सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 159, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 159

पञ्चमः खण्डः
अथ प्रतिज्ञापूर्वकं वज्रयागं दर्शयति—
अथैष वज्रोऽभिचरन् यजेत वज्रेणैवास्मै वज्रं
प्रहरति स्तृत्यै ॥ १ ॥
अथ अनन्तरम् एषः वक्ष्यमाणो वज्रो वज्रसादृश्यात् वज्राख्यो यागः ।
उच्यत इति शेषः । एतेन वज्रेणाभिचरन् भ्रातृव्यं जिघांसुर्यजेत ।
वज्रसंघातात्मकत्वात् अयं यज्ञो वज्रः । संघातिनां स्तोत्रीयाणां वज्रात्मकत्वात् । तेन
वज्रेणैव वज्रम् एवास्मै भ्रातृव्याय प्रहरति । स्तृत्यै तस्य हिंसार्थम् ॥ १ ॥
के पुनः समुदायिनो वज्राः ? यत्समुदायो वज्र इत्याशङ्क्य
तद्विवक्षुराह—
सर्वः पञ्चदशो भवति ॥ २ ॥
अस्य सर्वाण्यवयवरूपाणि स्तोत्राणि पञ्चदशानि । तेन सर्वोऽप्यवयवी
पञ्चदशो भवतीति ॥ २ ॥
किं ततः ? इत्यत आह—
वज्रो वै पञ्चदशः, तमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ३ ॥
पञ्चदशो वज्र एव । ऐन्द्रत्वसाम्यात् । अतस्तदवयवात्मकानि
स्तोत्राण्यपि वज्ररूपाणि । तेन तं प्रसिद्धं वज्रं हिंसासाधनम् एव अस्मै
भ्रातृव्याय प्रहरति स्तृत्यै ॥ ३ ॥
तत्र धर्मविशेषं दर्शयति—
उक्थ्यः षोडशिमान् भवति ॥ ४ ॥
2. M. यज्ञ for वज्र०; I. विदधाति for दर्शयति.
7. J trans. यज्ञः after वज्रः; MT. संघातिता, K. संघातितानां for
संघातिनां.
8. J om. एव; J. यज्ञम् for वज्रम्.