षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 168, कुल 226 में से
संदर्भ में पढ़ें१६८ षड्विंशब्राह्मणम्
तेषामुपन्नानां देवानामध्ये प्रजापतिः सद्योयज्ञसंस्थामुपेति । सद्यः
समाप्यमानयज्ञात्मकत्वादग्निहोत्रं प्राप्नोतीत्यर्थः । अत एव एषोऽग्निहोत्ररूपो
यज्ञः सद्यः संस्थां समाप्तिमुपैति प्राप्नोति ॥ ५ ॥
ननु दीक्षणीयादीतिकर्तव्यताया अभावात् कथमस्य यज्ञत्वमित्याशङ्क्य
प्रसिद्धज्योतिष्टोमादियज्ञसादृश्यसिद्धयर्थम् अत्रापि दीक्षणीयादीतिकर्तव्यतां
संपादयति—
यद्गार्हपत्यं प्रादुष्करोति सा दीक्षणीया । यद्दक्षिणाग्निं
चाहवनीयं च सा प्रायणीया । यत्समिधोऽभ्यादधाति ता
उपसदः ॥ ६ ॥
गार्हपत्यम् अग्निं यत् प्रादुष्करोति अग्निहोत्रार्थं प्रादुर्भावयति सा
दीक्षणीया दीक्षणीयाख्येष्टिः । प्राथम्यसाम्यात् । दक्षिणाग्निमाहवनीयं
चाग्निं यत् प्रादुष्करोति सा प्रायणीयेष्टिः उपकारकत्वसाम्यात् । समिधोऽ-
भ्यादधते समिदाधानं कुर्वन्ति इति यत् ता उपसदः उपसदाख्यहोमाः ॥ ६ ॥
अथ अग्निहोत्रे उत्पूताज्यस्कन्दने प्रायश्चित्तं दर्शयति—
अथ यस्याज्यमुत्पूतं स्कन्दति । सा वै स्कन्ना
नाम आहुतिः । ततो वै यजमानः प्रमायुर्भवति । वरो
देयः । सैव तस्य प्रायश्चित्तिः ॥ ७ ॥
- RIK. अर्थे for अध्ये.
- JMTK. om. सद्यः.
- J. अत्र for ननु; RKM. दीक्षणीयादिति T. दक्षिणायादिति
for दीक्षणीयादीति. - KMT. दीक्षणीयादिति for दीक्षणीयादीति.
- KT दक्षिणा० for यद्दक्षिणा०.
- MTK. ०दधते for दधाति.
- J. उपकारस्त्व० for प्राथम्य०; J. om. दक्षिणाग्निम्...०साम्यात् .
- KT. वा० for चा०; RI. ०सामान्यात् for साम्यात् ; RJI add
यत् before समिधो०. - RJ. ०दधाति for ०दधते See CN; RJIK. तद्. for ताः
J. उपसदाख्यो होमः for उपसदाख्यहोमाः.