षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
१५० षड्विंशब्राह्मणम्
ते तथोक्ताः । तथा निवीताः कण्ठलम्बितब्रह्मसूत्रोत्तरीयाः सन्तः प्रचरन्ति
कर्म्मानुतिष्ठेयुरित्यर्थः । स्तुत्यै भ्रातृव्यस्येति ॥ २२ ॥
ऋत्विग्दक्षिणायां विशेषमाह—
नवनव दक्षिणा भवन्ति ॥ २३ ॥
नवनवेति वीप्सा । एकैकस्मै ऋत्विजे नववर्गाः दक्षिणा भवन्ति ।
तथा च द्राह्मायणः—नवनव दक्षिणा इति नववर्गान् यथोत्साहं दद्यात्
काणखोरकूटपाण्डानाम् इति । अस्यार्थः—नवकाणान् स एको वर्गः ।
नवखोरान् स एको वर्गः । नवकूटान् सोऽप्येकः । नवपाण्डान् स एकः ।
इत्येतान् वर्गान् यथोत्साहं दद्यादिति ॥ २३ ॥
तत् प्रशंसति—
नावयन्त्येवैनं तत् ॥ २४ ॥
तत् तेन यथोक्तदक्षिणादानेन एनं भ्रातृव्यं नावयन्ति शरीरान्तर-
प्रापणेन नूतनं कुर्वन्त्येवेत्यर्थः । श्येनप्रयोगं सविशेषं कल्पसूत्रकारो
दर्शयामास—पवमानस्य जिघ्नतः (सा. १३१०), पुनानो अक्रमीद-
भि (सा. ४८८), पवमानस्य ते कवे (सा. ६५७), अग्निमूर्धा (सा. २७),
अग्निर्वृत्राणि जङ्घनत् (सा. ४), मित्रं हुवे पूतदक्षम् (सा. ८४७),
उ त्वा मन्दन्तु सोमाः (सा. १९४) ता हुवे ययोरिदम् (सा. ८५३),
अर्षा सोम द्युमत्तमः (सा. ५०३) इति गायत्रमेकस्यां वार्षाहरमेकस्यां
शाकरवर्णमेकस्याम् । पुनानः सोम धारया (सा. ५११) इति वषट्कार-
निधनमेकस्याम्, रौरवमेकस्यां यौधाजयमेकस्याम्, औशनमन्त्यं, रथन्तरं
च वामदेव्यं च बृहच्च कालेयं च । यस्ते मदो वरेण्यः (सा. ४७०) इति
गायत्रवार्षाहरे । पवस्व (सा. ५७८) इन्द्रमच्छ (सा. ५६६) इति
सफौपगवे । पुरोजिती वो अन्धसः (सा. ५४५) इति नानदान्धीगवे ।
5. J om. नव०...द्राह्मायणः.
7. TM. काणात् for काणान्.
8. MT. ॰खोरात् for खोरान् ; MT. कूटात् for कूटान्, MT· for पण्डात् for पाण्डान्.
12. RISK om. यथोक्त.
13. M. नवीनं for नूतनं.
चतुर्थोऽध्यायः (२) १५१
कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृतः पवमाना अग्निष्टोमसाम च
तिसृभिः तिसृभिः आज्यपृष्ठानि (म. सू. २. ७) इति । अस्यायमर्थः—
तिसृभिराज्यानि पृष्ठानीति ॥ २४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥
2. JS om. तिसृभिः ; MTK. चतसृभिः तिसृभिः for तिसृभिः
तिसृभिः IK. has only चतसृभिः.
