षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 169, कुल 226 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः (१) १६९
अथशब्दो वाक्योपक्रमे । यस्य यजमानस्य उत्पूतम् उत्पवनेन
संस्कृतम् आज्यं स्कन्दति पात्रात् सा वै सैव स्कन्ना नाम स्कन्नरूपा
आहुतिर्भवतीति । ततो वै स्कन्नाहुत्या यजमानः प्रमायुर्भवति मरणशीलो
भवतीत्यर्थः । तस्मिन्निमित्ते वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सैव
दक्षिणा तस्य आज्यस्कन्दस्य प्रायश्चित्तिः । प्रत्यवायपरिहारार्थं कर्मे-
त्याहुर्ब्रह्मवादिनः ॥ ७ ॥
अनुत्पूताज्यस्कन्दने प्रायश्चित्तमाह —
अथ यस्याज्यमनुत्पूतं स्कन्दत्यसौ वा अस्कन्ना
नाम आहुतिः । ततो वै यजमानस्य चित्तं प्रमायुर्भवति ।
चित्रं देयं सैव तस्य प्रायश्चित्तिः ॥ ८ ॥
अथ पुनः यस्य यजमानस्य संबन्धि आज्यम् अनुत्पूतम् उत्पवन-
रहितं स्कन्दति पात्रात्, असावस्कन्ना नाम अस्कन्नरूपा आहुतिः । ततः
तयैवाहुत्या यजमानस्य चित्तं प्रमायुर्विनाशि भवतीति तन्निमित्तं चित्रं नाना-
विधं द्रव्यं देयम् । सैव तस्य प्रायश्चित्तिरनुत्पूतस्कन्दप्रायश्चित्तिरिति ॥ ८ ॥
अग्निहोत्रे सवनत्रयं संपादयति—
यद्गार्हपत्ये जुहोति तत्प्रातःसवनम् । यद्दक्षिणाग्नौ
जुहोति तन्माध्यंदिनं सवनम् । यदाहवनीये जुहोति
तत्तृतीयसवनम् ॥ ९ ॥
- J. om. शब्दो...यस्य ; J. om. उत्पवनेन...आज्यं.
- J. om. पात्रात्, सैव and स्कन्नरूपा.
- J. om. भवतीति...०हुत्या.
- MTK. निमित्तं for निमित्ते.
- J. om. आज्य० ; RI. ०स्कन्दनस्य for ०स्कन्दस्य; J. adds
इति after ०श्चित्तिः. - K. वित्तं for चित्तं.
- RMIK. add तत् after ०रहितं ; J. पात्रम् for पात्रात्, M.
असौ वै स्कन्नानां for असावस्कन्ना नम ; T. ०स्कन्नानां for ०स्कन्ना नाम० ;
J. आज्याहुतिः for आहुतिः. - J om. विनाशि, and (इ)ति.
- JRTK. om. प्रायश्चित्तिर् ; J. ०स्कन्दस्य, RI. ०स्कन्दन० for
०स्कन्द०