ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
तृतीयः सर्गः । ४३
श्रेष्ठांस्तस्तथोक्तान्र्केशान्कुन्तलान् । ‘चिकुरः कुन्तलो बालः
कचः केशः शिरोरुहः’ इत्यमरः । नवमालतीभिर्नवमालतीकु-
सुमैरापूरयन्ति । प्रवरणि श्रेष्ठािन काञ्चनकुङ्मलानि खर्ण-
ताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । ‘कर्णश-
ब्दग्रहो श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । विविधानि
विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापय-
न्ति । अवलम्बयन्तीत्यर्थः ॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजानि कलनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥ २० ॥
हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य
सचन्दनरसैश्चन्दनद्रवसहितैर्हारैः स्तनमण्डलानि कुचमण्ड-
लानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं
कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि
चरणकमलानि च विभूषयन्तीत्यर्थः ॥
स्फुटकुमुदचितानां राजहंसस्थितानां^२
मरकतमणिभासा वारिणा भूषितानाम्^३ ।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥
स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा
नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विक-
सितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राज-
१ ‘वर.’ २ ‘आश्रितानाम्’. ३. ‘आपूरितानाम्.’
४४ ऋतुसंहारे
हंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहं-
सास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणे-
र्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन
भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरू-
पामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालि-
नीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥
शरदि १कुमुदसङ्गाद्२वायवो ३वान्ति शीता
४विगतजलदवृन्दा दिग्भागा मनोज्ञाः ।
विगतकलुषमम्भः ५श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२
शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गा-
त्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वह-
न्ति । दिग्भागा आशाप्रान्ताः । 'दिशस्तु ककुभः
काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां
वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्द-
राः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य
१ 'कुसुम'. २ 'तोयात्.' ३ 'यान्ति.' ४ 'विशद.' ५ 'शालिपक्वा.'
२२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते—
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
सुरतरुचिविलासाः सत्सखीभिः समेता
असमशरविनोदं सूचयन्ति प्रकामम् ।
अनुगतमुखराभिः श्रोणिमध्ये विनोदं
शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥
[Header] तृतीयः सर्गः । ४५
तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः । 'धरा धरित्री
धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का
शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा
यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-'
इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षं
भं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥
दिवसकरमयूखैर्बोध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे
हसितमिव वधूनां प्रोषितेषु प्रियेपु ॥ २३ ॥
दिवसेति ॥ प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः
किरणैर्बोध्यमानं विकास्यमानमित्यर्थः । 'स्युः प्रभारुचि-
स्त्वड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदा-
नीं जृभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं
गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेपु कान्तेषु वधूनां
रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।
अधररुचिरशोभां वन्धुजीवे प्रियाणां
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रि-
१ 'म्लायते'. २ 'चन्द्रबिम्बम्'. ३ 'कान्तिम्'. ४ 'हंसी'. ५ 'प्रि-
यायाः'. ६ 'भ्रान्तचेतः'.
५
४६ ঋतुसंहारे
याणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं
शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इ-
त्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु
क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंस-
स्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शो-
भा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः
सन्नेदिति । रोदनं करोतीत्यर्थः ॥
स्त्रीणां विहाय वदनेषु शशांकलक्ष्मीं
कामं च हंसवचनं मणिनूपुरेषु ।
बन्धूककान्तिमधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागमश्रीः ॥२५॥
स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा।
शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखे-
षु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणि-
खचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु
सुन्दरेष्वधरेषु विहाय त्यक्त्वा कापि कुत्रचिदपि प्रयाति गच्छ-
तीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम् ॥
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
विकसितनवकाशश्वेतवासो वसाना ।
कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं
प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥२६॥
१ 'निनाय'. २ 'लक्ष्मीः.' ३ 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्';
'हास्ये विशुद्धवदने कुमुदाकरश्रीः'. ४ 'कान्तिः'. ५ 'विकसि-
तनवकाशासंकुलालम्बिवस्त्रा'; कुसुमितवनकाशाव्याकुलालम्बिवासा'.
