ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 50, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ४७
विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं
यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः
सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी
यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी
यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काश-
कुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव
श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्ति-
र्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः
सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं
चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः ।
मालिनीवृत्तमेतत् ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।
चतुर्थः सर्गः ।
अथ क्रमप्राप्तं हेमन्तकालं वर्णयति—
नवप्रवालोद्गमसंस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम् ॥ १ ॥
नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम
१ 'पुष्प'. २ 'प्रिये'.