3. MTSK. चतसृभिर् for तिसृभिर् ; J om. पृष्ठानि; MKS after
आज्यानि add चतसृभिः and TI. तिसृभिः
तृतीयः खण्डः
एवं श्येनयागं सविशेषं प्रतिपाद्येदानीं त्रिवृदग्निष्टोमं निरूपयितुं
प्रतिजानीते—
त्रिवृदग्निष्टोमः ॥ १ ॥
उच्यत इति शेषः ॥ १ ॥
इदानीं विधत्ते—
तस्येषुं विष्टुतिं कृत्वाभिचरन् यजेत ॥ २ ॥
तस्य त्रिवृदग्निष्टोमस्य इषुम् इषुसंज्ञकां विष्टुतिं कृत्वाभिचरन् भ्रातृव्यं
जिघांसुस्तेन यजेत । द्वे इषुसंज्ञके विष्टुती प्राक् प्रदर्शिते । अत्र विशेषा-
श्रवणात् तयोरन्यतरा ग्राह्या ॥ २ ॥
यथोक्तं प्रशंसति—
इषुवधो वै पुरायुषो हन्ति । यदिषुं विष्टुतिं करोति
पुरैवेनमायुषः प्रवृश्चति ॥ ३ ॥
इषुवधः इष्वाख्यं हननसाधनम् आयुधम् आयुषः शतवर्षलक्षणात्
पुरा पुरस्तादेव हन्ति । तस्मात् यदिषुम् इष्वाख्यां विष्टुतिम् अत्र करोति
कुर्यात् तर्हि एनं भ्रातृव्यमायुषः पुरैव प्रवृश्चति यथा विच्छिद्य प्रकर्षेण
छिनत्ति ॥ ३ ॥
2. T. ॰यागस्य for यागं स०; T. अग्नीषोमं for अग्निष्टोमं.
7. M. यजते for यजेत.
12. SIK. भवति for हन्ति.
14. RKMSI om. आयुधम्.
15. RKIS. भवति for हन्ति.
16. J. तया for यथा.
चतुर्थोऽध्यायः (३) १५३
त्रिवृत्स्तोमं सप्रशंसं विधत्ते—
त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशी-
यस्तृणवै ॥ ४ ॥
यत् यस्मात् स्तोमानां मध्ये त्रिवृत् स्तोम एव क्षेपिष्ठः अत आशीयः
आशुतरं भ्रातृव्यं स्तृणवै हिंसानीति । तत्र त्रिवृदेव स्तोमो भवति नान्य
इत्यर्थः ॥ ४ ॥
सामविशेषं दर्शयति—
वषट्कारणिधनं भवति ॥ ५ ॥
व्याख्यातचरम् । यद्यपि समानमितरच्छ्येनेनेत्यनेनैव वषट्कारणिधनं
सिद्धं, तथापि तद्वचनं पवमाने रथन्तरं कुर्यात् बृहत्पृष्ठं प्लवं ब्रह्मसाम
(ष. वि. ब्रा. ४.२.१४) इति विहितस्य धर्मविशेषस्याप्राप्त्यर्थम् ॥ ५ ॥
स्तोत्रविकारं सप्रशंसं विधत्ते—
सप्तहं भवति । आसप्तमात् पुरुषादनायतनो भवति ।
यमेतेनाभिचरन्ति ॥ ६ ॥
त्वामिद्धि हवामहे (सा. २१४) इत्यस्यामृचि सप्तहं सप्तहनामकं
साम भवति पृष्ठस्य । तेन साम्ना आसप्तमात् पुरुषात् । अभिविधावाङ् ।
सप्तपुरुषपर्यन्तं सोऽनायतनो भवति अप्रतिष्ठितो भवति । यं भ्रातृव्यमेतेन
यागेनाभिचरन्ति । अनेनास्य साम्नः सप्तहनामकत्वं प्रदर्शितं भवति । सप्त-
पुरुषहननसाधनत्वप्रतिपादनात् । यद्वा तस्य त्वामिद्धि हवामहे (सा. २१४)
इत्यस्यां गानेन सप्तहकारसंपत्तेः सप्तहनामकत्वं द्रष्टव्यम् ॥ ६ ॥
एवं विशेषधर्मानुक्त्वा इदानीं श्येनवैशेषिकधर्मानतिदिशति —
समानमितरच्छ्येनेन ॥ ७ ॥
- JT. before त्रिवृत् add तत्.
- RJKS. om. यत् ; M. after क्षेपिष्ठः adds: क्षिप्रकारी.
- M. यस्मात् for अपि.
- MKR. om. तस्य.
ये श्येनयागे वैशेषिका लोहितोष्णीषत्वादयो धर्मा विहितास्ते सर्वेऽप्यत्र
कर्तव्या इत्यर्थः । ननु इतरच्छब्दस्य संनिहितवाचकत्वेन श्येनवैशेषिकधर्माणां
चासंनिहितत्वेन तद्वाचकत्वमयुक्तम् । किं तु अतिदेशतः प्राप्ता ये ज्योतिष्टोम-
धर्मास्ते श्येनेऽपि विद्यमानाः तत्सादृश्यमुत्पादयन्तीति तदनुवादो युक्त
इति चेत् । सत्यम् । इतरच्छब्दः, संनिहितपरः न तु तन्मात्रपरः । अपि तु यत्
पूर्वोक्तसदृशं संनिहितं च तदेवेतरच्छब्द आचष्टे । तथा च सति इह
यच्चोदकप्राप्तज्योत्तिष्टोमिकधर्मजातमासन्नं न तत् सर्वं पूर्वनिर्दिष्टसतहादिधर्म-
सदृशम् ये चाप्राकृता लोहितोष्णीषत्वादयः श्येनवैशेषिकाः वैशेषिकधर्मत्वेन
सदृशास्ते न संनिहिताः । तत्र सादृश्यसंनिहितत्वयोरुभयोरेकस्मिन् अवश्यपरि-
त्यक्तव्ये सति वचननैरर्थक्यपरिहाराय संनिहितमपि ज्योत्तिष्टोमिकं धर्मजातं
परित्यज्य सादृश्यमादाय श्येनवैशेषिकाणामेव लोहितोष्णीषत्वादीनामभिधानमिति
युक्तमुत्पश्यामः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥
- RI om. ये; RI om. विहिताः.
- JT. कार्या० for कर्तव्या०.
- J. अत्रा०, M. इत्या०, R. प्रति० for उत्०.
- JT after चेत् add न.
- J. पूर्वोक्तं for पूर्वोक्त०; MK. सादृश्यं for सदृशं.
- RJI. ०प्राप्तं for ०प्राप्त०; RJTMK. ज्योति० for ज्योत्ति० K.
०ष्टौमिक० for ०ष्टोमिक०; JRIK. om. सर्वं; J. पूर्वे for पूर्व०; JM. निर्दिष्टं
for निर्दिष्ट०. - J. om. संनिहिताः...परिहाराय; RI om. उभयोर्.
- RJTMK. ज्योति० for ज्योत्ति०; K. ०ष्टौमिकं for ०ष्टोमिकं.
- J. उद्दिश्यामः, K. पश्यामः for उत्पश्यामः.
चतुर्थः खण्डः
अथ संदंशाख्यं यागं प्रतिजानीते —
अथैष संदंशः ॥ १ ॥
अथ अनन्तरमेष वक्ष्यमाणः संदंशः दुरादानग्रहणसाधनत्वेन
संदंशसाम्यात् संदंशाख्यो यज्ञः । उच्यत इति शेषः ॥ १ ॥
तं विधत्ते—
अभिचरन् यजेत ॥ २ ॥
तेन संदंशयागेन अभिचरन् भ्रातृव्यजिघांसुर्यजेत ॥ २ ॥
यत्सादृश्यादयं क्रतुः संदंशः तेन किं क्रियत इत्यत्राह—
यद्वै दुरादानं संदंशेन तदादत्ते ॥ ३ ॥
यद् दुरादानं तप्तायःपिण्डादि तत् संदंशेनादत्ते कर्मारः ॥ ३ ॥
किमत्र संदंशसाम्यं कथं च तत् संदंशवदनेन क्रियत इत्यत्राह—
यद् द्वौ द्वौ स्तोमौ सह यथा ह दुरादानं संदशेना-
नुहायाददीतैवंमेवैनमेतेनादत्ते ॥ ४ ॥
द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशे द्वे एकविंशे द्वे चतुर्विंशे द्वे
त्रिणवे इत्येवं द्वौ द्वौ स्तोमौ समानौ यत् सह भवतः । तेनायं क्रतुः संदंश-
सदृशः, ततश्च यथा ह यथा खलु दुरादानमादातुमशक्यं तप्तायःपिण्डादि
संदंशेनानुहाय प्राप्य आददीत एवमेवैनं भ्रातृव्यम् एतेन यागेन
आदत्ते ॥ ४ ॥
- KMI. ०जानीतुमुप जानीते for ०जानीते.
