ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 56, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ५३
परस्पराङ्गव्य१तिरिक्तशायी
शेते जनः कामरें२सानुविद्धः ॥ ११ ॥
पुष्पेति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तास-
वस्य वामोदेन सौगन्ध्येन सुगन्धि सुरभि वक्त्रं वदनं यस्य
स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीकृत-
मङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्पसेनानुविद्धो
व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति
तथा शेते स तथोक्तो जनो लोकः शेते निद्रातीत्यर्थः ॥
दन्तच्छदैः सं३व्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेषैः ।
संसूच्यते निर्दयमङ्गनानां
रं४तोपयोगो नवयौवनानाम् ॥ १२ ॥
दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासांतासां
तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि दन्तानां
रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः । 'चिह्नं लक्ष्म
च लक्षणम्' इत्यमरः । दन्तच्छदैरधरैः पाण्यग्रैर्नखैः कृतो-
ऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं
दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः
संसूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ॥
काचिद्विभूषयति दर्पणसक्तहस्ता
बा५लातपेषु वनिता वदनारविन्दम् ।
१ 'व्यतिषिक्त;' 'व्यतिसक्त;' 'व्यतिसङ्ग'. २ 'शरानुविद्धः'.
३ 'दन्तविघातचिह्नैः'. ४ 'रतोपभोगो'. ५ 'बाला विलोलचिकुरं
वदनारविन्दम्'.