटमेखलां सुपरिवृत्तां पीठमम्बोजोज्ज्वलम् ।
दण्डं त्र्यंशततं गलं सुविरितं पादत्रिभागातति-
व्यासं पादविहीनपुष्करमितं कुर्याज्जुहूवन्मुखम् ॥ २९ ॥
अथ पद्मं तत्र पूर्वं भद्रकम् ।
एकद्विसागरकरप्रमितानि तानि
स्युर्भद्रकप्रकृतिकान्यथ मण्डलानि ।