सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 158, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 158

[Header]
१५८ षड्विंशब्राह्मणम्

व्याख्यातचरमेतत् । अत्र कल्पः—श्यैनमाज्यंब्रहिष्पवमानम् अर्षा
सोम द्युमत्तमः (सा. ५०३) इति गायत्रवार्षाहरे । पुनानः सोम धारया
(सा. ५११) इति वैयश्वम् एकस्यां, वषट्कारणिधनमेकस्यां, रौरवमेकस्याम् ।
यौधाजयं तिसृष्वौशनमन्त्यं रथन्तरं च वामदेव्यं च ससहं च कालेयं च ।
यस्ते मदो वरेण्यः (सा. ४७०) इति गायत्रं वार्षाहरं सत्रासाहीयम् ।
पवस्व (सा. ) इन्द्रमच्छ (सा. ५६६) इति काशौतोपगवे ।
पुरोजिती वो अन्धसः (सा. ५४५) इति नानदान्धीगवे । सामत्रयाणां
यत्प्रथमं कार्यम् । अन्त्यं यज्ञायज्ञीयम् अग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे
द्वादशे द्वे पञ्चदशे द्वे एकविंशे द्वे चतुर्विंशे द्वे त्रिणवे (म. सु. ?) ॥ इति । अत्र
सामत्रयाणां यत्प्रथममित्यस्य वाक्यशेषस्यायमभिप्रायः । हाउ हाउ हाउ ।
अस् । फट् । मृस् हस् । प्रायत् । चकाम् (आ. गा. २.७.५१.४)
इति योनावुत्पन्नं पुरोजिती वो अन्धसः (सा. ५४५) इत्यस्मिंस्तृचे ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
चतुर्थाध्याये चतुर्थः खण्डः ॥ ४ ॥


  1. R. गायत्रवार्षाहरे for गायत्रं वार्षाहरं.
  2. MK. ॰जितमिति, TI. ॰जित्यामिति for ॰जिती...॰स्तृचे.