६ 'हासा'. ७ 'परिदिशतु'; 'उपदिशतु'.
चतुर्थः सर्गः । ४७
विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं
यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः
सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी
यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी
यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काश-
कुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव
श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्ति-
र्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः
सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं
चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः ।
मालिनीवृत्तमेतत् ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।
चतुर्थः सर्गः ।
अथ क्रमप्राप्तं हेमन्तकालं वर्णयति—
नवप्रवालोद्गमसंस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम् ॥ १ ॥
नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम
१ 'पुष्प'. २ 'प्रिये'.
४८ ऋतुसंहारे
उत्पत्तिः सस्यानि च तै रम्यो रमणीयः प्रफुल्लाः संफुल्ला लोध्रा
लोध्रवृक्षा यस्मिन्स तथोक्तः । परिपक्वाः परिणताः शालयो
धान्यानि यस्मिन्स तथोक्तः । विलीनानि म्लानानि पद्मानि
कमलानि यस्मिन्स तथोक्तः । प्रपतत्तुषारो हिमं यस्मिन्स
तथोक्तः । 'तुषारस्तुहिनं हिमम्' इत्यमरः । अयं हेमन्त-
कालः समुपागत आगतः । प्राप्त इत्यर्थः । उपेन्द्रवज्रावृत्तम् ।
तल्लक्षणं तु—'उपेन्द्रवज्रा जतजास्ततो गौ' इति ॥
मनोहरैः कुङ्कुमरागरक्तै-
स्तुषारकुन्देन्दुनिभैश्च हारैः ।
विलासिनीनां स्तनशालिनीना-
मलंक्रियन्ते स्तनमण्डलानि ॥ २ ॥
मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्तन-
शालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां
स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कुमस्य कश्मीर-
जन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः । 'अथ कुङ्कुमम् ।
'कश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने' इत्यमरः । तुषारो
हिमम्, कुन्दः कुन्दकुसुमम्, इन्दुश्चन्द्रस्तैर्निभाः सदृशा-
स्तैस्तथोक्तैर्हारैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ।
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥
१ 'चन्दनरागगौरैः,' 'कुङ्कुमरागपिञ्जरैः'. २ 'नालंक्रियन्ते'.
चतुर्थः सर्गः । ४९
नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि
कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्'
इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न
प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबि-
म्बेषु कटिपश्चाद्भागेषु सङ्गं न प्रयाति । तनु सूक्ष्ममंशुकं
वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु
सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ॥
काञ्चीगुणैः काञ्चने१रत्नचित्रै-
र्नो भूषयन्ति प्रमदा नितम्बम् २ ।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाँञ्जि ३ ॥ ४ ॥
काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि
च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति
नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि
तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालवि-
रुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् ।
तल्लक्षणं तु—'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्र-
वज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ
यदीयावुपजातयस्ताः ॥ इति ॥
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि ४ ।
१ 'रत्न'. २ 'नितम्बान्'. ३ 'भान्ति'. ४ 'नखाम्बुजानि'.
५० ऋतुसंहारे
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि
शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ
जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ॥ मुखा-
म्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तू-
रिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गु-
लिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि
संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥
रतिश्रमक्षामविपाण्डुवक्त्राः
संप्राप्तहर्षाभ्युदयास्तरुण्यः
हसन्ति नोच्चैर्दशनाग्रभिन्ना-
न्प्रपीड्यमानानधरानवेक्ष्य ॥ ६ ॥
रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु
विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्द-
स्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां
रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमा-
नानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न
कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ॥
१ 'भवन्ति'. २ 'प्राप्तेऽपि हर्षाभ्युदये'. ३ 'प्रभिन्नरागान्'.
