ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 55, कुल 91 में से
संदर्भ में पढ़ें५२ ऋतुसंहारे
प्रसन्नतोयानि सुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९ ॥
प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैर्नीलोत्पलैरिन्दीवरैः शोभितानि
भूषितानि । सोन्मादैरून्मादसहितैः कादम्बैः कलहंसैर्विभू-
षितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि ।
सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तः-
करणानि हरन्तीत्यर्थः ॥
पाकं व्रजन्ती हिमजातशीतै-
राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ १० ॥
पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः
शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं
निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता ।
'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः
फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विला-
सिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति ।
गच्छतीत्यर्थः ॥
पुष्पासवोमोदिसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः ।
१ 'सशैवलानि'. २ 'यूनाम्'. ३ 'सङ्गशीतैः'. ४ 'आमोद'.
९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते—
मार्गे समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।
प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