सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 166, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 166

इति धातोः पीयन्त इति कर्तरि क्विप् । तेषां भावः पीतस्त्वम् । कव्यस्यामृतस्य
पातृत्वम् । तेन पितॄणां पितृत्वम् ॥ १ ॥
सन्त्वेतादृशाः देवाः । किं तत इत्यत्राह —
देवा वै स्वर्गकामास्तपोऽतप्यन्त । तेषां तप्यमानानां
रसोऽजायत । पृथिव्यन्तरिक्षं द्यौरिति । तेऽभ्यतपन् । तेषां
तप्यमानानां रसोऽजायत । ऋग्वेदः पृथिव्या यजुर्वेदोऽन्त-
रिक्षात् सामवेदोऽमुष्मात् । तेऽभ्यतपन् । तेषां तप्यमानानां
रसोऽजायत । ऋग्वेदाद्गार्हपत्यो यजुर्वेदाद्दक्षिणाग्निः
सामवेदादाहवनीयः । तेऽभ्यतपन् । तेषां तप्यमानानां
पुरुषोऽजायत । सहस्रशीर्षः सहस्राक्षः सहस्रपात् ॥ २ ॥
ततः ते देवाः अग्निहोत्रात् स्वर्गं कामयमाना सन्तः तपः चक्रुः ।
तेषां तप्यमानानां तेभ्यस्तप्यमानेभ्यः पृथिव्यन्तरिक्षं द्यौरिति लोकत्रयात्मको
रसोऽजायत । तत्सारभूताः पृथिव्यादयो लोका अभ्यतपन् ऋग्वेदादीनुद्दिश्य
तपश्चक्रुः । तेभ्यस्तप्यमानेभ्यः ऋग्वेदाद्यात्मको रसोऽजायत । कथम् ?
पृथिव्या ऋग्वेदात्मको रसः समजनि । एवमुत्तरत्रापि । ते वेदा अभ्यतपन् ।
तेभ्यो गार्हपत्याद्यात्मको रसोऽजायत । कथम् ? ऋग्वेदाद् गार्हपत्यो रसोऽजायत ।
समानमन्यत् । ते गार्हपत्यादयोऽप्यभ्यतपन् । तेभ्यस्तप्यमानेभ्यः सहस्रशीर्षः
अपरिमितमूर्धा सहस्राक्षः असंख्यातनयनः सहस्रपात् अपरिमितपादः पुरुषो
रसोऽजायत । एवं चतुर्थरसात्मकत्वात् प्रशस्ततमोऽयं पुरुष इत्यर्थः ॥ २ ॥


  1. MK. पीत्वं for पीतस्त्वं.
  2. J. पीतस्त्वम, M. पात्रत्वम् , KIR. पितृत्वम् for पातृत्वम्.
  3. ShK. ०शीर्षाः for ०शीर्षः.
  4. R om. तेभ्यस्...तपश्चक्रुः (L. 14.)
  5. J adds अपि after. लोकाः
  6. TJ. ऋग्वेदो for ऋग्वेदाद्यात्मको.
  7. RKI om. अपि.