चतुर्थः सर्गः । ५१
पीनस्तनोरःस्थलभागशोभा-
मासाद्य तत्पीडनजातखेदः ।
तृणाग्रलग्नैस्तुहिनैः पतद्भि-
राक्रन्दतीवोषसि शीतकालः ॥ ७ ॥
पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उरःस्थल-
भागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः संजातः
खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भि-
रत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तैस्तथोक्तैस्तु-
हिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा ॥
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि ।
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ॥ ८ ॥
प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि
तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः
समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौ-
ञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमान्तरा-
णि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उत्सुकय-
न्त्युत्कण्ठयन्तीत्यर्थः ॥
प्रफुल्लनीलोत्पलशोभितानि
सोन्मादकादम्बविभूषितानि ।
१ 'उरस्थल'. २ 'लम्बैः' ३ 'प्रसूति'. ४ 'शरादिकादम्बविघट्टितानि'.
५२ ऋतुसंहारे
प्रसन्नतोयानि सुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९ ॥
प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैर्नीलोत्पलैरिन्दीवरैः शोभितानि
भूषितानि । सोन्मादैरून्मादसहितैः कादम्बैः कलहंसैर्विभू-
षितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि ।
सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तः-
करणानि हरन्तीत्यर्थः ॥
पाकं व्रजन्ती हिमजातशीतै-
राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ १० ॥
पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः
शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं
निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता ।
'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः
फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विला-
सिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति ।
गच्छतीत्यर्थः ॥
पुष्पासवोमोदिसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः ।
१ 'सशैवलानि'. २ 'यूनाम्'. ३ 'सङ्गशीतैः'. ४ 'आमोद'.
९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते—
मार्गे समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।
प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥
४. चतुर्थ सर्ग: हेमन्त वर्णन (शस्य-समृद्धि व मन्द पवन)
चतुर्थः सर्गः । ५३
परस्पराङ्गव्य१तिरिक्तशायी
शेते जनः कामरें२सानुविद्धः ॥ ११ ॥
पुष्पेति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तास-
वस्य वामोदेन सौगन्ध्येन सुगन्धि सुरभि वक्त्रं वदनं यस्य
स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीकृत-
मङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्पसेनानुविद्धो
व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति
तथा शेते स तथोक्तो जनो लोकः शेते निद्रातीत्यर्थः ॥
दन्तच्छदैः सं३व्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेषैः ।
संसूच्यते निर्दयमङ्गनानां
रं४तोपयोगो नवयौवनानाम् ॥ १२ ॥
दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासांतासां
तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि दन्तानां
रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः । 'चिह्नं लक्ष्म
च लक्षणम्' इत्यमरः । दन्तच्छदैरधरैः पाण्यग्रैर्नखैः कृतो-
ऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं
दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः
संसूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ॥
काचिद्विभूषयति दर्पणसक्तहस्ता
बा५लातपेषु वनिता वदनारविन्दम् ।
१ 'व्यतिषिक्त;' 'व्यतिसक्त;' 'व्यतिसङ्ग'. २ 'शरानुविद्धः'.
३ 'दन्तविघातचिह्नैः'. ४ 'रतोपभोगो'. ५ 'बाला विलोलचिकुरं
वदनारविन्दम्'.
५४ ऋतुसंहारे
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमवकृष्य¹ निरीक्षते च ॥ १३ ॥
काचिदिति ॥ दर्पण आदर्शे सक्तः संसक्तो हस्तः करो
यस्याः सा तथोक्ता । 'दर्पणे मुकुरादर्शौ' इत्यमरः । काचि-
द्धनिता स्त्री बालातपेषु कोमलोष्णेषु । स्थित्वेति शेषः ।
वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच ।
प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं
दन्ताग्रै रदनाग्रैर्भिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमव-
कृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः । वसन्ततिलकावृत्त-
मतेत् । लक्षणं तु पूर्वमुक्तम् ॥
²अन्या प्रकामसुरतश्रमखिन्नदेहा
³रात्रिप्रजागरविपाटलनेत्र⁴पद्मा ।
⁵स्रस्तांसदेशलुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यक⁶राभितप्ता ॥ १४ ॥
अन्येति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगक्लेशेन खिन्नः
खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता। रात्रौ निशायां
यः प्रजागरो जागरणं तेन विपाटले विशेषेण पाटलवर्णे
नेत्रपद्मे नयनारविन्दे यस्याः सा तथोक्ता । स्रस्तो विशक-
लितोंऽसदेशो स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः
केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोम-
लैः सूर्यकरैस्तरणिकिरणैरभितप्तान्या काचित्स्त्री निद्रां प्रया-
ति प्राप्नोति ॥
१ 'अपकृष्य'. २ 'अन्याः'. ३ 'नक्त;' 'नक्तम्'. ४ पद्माः.
