ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
प्रारंभिक पृष्ठ एवं महाकवि कालिदास भूमिका
THE RITUSAMHÂRA
OF
KÂLIDÂSA.
With the Commentary (the Chandrikâ)
OF
MAṆIRÂMA
AND
THE SṚIṄGÂRATILAKA.
THIRD EDITION.
EDITED BY
WÂSUDEV LAXMAṆ S'ÂSTRÎ PAṆAṢÎKAR.
PUBLISHED BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF JAVAJI DADAJI'S “NIRṆAYA-SÂGAR” PRESS,
Bombay.
1910.
PDF Creation and Uploading
by: Hari Parshad Das (HPD)
on 28 May 2014.
BOMBAY:
PRINTED BY B. R. GHANEKAR,
AT THE "NIRNAYA-SAGAR" PRESS, FOR THE PUBLISHER.
श्रीः ।
महाकविश्रीकालिदासविरचितं
ऋतुसंहारम् ।
भारद्वाजगोत्रोत्पन्नमणिरामविरचितया
चन्द्रिकाख्यया व्याख्यया समेतम् ।
शृङ्गारतिलकं च ।
पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा
संशोधितम् ।
तृतीयावृत्तिः ।
तच्च
शाके १८३२ वत्सरे
मुम्बय्यां
तुकाराम जावजी
इत्येतेषां कृते तेषामेव निर्णयसागर मुद्रालये वा. रा.
घाणेकर इत्यनेन मुद्रितम्
मूल्यं रूप्यकपादः ।
श्रीः।
ऋतुसंहारम्।
चन्द्रिकया समेतम्।
प्रथमः सर्गः।
यः समस्तविदुषां शिरोमणिर्येन राजति सभा विपश्चिताम्।
तं महीश्वरकृताङ्घ्रिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥
शृङ्गारैकप्रधानं यदृर्तुसंहारनामकम् ।
काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ॥
अप्रचारतमोमग्ना कालिदासकृतिर्यतः।
क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥
अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्र-
न्थस्य निर्विघ्नपरिसमाप्त्यर्थम् ‘आशीर्नमस्क्रिया वस्तु-
निर्देशो वापि तन्मुखम्’ इत्याशीराद्यन्यतमस्य मङ्गलत्वेन
तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्ण-
नरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति—
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसंचयः।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालोऽयमुपागतः प्रिये ॥ १ ॥
प्रचण्डेति॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन्स तथोक्तः।
१. ‘क्षम.’ २. ‘समुपागतः.’
स्पृहणीयो वाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स तथोक्तः। 'हिमां-
शुश्चन्द्रमाश्चन्द्रः' इत्यमरः। सदा नि-रन्तरमवगाहेन निम-
ज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसंचयो जलसमूहो यस्मिन्स
तथोक्तः। दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स
तथोक्तः। दिवसे सूर्यसत्वादौष्ण्यजनितमाकुलत्वं चन्द्रो-
दयादिना च शीतलत्वात्तस्य रम्यत्वम्। अभि समन्तादुप-
शान्तो मन्मथः कंदर्पो यस्मिन्स तथोक्तः। 'वसन्ते द्विगुणः
कामः' इति वसन्तापगमे कामोपशान्तिः। अयं निदाघकालो
ग्रीष्मकाल उपागतः संप्राप्तः हे प्रिये। वंशस्थवृत्तमेतत्—
'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात्॥
निशाः शशाङ्कक्षतनीलराजयः
क्वचिद्विचित्रं जलयन्त्रमन्दिरम्।
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यताम्॥ २॥
निशा इति॥ हे प्रिये, क्वचिच्छशाङ्केन चन्द्रमसा
कर्त्रा क्षता दूरीकृता नीलराजयस्तमःपङ्क्तयो यासां ता-
स्तथोक्ता निशा रात्रयः। 'निशा निशीथिनी रात्रिः'
इत्यमरः। क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम्।
क्वचिन्मणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः। क्वचित्स-
रसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य से-
व्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः॥
सुवासितं हर्म्यतलं मनोहरं
प्रियामुखोच्छ्वासविकम्पितं मधु।
१. 'विकल्पितम्.'