- J. आदान, KT. उदान, M. इदानीं for दुरादान०.
- J om. भ्रातृव्य०.
- J. लोहकारः, M. कर्मणः, IR. कर्मकरः for कर्मारः.
- J. सादृश्यं, M. साम्यात् for साम्यं; M. संदंशेन for संदंश०.
अस्मिन् यागे सर्वेषां स्तोमानां त्रिवृत्स्तोमसंपत्तिं तदीयानां स्तोत्रीयाणां
बृहतीसंपत्तिं चानूद्य प्रशंसति—
त्रिवृतं स्तोमं संपद्यते । बृहतीछन्दः । वज्रो वै त्रिवृत् ।
पशवो बृहती । वज्रेणैवास्य पशून् हन्ति । अपशुर्भवति ॥ ५ ॥
अत्र स्तोमगणः त्रिवृतं स्तोमं संपद्यते । स्तोत्रीयाणां च गणो
बृहतीछन्दः संपद्यते । तत्र त्रिवृद्वज्रो वै वज्र एव । बृहती पशवः ।
तेन अस्य भ्रातृव्यस्य पशून् वज्रेणैव हन्ति । तथा सति भ्रातृव्योऽ-
पशुर्भवतीति । तत् त्रिवृतः संपत्तिरेवं द्वे त्रिवृती स्तोत्रे इत्यादिना प्रदर्शितानां
स्तोमानां त्रिवृतोस्त्रिणवयोश्चाष्टौ त्रिवृत इति त्रिवृत्संपत्तिः सिद्धत्वान्न वक्तव्या ।
द्वाभ्यां द्वादशाभ्यां द्वाभ्यां पञ्चदशाभ्यां चतुःपञ्चाशदित्यतः षट् त्रिवृतः
संपद्यन्ते । द्वाभ्याम् एकविंशाभ्यां द्वाभ्यां चतुर्विंशाभ्यां नवतिरित्यतो दश
त्रिवृतः संपद्यन्त इति । बृहतीसंपत्तिर्विंशतिसंख्याभिस्त्रिवृद्भिः स्तोत्रीयाणां
षोडशोत्तरशतद्वयेन षट् बृहत्यः संपद्यन्त इति ॥ ५ ॥
स्तोत्रविकारं सप्रशंसं विधत्ते—
वैयश्वं भवति व्यश्वमेवैनं करोति ॥ ६ ॥
पुनानः सोम धारया (सा. ५११) इत्येतस्यामृचि वैयश्वम् , व्यश्वः
कश्चिदृषिः, तेन दृष्टं साम वैयश्वं, भवति भवेत् । तेन एनं भ्रातृव्यं व्यश्वं
विगताश्वमेव करोति । शब्दसाम्यात् स्तुतिः ॥ ६ ॥
तदेव प्रकारान्तरेण स्तौति—
परिष्टुब्धेडं भवति पर्येवैनं वृश्चति ॥ ७ ॥
- M. स्तौति for प्रशंसतिः
3&4. J. बृहतीं for बृहती. - J. अतः for अत्र; RKI om. अत्र...०भवतीति (L 8).
- J. ०वृत० for ०वृतः.
- J. after वक्तव्या adds: त्रिवृत्त्रिणवयोश्चाष्टौ 36 चत्वारस्त्रिवृत इति ।
- J. ins. तु चतुरुत्तरा चतुर्, R. चतुर् after संपत्तिः; T. ०संख्या-
काभिः for ०संख्याभिः. - R. ins. शत before ०शत०
चतुर्थोऽध्यायः (४) · १५७
वैयश्वमेव साम यतः परितुब्धेदं परितुब्धमिडेति निधनं यस्य तत्
तथोक्तम् । योन्यामृचि इडेति हि निधनम् । अतस्तेन एनं भ्रातृव्यं
परिवृश्चत्येव ॥ ७ ॥
तेन पुनः प्रयोगविशेषं दर्शयति—
वार्षाहरे पवमानमुखे भवतः। काशीतौपगवे नानदं
साम क्रूराणि सामानि संभवन्ति स्तुत्यै ॥ ८ ॥
पवमानमुखे माध्यंदिनार्भवयोः पवमानयोः मुखे वार्षाहरे सामनी
भवतः । माध्यंदिनपवमाने अर्षो सोम द्युमत्तमः (सा. ५०३) इत्येकस्यां
गायत्रवार्षाहरे । आर्भवे तु यस्ते मदो वरेण्यः (सा. ४७०) इत्यत्र । यत्र
गायत्रवार्षाहरम् (रे ?) इति वचनात् । तथा पवस्व (सा. ६९२) इन्द्रमच्छ
(सा. ६९७) इति अनयोः ऋचोः काशीतौपगवे सामनी । पुरोजिती वो
अन्धसः (सा. ५४५) इत्यत्र नानदं साम । इति क्रूराणि हिंसाकारीणि
सामानि भवन्ति । उद्गातारः संपादयन्ति । स्तुत्यै भ्रातृव्यस्येति ॥ ८ ॥
अत्र प्रकृतितः प्राप्तं सप्तदशं निषेधति—
निस्सप्तदशस्तेन क्रूरः ॥ ९ ॥
अयं संदंशयागो निस्सप्तदशः सप्तदशस्तोमेन हीनः कार्यः । तेन
पशव्यस्य सप्तदशस्तोमस्य राहित्येन क्रूरः भ्रातृव्यस्य पशुहानिकर इति ॥ ९ ॥
अत्र श्येनवैशेषिकान् धर्मानतिदिशति—
समानमितरच्छ्येनेन ॥ १० ॥
- RJMIK. वार्षाहरम् for गायत्रवार्षाहरम्.
