ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 53, कुल 91 में से
संदर्भ में पढ़ें५० ऋतुसंहारे
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि
शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ
जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ॥ मुखा-
म्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तू-
रिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गु-
लिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि
संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥
रतिश्रमक्षामविपाण्डुवक्त्राः
संप्राप्तहर्षाभ्युदयास्तरुण्यः
हसन्ति नोच्चैर्दशनाग्रभिन्ना-
न्प्रपीड्यमानानधरानवेक्ष्य ॥ ६ ॥
रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु
विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्द-
स्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां
रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमा-
नानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न
कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ॥
१ 'भवन्ति'. २ 'प्राप्तेऽपि हर्षाभ्युदये'. ३ 'प्रभिन्नरागान्'.