५ 'शय्यान्त'. ६ 'अभितप्ताः'.
चतुर्थः सर्गः । ५५
निर्माल्यदाम परिमुक्तमनोज्ञगन्धं
मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनाम¹परास्तरुण्यः ॥ १५ ॥
निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः
कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः ।
पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण
नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा
अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरो गन्धो
येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिर-
सोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति ।
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
हर्षान्विता विरचिताधरचा²रुशोभा ।
³कूर्पासकं परिदधाति ⁴नखक्षताङ्गी
⁵व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ १६ ॥
अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरी-
रमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधर
ओष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथो-
क्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथो-
क्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कु-
न्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या
१ 'अबलाः'. २ 'रागशोभा;' 'गण्डशोभा'. ३ 'रक्तांशुकम्'.
४ 'नवं नताङ्गी'. ५ 'व्यालम्बिताङ्गुलिलता'.
५६ ऋतुसंहारे
स्त्रीकूर्पासकं चोलम् । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः ।
परिदधाति धत्त इत्यर्थः ॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
१खेदं गताः प्रशिथिलीकृतगात्रयष्टयः ।
सं²हृष्यमाणपुलै³कोरुपयो⁴धरान्ता
५अभ्यञ्जनं विदधति प्रमदाः ६सुशोभाः ॥१७॥
अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोग-
क्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव
प्रकर्षेण शिथिलीकृता गात्रयष्टयो यासां तास्तथोक्ताः । सं-
हृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश ऊरुः पीनश्च पयो-
धरान्तः पयोधरप्रान्तो यासां तास्तथोक्ताः । सुष्ठु समीचीना
शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्ज-
नमभ्यङ्गं सुगन्धतैलादिना विदधति कुर्वन्तीत्यर्थः ॥
बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमा ।
८सततमतिमनोज्ञः क्रौञ्चमालापरीतः
प्रदिशतु हिमयुक्तः काल एषः ९सुखं १०वः॥१८॥
बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां
चित्तहारी मनोहारी परिणतैः परिपक्वैर्बहुभिः शालिभि-
१ 'स्वेदम्'. २ 'संपीड्यमान'. ३ 'विपुलोरु'. ४ 'पयोधरार्ताः'.
५ 'प्रत्यञ्जनम्;' 'नेत्राञ्जनम्'. ६ 'सुशोभम्'. ७ 'सीमः'. ८ 'विनि-
पतिततुषारः क्रौञ्चनादोपगीतः'. ९ 'त्वेष कालम्'. १० 'प्रियम्'.
पञ्चमः सर्गः । ५७
व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः ।
सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्च-
पङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः
सुखं प्रदिशतु ददात्वित्यर्थः ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
हेमन्तवर्णनं नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः ।
अथ क्रमप्राप्तं शिशिरं वर्णयति—
१प्ररूढशाल्यंशुचयैर्मनोहरं
२क्वचित्स्थितक्रौञ्चनिनाद३राजितम् ।
प्रकाम४कामं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु ॥ १ ॥
प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने
हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् ।
क्वचित्पुस्तके ‘प्ररूढशालीक्षुचयावृतक्षितिम्’ इति पाठः । स
तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्याना-
मिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मि-
न्निति समासः । क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि-
१ ‘प्ररूढशालीक्षुचयैर्मनोहरम्’. २ ‘क्वचित्स्थितम्;’ ‘सुस्थस्थि’.
३ ‘शोभितम्’. ४ ‘काम’.