- J om. इति M. ०कराणि for ०कारीणि.
- J adds उत्पादयन्ति before संपादयन्ति.
- T. ०दशस्तोमं for ०दशं.
- T. पुनः कार्यम् for हीनः कार्यः.
- J. पशून् विकरोति for पशुहानिकरः.
- RKMI om. अत्र...०दिशति.
- MIK om. समानम्....०च्छ्येनेन.
[Header]
१५८ षड्विंशब्राह्मणम्
व्याख्यातचरमेतत् । अत्र कल्पः—श्यैनमाज्यंब्रहिष्पवमानम् अर्षा
सोम द्युमत्तमः (सा. ५०३) इति गायत्रवार्षाहरे । पुनानः सोम धारया
(सा. ५११) इति वैयश्वम् एकस्यां, वषट्कारणिधनमेकस्यां, रौरवमेकस्याम् ।
यौधाजयं तिसृष्वौशनमन्त्यं रथन्तरं च वामदेव्यं च ससहं च कालेयं च ।
यस्ते मदो वरेण्यः (सा. ४७०) इति गायत्रं वार्षाहरं सत्रासाहीयम् ।
पवस्व (सा. ) इन्द्रमच्छ (सा. ५६६) इति काशौतोपगवे ।
पुरोजिती वो अन्धसः (सा. ५४५) इति नानदान्धीगवे । सामत्रयाणां
यत्प्रथमं कार्यम् । अन्त्यं यज्ञायज्ञीयम् अग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे
द्वादशे द्वे पञ्चदशे द्वे एकविंशे द्वे चतुर्विंशे द्वे त्रिणवे (म. सु. ?) ॥ इति । अत्र
सामत्रयाणां यत्प्रथममित्यस्य वाक्यशेषस्यायमभिप्रायः । हाउ हाउ हाउ ।
अस् । फट् । मृस् हस् । प्रायत् । चकाम् (आ. गा. २.७.५१.४)
इति योनावुत्पन्नं पुरोजिती वो अन्धसः (सा. ५४५) इत्यस्मिंस्तृचे ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
चतुर्थाध्याये चतुर्थः खण्डः ॥ ४ ॥
- R. गायत्रवार्षाहरे for गायत्रं वार्षाहरं.
- MK. ॰जितमिति, TI. ॰जित्यामिति for ॰जिती...॰स्तृचे.
पञ्चमः खण्डः
अथ प्रतिज्ञापूर्वकं वज्रयागं दर्शयति—
अथैष वज्रोऽभिचरन् यजेत वज्रेणैवास्मै वज्रं
प्रहरति स्तृत्यै ॥ १ ॥
अथ अनन्तरम् एषः वक्ष्यमाणो वज्रो वज्रसादृश्यात् वज्राख्यो यागः ।
उच्यत इति शेषः । एतेन वज्रेणाभिचरन् भ्रातृव्यं जिघांसुर्यजेत ।
वज्रसंघातात्मकत्वात् अयं यज्ञो वज्रः । संघातिनां स्तोत्रीयाणां वज्रात्मकत्वात् । तेन
वज्रेणैव वज्रम् एवास्मै भ्रातृव्याय प्रहरति । स्तृत्यै तस्य हिंसार्थम् ॥ १ ॥
के पुनः समुदायिनो वज्राः ? यत्समुदायो वज्र इत्याशङ्क्य
तद्विवक्षुराह—
सर्वः पञ्चदशो भवति ॥ २ ॥
अस्य सर्वाण्यवयवरूपाणि स्तोत्राणि पञ्चदशानि । तेन सर्वोऽप्यवयवी
पञ्चदशो भवतीति ॥ २ ॥
किं ततः ? इत्यत आह—
वज्रो वै पञ्चदशः, तमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ३ ॥
पञ्चदशो वज्र एव । ऐन्द्रत्वसाम्यात् । अतस्तदवयवात्मकानि
स्तोत्राण्यपि वज्ररूपाणि । तेन तं प्रसिद्धं वज्रं हिंसासाधनम् एव अस्मै
भ्रातृव्याय प्रहरति स्तृत्यै ॥ ३ ॥
तत्र धर्मविशेषं दर्शयति—
उक्थ्यः षोडशिमान् भवति ॥ ४ ॥
2. M. यज्ञ for वज्र०; I. विदधाति for दर्शयति.
7. J trans. यज्ञः after वज्रः; MT. संघातिता, K. संघातितानां for
संघातिनां.
8. J om. एव; J. यज्ञम् for वज्रम्.
[Header] १६० षड्विंशब्राह्मणम्
उक्थमर्हतीत्युकथ्यः । उक्थार्हः उक्थवान् भवतीत्यर्थः । किं च
षोडशिमान् भवतीति ॥ ४ ॥
तदुभयं स्तौति—
पशवो वा उक्थानि । वज्रः षोडशी । वज्रेणैवास्मै
वज्रं प्रहरति स्तुत्यै ॥ ५ ॥
उक्थानि पशवो वै पशव एव । तत्साधनत्वात् । षोडशी वज्रः
षोडशिसामान्यनुष्टुप्सु कुर्वन्तीति वचनात् । षोडशिन आनुष्टुभत्वे वाग्वा
अनुष्टुब् वाग्वै वज्र इति प्रशंसनात् षोडशिनो वज्रत्वम् । तेन वज्रेणैव
वज्रमेवास्मै भ्रातृव्याय प्रहरति । स्तुत्यै भ्रातृव्यपशूनाम् । उक्थानां
पशुरूपत्वेन स्तुतेरर्थवत्त्वायेत्यवगन्तव्यम् ॥ ५ ॥
तत्र षोडशिसाम्नः शक्वरीषु गानं दर्शयति—
तस्य महानाम्न्यः षोडशिसाम भवन्ति ॥ ६ ॥
तस्य वज्राख्यस्य महानाम्न्यः, विदा मघवन् (सा. ६४१)
इत्याद्याः (आ. गा. परिशिष्ट १—३.) शकर्यः षोडशिसाम भवन्तीति ।
तासु षोडशिसाम कुर्यादित्यर्थः ॥ ६ ॥
तदेतत् प्रशंसति—
वज्रो वै महानाम्न्यः । वज्रः षोडशी । वज्रेणैवास्मै
वज्रं प्रहरति स्तुत्यै ॥ ७ ॥
- RMTIK. om. उक्थमर्हतीति and उक्थार्हः.
