सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 155, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 155

चतुर्थः खण्डः
अथ संदंशाख्यं यागं प्रतिजानीते —
अथैष संदंशः ॥ १ ॥
अथ अनन्तरमेष वक्ष्यमाणः संदंशः दुरादानग्रहणसाधनत्वेन
संदंशसाम्यात् संदंशाख्यो यज्ञः । उच्यत इति शेषः ॥ १ ॥
तं विधत्ते—
अभिचरन् यजेत ॥ २ ॥
तेन संदंशयागेन अभिचरन् भ्रातृव्यजिघांसुर्यजेत ॥ २ ॥
यत्सादृश्यादयं क्रतुः संदंशः तेन किं क्रियत इत्यत्राह—
यद्वै दुरादानं संदंशेन तदादत्ते ॥ ३ ॥
यद् दुरादानं तप्तायःपिण्डादि तत् संदंशेनादत्ते कर्मारः ॥ ३ ॥
किमत्र संदंशसाम्यं कथं च तत् संदंशवदनेन क्रियत इत्यत्राह—
यद् द्वौ द्वौ स्तोमौ सह यथा ह दुरादानं संदशेना-
नुहायाददीतैवंमेवैनमेतेनादत्ते ॥ ४ ॥
द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशे द्वे एकविंशे द्वे चतुर्विंशे द्वे
त्रिणवे इत्येवं द्वौ द्वौ स्तोमौ समानौ यत् सह भवतः । तेनायं क्रतुः संदंश-
सदृशः, ततश्च यथा ह यथा खलु दुरादानमादातुमशक्यं तप्तायःपिण्डादि
संदंशेनानुहाय प्राप्य आददीत एवमेवैनं भ्रातृव्यम् एतेन यागेन
आदत्ते ॥ ४ ॥

  1. KMI. ०जानीतुमुप जानीते for ०जानीते.
  2. J. आदान, KT. उदान, M. इदानीं for दुरादान०.
  3. J om. भ्रातृव्य०.
  4. J. लोहकारः, M. कर्मणः, IR. कर्मकरः for कर्मारः.
  5. J. सादृश्यं, M. साम्यात् for साम्यं; M. संदंशेन for संदंश०.