प्रथमः सर्गः । ३
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥
सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले
निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ।
सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं
हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो-
च्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमु-
द्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे'
इत्यमरः । अनुभवन्त्यास्वादयन्तीत्यर्थः । एतेनापि ग्री-
ष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥
नितम्बबिम्बैः संदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥
नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मे-
खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः क-
टिपश्चाद्भागैः । 'पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हारा-
आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन-
लिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धि-
द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः
कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥
नितान्तलाक्षारसरागरञ्जितै-
र्नितम्बिनीनां चरणैः सनूपुरैः ।
१. 'सुदुकूल.' २. 'लोहितैः.'
४ ऋतुसंहारे.
पदे पदे हंसरुतानुकारिभि-
र्जनस्य चित्तं क्रियते समन्मथम् ॥ ५ ॥
नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण र-
ञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः । 'मञ्जीरो नू-
पुरोऽस्त्रियाम्' इत्यमरः । पदे पदे प्रतिपदं हंसरुतं
मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जन-
स्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् ।
मदनो मन्मथो मारः' इत्यमरः । क्रियत इत्यर्थः ॥
पयोधराश्चन्दनपङ्कचर्चिता-
स्तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥
पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः ।
तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते
तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरसनासहि-
ताः। 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः ।
नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न
प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ॥
समुद्गतस्वेदशिताङ्गसंधयो
विमुच्य वासांसि गुरूणि सांप्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ॥ ७ ॥
१. 'शीतलाः.' २. 'बिम्बाश्चलहेम'. ३. 'समुद्यत.'
प्रथमः सर्गः । ५
समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता
व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः स-
यौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः
स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि
विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क-
ञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥
सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्।
सहितं युक्तं यद्व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः ।
हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्ड-
लानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च
ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः।
‘वीणा तु वल्लकी’ इत्यमरः। ‘काकली तु कले सूक्ष्मे’ इत्यमरः।
‘गीतं गानमिमे समे’ इत्यमरः । अद्य मन्मथः कामः सुप्त
इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ।
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति हियेर्वे पाण्डुताम् ॥ ९ ॥
सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु
१. ‘अर्पितैः.’ २. ‘प्रबुध्यते’, ‘प्रबोध्यते.’ ३. ‘नियन्त्रणम्.’ ४. ‘एव.’
हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि
मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम-
त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव ल-
ज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति। नूनमिति वितर्के॥
असह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः॥ १०॥
असह्येति॥ प्रियावियोगः कान्तावियोगः स एवानलो-
ऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त-
थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो
वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो-
क्ता। प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन
तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते। गन्तुं
न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः॥
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कताल्वः।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसंनिभं नभः॥ ११॥
मृगा इति॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप
उष्णं तेन तापिताः संतापिताः। महत्या तृषा पिपासया
परिशुष्काः संशुष्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा
१. 'वातोद्धत.'
प्रथमः सर्गः । ७
भिन्नेनाञ्जनेन संनिभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य
तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः ॥
सविभ्रमैः सस्मितजिह्मवीक्षितै-
र्विलासवत्यो मनसि प्रवासिनाम् ।
अनङ्गसंदीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥
सविभ्रमैरिति ॥ यथा शशिचारुभूषणाः शश्येव चन्द्र एव
चारु सुन्दरं भूषणं येषां ते तथोक्ताः प्रदोषाः संध्यासमयाः
प्रवासिनां मनस्यन्तःकरणेऽनङ्गसंदीपनं कामसंदीपनं कुर्वते ।
तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारूणि
सुन्दराणि भूषणानि यासां तास्तथोक्ता विलासवत्यो विलासि-
न्यः सविभ्रमैर्विभ्रमसहितैः सस्मितानि सहास्यानि जिह्मानि
कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां
मनस्याशु झटित्यनङ्गसंदीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
फणी मयूरस्य तले निषीदति ॥ १३ ॥
रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । 'किर-
णोस्त्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभिता-
पितः संतापितः । भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्ण-
रेजोभिर्विदह्यमानः । अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटि-
लगमनो मुहुर्वारंवारं श्वसञ्छासोच्छ्वासं कुर्वन्फणी सर्पो