- R. ॰ष्टुभत्वेन for ॰ष्टुभत्वे.
- RIK. प्रशस्तत्वात् for प्रशंसनात् ; J. वज्रत्वेन for वज्रत्वम् .
- M. इति भ्रातृव्यानां for भ्रातृव्य०; J. रथानां for उक्थानां.
- J. श्रुते० for स्तुते०; J. ॰वत्त्वात् येभ्यो गन्तव्यम् for ॰वत्त्वाये-
त्यवगन्तव्यम्. - M. षोडशी for षोडशि; RJIM. भवति for भवन्ति.
- T adds. यज्ञस्य after वज्राख्यस्य.
- RMIK. भवतीति for भवन्तीति.
चतुर्थोऽध्यायः (५) १६१
महानाम्न्यो वज्र एव । ऐन्द्रत्वसाम्यात् । स नः स्वर्षदति द्विषः
(सा. ६४७८) इति लिङ्गात् । रक्षोघ्नत्वसाम्याद्वा । षोडशी वज्रः ।
षोडशिनो वज्रत्वं प्रागेवादर्शि । तस्माद् वज्रेणैव वज्रमेव अस्मै भ्रातृव्याय
प्रहरति स्तुत्यै तस्येति ॥ ७ ॥
संदंशवैशेषिकधर्मानदिशति—
समानमितरत् पूर्वेण ॥ ८ ॥
पूर्वेण अनन्तरोक्तेन संदंशेन इतरत् समानम् । संदंशे ये विशेषधर्मा
विहितास्तेऽत्र कार्या इत्यर्थः । अत्र कल्पः—पवस्वेन्दो वृषा सुतः
(सा. ४७९) अपघ्नन् पवते मृधः (सा. ५१०) इति पुरस्तात् पर्यायस्य
तृचे उद्धरति । सत्रासाहीयं पुरोजिती वो अन्धसः (सा. ५४५) इति
नानदमेकस्यां तस्यामेवान्धीगवं श्यावाश्वमेकस्यां सामैकस्यां त्रयाणां यद्
द्वितीयं प्रमंहिष्ठीयमौपगवम् ऊर्शीयं महानाम्न्यः षोडशिसाम । समानमि-
त.ञ्. । पूर्वे सर्वः पञ्चदशः । कॢप्तो ज्योतिष्टोमः शान्त्यर्थः शान्त्यर्थः (म.सू.५. ९)
इति । कॢप्तो ज्योतिष्टोमः शान्त्यर्थः इत्यस्यायमर्थः—सर्वेष्वभिचारयज्ञेषु समाप्तेषु
अभिचारयज्ञकृतदोषशान्त्यर्थं प्रकृतिभूतो ज्योतिष्टोमः कार्य इत्यर्थः ॥ ८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
चतुर्थाध्याये पञ्चमः खण्डः ॥ ५ ॥
2. KM adds इन्द्र० before रक्षोघ्न० ; RTIK. ०साम्यात् । तद्वा
for साम्याद्वा.
3. RTKI. प्रयोगो वा दर्शितः for प्रागेवादर्शि; T om. एव.
7. T. रोक्तौ for ०रोक्तेन; J adds. गानं after इतरत्.
14. T. समापिते for समाप्तेषु.
15. I. आभि० for अभि० ; T. यज्ञेषु; for यज्ञ०.
प० 11
षष्ठः खण्डः
अथ पञ्चविंशब्राह्मणोक्ताभ्यां त्रयोदशाहाभ्यां विलक्षणं त्रयोदशाहं
वैश्वदेवाख्यं सत्रं निरूप्यते । तत्राहःक्लृप्तिं दर्शयति—
अतिरात्रश्चतुर्विंशं प्रायणीयमहरभिजित् त्रयः
स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिन्महा-
व्रतं चातिरात्रश्च ॥ १ ॥
अतिरात्रश्चतुर्विंशं चतुर्विंशस्तोमयुक्तं प्रायणीयमहरित्येते आद्ये
अहनी । अभिजिदाद्यो विश्वजिदन्तो मध्यमो नवरात्रः । महाव्रतमतिरात्र
इत्येते अन्तिमे अहनी इति ॥ १ ॥
तदेतत् सत्रं विश्वदेवकर्तृकत्वेन सोमगृहपतित्वेन च प्रशंसति —
विश्वे देवाः सत्रमासत सोमेन राज्ञा गृहपतिना ।
तेऽब्रुवन्त्सोम एव नो राजा सर्वत्र विभवोदिति । तस्मात्
सोमो राजा सर्वाणि नक्षत्राण्युपैति । सोमो हि रेतोधाः ॥ २ ॥
राज्ञा दीप्तेन सोमेन गृहपतिना सह विश्वे देवाः सत्रमासत
ते एवमब्रुवन् नः अस्माकं सर्वत्र सर्वेष्वपि लोकेषु सोम एव राजा
विभवेत् विशेषेण भूयादिति । यत एवं तस्मात् सोमो राजा सर्वाणि
नक्षत्राणि उपैति प्राप्नोति आधिपत्येन । किं च, हि यस्मात् सोमो
- J om. त्रयोदशाहाभ्यां विलक्षणं.
- J. प्रथमे, TK. आद्यम् for आद्ये.