६
५८ ऋतुसंहारे
ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैर्विरुतै राजितं शोभितं
तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् ।
प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वया यस्य
तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत् ।
तल्लक्षणं तु पूर्वमुक्तम् ॥
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यबलाः सयौवनाः
प्रयान्ति कालेऽत्रे जनस्य सेव्यताम् ॥ २ ॥
निरुद्धेति ॥ अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि
वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः ।
‘वातायनं गवाक्षः स्यात्’ इत्यमरः । हुताशनोऽग्निर्भानुमतः
सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि ।
सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य से-
व्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥
नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव
शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा
१ 'अथ'.
पञ्चमः सर्गः । ५९
शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य
चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन
शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न
रमयन्तीत्यर्थः ॥
तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणजिह्मभूषिता
जनस्य सेव्या न भवन्ति रात्रयः ॥ ४ ॥
तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी-
तलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशि-
रीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डु-
रवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति
तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः
सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥
गृहीतताम्बूलविलेपनस्रजः
सुखासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५ ॥
गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि
स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः
सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं
१ 'शीतला'. २ 'शिशिरीकृताः'. ३ 'चारुभूषणाः'. ४ 'सुरासवा;'
'पुष्पासवा'. ५ 'वासिताम्'. ६ 'शय्याम्'. ७ 'उत्सुकस्त्रियः'.
६० ऋतुसंहारे
मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः
प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं
शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥
कृतापराधान्बहुशोऽपि तर्जिता^१-
न्सवेपथून्साध्वसलुप्त^२चेतसः ।
निरीक्ष्य भर्तॄन्सुरताभिलाषिणः
स्त्रियोऽपराधान्समदा विसस्मरुः^३ ॥ ६ ॥
कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः
कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जि-
तान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं
भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन
लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तानभर्तॄन्प्रियान्सुरताभि-
लाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृता-
न्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमे-
तत् । तल्लक्षणं तूक्तम् ॥
प्रकामकामैर्युवभिः^४ सनिर्दयं^३
निशासुदीर्घास्वभिरामिताश्चिरम्^५ ।
भ्रमन्ति^६ मन्दं^७ श्रमखेदितोरसः^८
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥
१ 'अभितर्जितान्'. २ 'मन्द'. ३ 'न सस्मरुः'. ३ 'सुरतेऽति-
निर्दयम्'; 'युवभिः सुनिर्दयम्'. ५ 'दीर्घास्वभिभाविता भृशम्;' 'गाढं
दयितैश्चिरं दृढम्'. ६ 'भवन्ति; धमन्ति'. ७ 'मन्द'. ८ 'खेदितो
रवः'. 'मोदितोरसः'. 'खेदितोरवः'.
पञ्चमः सर्गः । ६१
प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां
तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु
रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं
यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण
परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौ-
वनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मि-
न् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥
मनोज्ञकूर्पासकपीड़ितस्तनाः
सरागकौशेयकभूषितोरसः ।
विवेशितान्तःकुसुमैः शिरोरुहै-
र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥
मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडि-
ताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशे-
यमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो
हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्य-
न्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशै-
र्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोष्मभिः ।
विलासिनीभिः परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥
१ ‘कूर्पासनिपीडित’. २ ‘कौशेयविभूषितोरसः’. ३ ‘यौवनो-
त्सवाः’; ‘यौवनोत्सवः’. ४ ‘विलासिनीनाम्’. ५ ‘भृशम्’.
पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण
पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः ।
नवो नूतनो यौवनस्य तारुण्यस्योष्मोष्ण्यं येषु तैस्तथोक्तैः
पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः का-
मिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां
कुर्वन्तीत्यर्थः ॥
सुगन्धिनिश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधकम्¹ ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥
सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवतयः सुगन्धिना
सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिं-
स्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबो-
धकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं
मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥
अपगतमदरागा योषिदेका² प्रभाते
³कृतनिविडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनवासाद्वासमन्यद्धसन्ती⁴ ॥११॥
अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता ।
पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं
कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प-
१ 'प्रबोधनम्'. २ 'एव'. ३ 'कृतविनतकुचाग्रा'; 'कुचनिविडकुचा
ग्रा'. ४ 'अन्यं हसन्ती'; 'अन्यद्व्रजन्ती'.