सामग्री पर जाएँ
सर्वकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 62, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 62

पञ्चमः सर्गः । ५९
शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य
चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन
शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न
रमयन्तीत्यर्थः ॥
तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणजिह्मभूषिता
जनस्य सेव्या न भवन्ति रात्रयः ॥ ४ ॥
तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी-
तलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशि-
रीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डु-
रवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति
तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः
सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥
गृहीतताम्बूलविलेपनस्रजः
सुखासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५ ॥
गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि
स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः
सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं
१ 'शीतला'. २ 'शिशिरीकृताः'. ३ 'चारुभूषणाः'. ४ 'सुरासवा;'
'पुष्पासवा'. ५ 'वासिताम्'. ६ 'शय्याम्'. ७ 'उत्सुकस्त्रियः'.