- RKI. ०रात्रम् for ०रात्रः.
- J om. सोमगृहपतित्वेन च.
11&14. MT. ग्रह० for गृह०. - RJM om. ते.
- J. आप्नोति for आधिपत्येन.
[हेडर]
चतुर्थोऽध्यायः (६) १६३
रेतोधाः रसात्मकत्वेन लोहितादिपरिणामद्वारेण रेतस आधाने हेतुः । अतोऽपि
सोमगृहपतिकं सत्रं प्रशस्तमित्यर्थः ॥ २ ॥
तदीयं मध्यमं नवरात्रं स्तोतुमवयुत्यानुवदति—
नवा॒हं सं॑वत्स॒रस्य॒ गर्भ॒मुप॑यन्ति ॥ ३ ॥
य एतत्सत्रमुपेयुः ते संवत्सरस्य प्रकृतिभूतस्य संवत्सरसाध्यस्य
गवामयनस्य विकृतित्वात् त्रयोदशाहं सत्रमपि संवत्सरनाम्नोच्यते । तस्यान्तः गर्भं
मध्यमं नवाहम् उपयन्तीति ॥ ३ ॥
अनूदितमर्थं स्तौति—
न॒वाहो॒ वै सं॑वत्स॒रस्य॒ प्रति॑मा । नव॒ प्रा॒णाः ।
प्रा॒णाने॒वाव॑रुन्धते ॥ ४ ॥
नवाहो वै नवरात्र एव संवत्सरस्य सत्रस्य प्रतिमा सदृशः तत्रत्यानां
सर्वेषां स्तोमानां पृष्ठानां च अतिदेशतो विद्यमानत्वात् । तथा नव प्राणाः ।
अयं नवाहो नवसंख्याकाः प्राणाः । सप्त शीर्षण्याः प्राणाः द्वाववाञ्चौ
(श.ब्रा. ६.४.२.५; तै. सं. ५.१.७.१) इति श्रुतेः । य एतं नवाहमुपेयुः ते
प्राणानेवावरुन्धते प्राप्नुवन्ति ॥ ४ ॥
प्रकारान्तरेण स्तौति—
प्र॒जाव॑न्तो जी॒वा ज्योति॑रश्नुवते य ए॒ता
उप॒यन्ति॑ ॥ ५ ॥
- JM. असावपि, K T. असोपि for अतोऽपि.
- KJ. सोमः for सोम०; M adds सोमः before सोम० ;
MR. ग्रह० for गृह० ; J. ०पतिः किं शस्तम् for ०पतिकं सत्रं प्रशस्तम् ;
T. शस्त्रं for सत्रं. - J. उक्तमिति for स्तोतुमवयुत्या; M. एव युक्त्या, K. अवयुक्त्या,
R. अवयवादि for अवयुत्या. - MRI. गवामयन० for गवामयनस्य ; P.MIK. om. सत्रम् ;
JKM. om. (अ)न्तः; KM. अस्य for तस्य. - J add. अयं and T. यन्नवाहो after वै; M. संवत्सरसत्रस्य for सत्रस्य.
- J. अथ for अयं.
- RI om. ये ; KRI एवं for एतं.
- J adds. नव before प्राणान् .
१६४ षड्विंशब्राह्मणम्
य एता रात्रीः । नवरात्रमित्यर्थः । उपयन्ति ते प्रजावन्तः पुत्रपौत्रादि-
युक्ताः रेतोधानहेतुसोमगृहपतिकयागानुष्ठानात् जीवाः शतवर्षलक्षणपुरुषायुषश्च
सन्तः प्राणात्मकत्वनवरात्रोपायनात् ज्योतिः प्रकाशं कीर्तिम् अश्नुवते
प्राप्नुवन्ति । फलान्तरस्यात्राविधानात् एतदेव फलं रात्रिसत्रन्यायेनेत्यव-
गन्तव्यम् ॥ ५ ॥
इति षड्विंशब्राह्मणे चतुर्थाध्याये
षष्ठः खण्डः ॥ ६ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य-
धुरंधरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
षड्विंशब्राह्मणव्याख्याने चतुर्थोध्यायः समाप्तः ॥ ४ ॥
२. R. ग्रह० for गृह०; .RJT. ०पति० for ०पतिक०.
३. R. ०पधानात्, T. ०पयानात् for ०पायनात्.
पञ्चमोऽध्यायः
प्रथमः खण्डः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अग्निहोत्रं निरूपयितुमादौ तत्प्रशंसार्थं देवादिविषयामाख्यायि-
