सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 162, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 162

षष्ठः खण्डः
अथ पञ्चविंशब्राह्मणोक्ताभ्यां त्रयोदशाहाभ्यां विलक्षणं त्रयोदशाहं
वैश्वदेवाख्यं सत्रं निरूप्यते । तत्राहःक्लृप्तिं दर्शयति—
अतिरात्रश्चतुर्विंशं प्रायणीयमहरभिजित् त्रयः
स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिन्महा-
व्रतं चातिरात्रश्च ॥ १ ॥
अतिरात्रश्चतुर्विंशं चतुर्विंशस्तोमयुक्तं प्रायणीयमहरित्येते आद्ये
अहनी । अभिजिदाद्यो विश्वजिदन्तो मध्यमो नवरात्रः । महाव्रतमतिरात्र
इत्येते अन्तिमे अहनी इति ॥ १ ॥
तदेतत् सत्रं विश्वदेवकर्तृकत्वेन सोमगृहपतित्वेन च प्रशंसति —
विश्वे देवाः सत्रमासत सोमेन राज्ञा गृहपतिना ।
तेऽब्रुवन्त्सोम एव नो राजा सर्वत्र विभवोदिति । तस्मात्
सोमो राजा सर्वाणि नक्षत्राण्युपैति । सोमो हि रेतोधाः ॥ २ ॥
राज्ञा दीप्तेन सोमेन गृहपतिना सह विश्वे देवाः सत्रमासत
ते एवमब्रुवन् नः अस्माकं सर्वत्र सर्वेष्वपि लोकेषु सोम एव राजा
विभवेत् विशेषेण भूयादिति । यत एवं तस्मात् सोमो राजा सर्वाणि
नक्षत्राणि उपैति प्राप्नोति आधिपत्येन । किं च, हि यस्मात् सोमो

  1. J om. त्रयोदशाहाभ्यां विलक्षणं.
  2. J. प्रथमे, TK. आद्यम् for आद्ये.
  3. RKI. ०रात्रम् for ०रात्रः.
  4. J om. सोमगृहपतित्वेन च.
    11&14. MT. ग्रह० for गृह०.
  5. RJM om. ते.
  6. J. आप्नोति for आधिपत्येन.