सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 156, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 156

अस्मिन् यागे सर्वेषां स्तोमानां त्रिवृत्स्तोमसंपत्तिं तदीयानां स्तोत्रीयाणां
बृहतीसंपत्तिं चानूद्य प्रशंसति—
त्रिवृतं स्तोमं संपद्यते । बृहतीछन्दः । वज्रो वै त्रिवृत् ।
पशवो बृहती । वज्रेणैवास्य पशून् हन्ति । अपशुर्भवति ॥ ५ ॥
अत्र स्तोमगणः त्रिवृतं स्तोमं संपद्यते । स्तोत्रीयाणां च गणो
बृहतीछन्दः संपद्यते । तत्र त्रिवृद्वज्रो वै वज्र एव । बृहती पशवः ।
तेन अस्य भ्रातृव्यस्य पशून् वज्रेणैव हन्ति । तथा सति भ्रातृव्योऽ-
पशुर्भवतीति । तत् त्रिवृतः संपत्तिरेवं द्वे त्रिवृती स्तोत्रे इत्यादिना प्रदर्शितानां
स्तोमानां त्रिवृतोस्त्रिणवयोश्चाष्टौ त्रिवृत इति त्रिवृत्संपत्तिः सिद्धत्वान्न वक्तव्या ।
द्वाभ्यां द्वादशाभ्यां द्वाभ्यां पञ्चदशाभ्यां चतुःपञ्चाशदित्यतः षट् त्रिवृतः
संपद्यन्ते । द्वाभ्याम् एकविंशाभ्यां द्वाभ्यां चतुर्विंशाभ्यां नवतिरित्‍यतो दश
त्रिवृतः संपद्यन्त इति । बृहतीसंपत्तिर्विंशतिसंख्याभिस्त्रिवृद्भिः स्तोत्रीयाणां
षोडशोत्तरशतद्वयेन षट् बृहत्यः संपद्यन्त इति ॥ ५ ॥
स्तोत्रविकारं सप्रशंसं विधत्ते—
वैयश्वं भवति व्यश्वमेवैनं करोति ॥ ६ ॥
पुनानः सोम धारया (सा. ५११) इत्येतस्यामृचि वैयश्वम् , व्यश्वः
कश्चिदृषिः, तेन दृष्टं साम वैयश्वं, भवति भवेत् । तेन एनं भ्रातृव्यं व्यश्वं
विगताश्वमेव करोति । शब्दसाम्यात् स्तुतिः ॥ ६ ॥
तदेव प्रकारान्तरेण स्तौति—
परिष्टुब्धेडं भवति पर्येवैनं वृश्चति ॥ ७ ॥


  1. M. स्तौति for प्रशंसतिः
    3&4. J. बृहतीं for बृहती.
  2. J. अतः for अत्र; RKI om. अत्र...०भवतीति (L 8).
  3. J. ०वृत० for ०वृतः.
  4. J. after वक्तव्या adds: त्रिवृत्त्रिणवयोश्चाष्टौ 36 चत्वारस्त्रिवृत इति ।
  5. J. ins. तु चतुरुत्तरा चतुर्, R. चतुर् after संपत्तिः; T. ०संख्या-
    काभिः for ०संख्याभिः.
  6. R. ins. शत before ०शत०
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक) · पृष्ठ 156, कुल 226 में से · SarvaKosh