कामाह—
प्रजापतिस्तपोऽतप्यत । तस्य ह वै तप्यमानस्य
मनः प्राजायत देवान् सृजेयमिति । त इमे देवा असृज्यन्त ।
दिवा देवानसृजत । नक्तमसुरान् । यद्दिवा देवानसृजत
तद्देवानां देवत्वम् । यदसूर्यं तदसुराणामसुरत्वम् । यत्
पीतत्वं तत्पितॄणां पितृत्वम् ॥ १ ॥
प्रजापतिर्विधाता पुरा तपोऽतप्यत चकार । तस्य तपसा
तप्यमानस्य विशुद्धसत्त्वस्य देवान् सृजेयमिति मनो बुद्धिः प्राजायत ।
ततः ते इमे प्रसिद्धा इन्द्रादयो देवाः तेन असृज्यन्त । कथम्? दिवा
अहनि देवान् , नक्तं रात्रौ असुरान् [असृजत] । यत् यतो दिवा
देवानसृजत प्रजापतिः तद् देवानां देवत्वम् अतिशयितदीप्तिमत्त्वम् । यत्
यतो असूर्यं, न विद्यते सूर्यो यस्मिन् तत् असूर्यं नक्तम् । कालाध्वनोरत्यन्त-
संयोगे (पा. २. ३. ५) इति द्वितीया । असुरानसृजतेत्यनुषङ्गः । तत्
तेनासुराणामसुरत्वं कर्मणि प्रकाशराहित्यम् । यत् यतः पीतत्वम् । पा पान
5. RIK. अग्निहोत्रप्रशंसा, M. वैश्वदेवसत्रं for अग्निहोत्रं.
12. M adds. तपः before चकार.
16. J. इति तेषां तदाप्ति० for अतिशयितदीप्ति०.
18. J om. द्वितीया; J. यान् for असुरान् .
19. RMIK. om. यद् यतः J. om. पीतत्वम् .
पञ्चम प्रपाठक (अद्भुत ब्राह्मण: भूकम्प, ग्रहण व उत्पात शान्ति उपसंहार)
इति धातोः पीयन्त इति कर्तरि क्विप् । तेषां भावः पीतस्त्वम् । कव्यस्यामृतस्य
पातृत्वम् । तेन पितॄणां पितृत्वम् ॥ १ ॥
सन्त्वेतादृशाः देवाः । किं तत इत्यत्राह —
देवा वै स्वर्गकामास्तपोऽतप्यन्त । तेषां तप्यमानानां
रसोऽजायत । पृथिव्यन्तरिक्षं द्यौरिति । तेऽभ्यतपन् । तेषां
तप्यमानानां रसोऽजायत । ऋग्वेदः पृथिव्या यजुर्वेदोऽन्त-
रिक्षात् सामवेदोऽमुष्मात् । तेऽभ्यतपन् । तेषां तप्यमानानां
रसोऽजायत । ऋग्वेदाद्गार्हपत्यो यजुर्वेदाद्दक्षिणाग्निः
सामवेदादाहवनीयः । तेऽभ्यतपन् । तेषां तप्यमानानां
पुरुषोऽजायत । सहस्रशीर्षः सहस्राक्षः सहस्रपात् ॥ २ ॥
ततः ते देवाः अग्निहोत्रात् स्वर्गं कामयमाना सन्तः तपः चक्रुः ।
तेषां तप्यमानानां तेभ्यस्तप्यमानेभ्यः पृथिव्यन्तरिक्षं द्यौरिति लोकत्रयात्मको
रसोऽजायत । तत्सारभूताः पृथिव्यादयो लोका अभ्यतपन् ऋग्वेदादीनुद्दिश्य
तपश्चक्रुः । तेभ्यस्तप्यमानेभ्यः ऋग्वेदाद्यात्मको रसोऽजायत । कथम् ?
पृथिव्या ऋग्वेदात्मको रसः समजनि । एवमुत्तरत्रापि । ते वेदा अभ्यतपन् ।
तेभ्यो गार्हपत्याद्यात्मको रसोऽजायत । कथम् ? ऋग्वेदाद् गार्हपत्यो रसोऽजायत ।
समानमन्यत् । ते गार्हपत्यादयोऽप्यभ्यतपन् । तेभ्यस्तप्यमानेभ्यः सहस्रशीर्षः
अपरिमितमूर्धा सहस्राक्षः असंख्यातनयनः सहस्रपात् अपरिमितपादः पुरुषो
रसोऽजायत । एवं चतुर्थरसात्मकत्वात् प्रशस्ततमोऽयं पुरुष इत्यर्थः ॥ २ ॥
- MK. पीत्वं for पीतस्त्वं.
- J. पीतस्त्वम, M. पात्रत्वम् , KIR. पितृत्वम् for पातृत्वम्.
- ShK. ०शीर्षाः for ०शीर्षः.
- R om. तेभ्यस्...तपश्चक्रुः (L. 14.)
- J adds अपि after. लोकाः
- TJ. ऋग्वेदो for ऋग्वेदाद्यात्मको.
- RKI om. अपि.
भवत्वेवम् । ततः किमित्यत्राह—
ते देवाः प्रजापतिमुपाधावन् वेदशरीरैर्वा इदममृत-
शरीरं न ह वा इदं मृत्योः समाप्स्यत इति तेऽब्रुवन् को
नामासी(से ?)ति ॥ ३ ॥
ततः ते देवा प्रजापतिं स्रष्टारम् उपाधावन् । उपेत्य च वेदशरीरैः
ऋग्वेदाद्यात्मकैः गार्हपत्यादिभिः यदिदम् अमृतशरीरमुत्पन्नं तद् इदं मृत्योर्न
समाप्स्यते समाप्तिं प्राप्नोतीति । ह वा इत्येतावैतिह्यद्योतनार्थौ । स पुरुषः
को नाम कः खल्वसीति एवं प्रजापतिमब्रुवन् । अन्तिम इतिकारो देवानां
प्रश्नपरिसमाप्तिद्योतनार्थः ॥ ३ ॥
प्रजापतेरुत्तरमाह—
स होवाच यज्ञो नामेति ॥ ४ ॥
स तैरेवं पृष्टः प्रजापतिः उवाच । यज्ञो नाम अग्निहोत्रयज्ञ एव
सोऽयं पुरुषः नान्यः कश्चिदिति ॥ ४ ॥
तदिदं विधित्सितमग्निहोत्रं सद्योयज्ञसंस्थात्मकत्वेन प्रशंसति—
तेषां प्रजापतिः सद्योयज्ञसंस्थामुपैति । सद्यो ह वा
एष यज्ञः संस्थामुपैति ॥ ५ ॥
3&7. M. समाप्स्यति for समाप्स्यते.
6. RI om. इदम्.
7. KMR. प्रापद् for प्राप्नोति ; KM. add भावः after इति ;
J. इतिशब्दस्त्वेतावद्योतनार्थः for हवा...द्योतनार्थौ; M. इति हीत्ये० for ह वा इत्ये०.
8. R. नामा त्वं, T. न(ा)मारम, K. नामारं for नाम ; RI(आ)त्मासीति, M. (आ)त्मंवेति for (आ) सेति.
12. M. तैरयं for तैरेवं ; MKI ०होत्रो० for ० होत्र ; J. अग्निहोत्रम् for अग्निहोत्र यज्ञ एव.
13. J. ततोऽन्यत् किंचिन्नास्तीति for नान्यः कश्चिदिति.
14. J. om. तदिदं विधित्सितम् .
16. RJ. यज्ञ० for यज्ञः.
१६८ षड्विंशब्राह्मणम्
तेषामुपन्नानां देवानामध्ये प्रजापतिः सद्योयज्ञसंस्थामुपेति । सद्यः
समाप्यमानयज्ञात्मकत्वादग्निहोत्रं प्राप्नोतीत्यर्थः । अत एव एषोऽग्निहोत्ररूपो
यज्ञः सद्यः संस्थां समाप्तिमुपैति प्राप्नोति ॥ ५ ॥
ननु दीक्षणीयादीतिकर्तव्यताया अभावात् कथमस्य यज्ञत्वमित्याशङ्क्य
प्रसिद्धज्योतिष्टोमादियज्ञसादृश्यसिद्धयर्थम् अत्रापि दीक्षणीयादीतिकर्तव्यतां
संपादयति—
यद्गार्हपत्यं प्रादुष्करोति सा दीक्षणीया । यद्दक्षिणाग्निं
चाहवनीयं च सा प्रायणीया । यत्समिधोऽभ्यादधाति ता
उपसदः ॥ ६ ॥
गार्हपत्यम् अग्निं यत् प्रादुष्करोति अग्निहोत्रार्थं प्रादुर्भावयति सा
दीक्षणीया दीक्षणीयाख्येष्टिः । प्राथम्यसाम्यात् । दक्षिणाग्निमाहवनीयं
चाग्निं यत् प्रादुष्करोति सा प्रायणीयेष्टिः उपकारकत्वसाम्यात् । समिधोऽ-
भ्यादधते समिदाधानं कुर्वन्ति इति यत् ता उपसदः उपसदाख्यहोमाः ॥ ६ ॥
अथ अग्निहोत्रे उत्पूताज्यस्कन्दने प्रायश्चित्तं दर्शयति—
अथ यस्याज्यमुत्पूतं स्कन्दति । सा वै स्कन्ना
नाम आहुतिः । ततो वै यजमानः प्रमायुर्भवति । वरो
देयः । सैव तस्य प्रायश्चित्तिः ॥ ७ ॥
- RIK. अर्थे for अध्ये.
- JMTK. om. सद्यः.
- J. अत्र for ननु; RKM. दीक्षणीयादिति T. दक्षिणायादिति
for दीक्षणीयादीति. - KMT. दीक्षणीयादिति for दीक्षणीयादीति.
- KT दक्षिणा० for यद्दक्षिणा०.
- MTK. ०दधते for दधाति.
- J. उपकारस्त्व० for प्राथम्य०; J. om. दक्षिणाग्निम्...०साम्यात् .
- KT. वा० for चा०; RI. ०सामान्यात् for साम्यात् ; RJI add
यत् before समिधो०. - RJ. ०दधाति for ०दधते See CN; RJIK. तद्. for ताः
J. उपसदाख्यो होमः for उपसदाख्यहोमाः.
पञ्चमोऽध्यायः (१) १६९
अथशब्दो वाक्योपक्रमे । यस्य यजमानस्य उत्पूतम् उत्पवनेन
संस्कृतम् आज्यं स्कन्दति पात्रात् सा वै सैव स्कन्ना नाम स्कन्नरूपा
आहुतिर्भवतीति । ततो वै स्कन्नाहुत्या यजमानः प्रमायुर्भवति मरणशीलो
भवतीत्यर्थः । तस्मिन्निमित्ते वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सैव
दक्षिणा तस्य आज्यस्कन्दस्य प्रायश्चित्तिः । प्रत्यवायपरिहारार्थं कर्मे-
त्याहुर्ब्रह्मवादिनः ॥ ७ ॥
अनुत्पूताज्यस्कन्दने प्रायश्चित्तमाह —
अथ यस्याज्यमनुत्पूतं स्कन्दत्यसौ वा अस्कन्ना
नाम आहुतिः । ततो वै यजमानस्य चित्तं प्रमायुर्भवति ।
चित्रं देयं सैव तस्य प्रायश्चित्तिः ॥ ८ ॥
अथ पुनः यस्य यजमानस्य संबन्धि आज्यम् अनुत्पूतम् उत्पवन-
रहितं स्कन्दति पात्रात्, असावस्कन्ना नाम अस्कन्नरूपा आहुतिः । ततः
तयैवाहुत्या यजमानस्य चित्तं प्रमायुर्विनाशि भवतीति तन्निमित्तं चित्रं नाना-
विधं द्रव्यं देयम् । सैव तस्य प्रायश्चित्तिरनुत्पूतस्कन्दप्रायश्चित्तिरिति ॥ ८ ॥
अग्निहोत्रे सवनत्रयं संपादयति—
यद्गार्हपत्ये जुहोति तत्प्रातःसवनम् । यद्दक्षिणाग्नौ
जुहोति तन्माध्यंदिनं सवनम् । यदाहवनीये जुहोति
तत्तृतीयसवनम् ॥ ९ ॥
- J. om. शब्दो...यस्य ; J. om. उत्पवनेन...आज्यं.
- J. om. पात्रात्, सैव and स्कन्नरूपा.
- J. om. भवतीति...०हुत्या.
- MTK. निमित्तं for निमित्ते.
- J. om. आज्य० ; RI. ०स्कन्दनस्य for ०स्कन्दस्य; J. adds
इति after ०श्चित्तिः. - K. वित्तं for चित्तं.
- RMIK. add तत् after ०रहितं ; J. पात्रम् for पात्रात्, M.
असौ वै स्कन्नानां for असावस्कन्ना नम ; T. ०स्कन्नानां for ०स्कन्ना नाम० ;
J. आज्याहुतिः for आहुतिः. - J om. विनाशि, and (इ)ति.
- JRTK. om. प्रायश्चित्तिर् ; J. ०स्कन्दस्य, RI. ०स्कन्दन० for
०स्कन्द०