ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 65, कुल 91 में से
संदर्भ में पढ़ेंपयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण
पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः ।
नवो नूतनो यौवनस्य तारुण्यस्योष्मोष्ण्यं येषु तैस्तथोक्तैः
पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः का-
मिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां
कुर्वन्तीत्यर्थः ॥
सुगन्धिनिश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधकम्¹ ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥
सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवतयः सुगन्धिना
सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिं-
स्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबो-
धकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं
मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥
अपगतमदरागा योषिदेका² प्रभाते
³कृतनिविडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनवासाद्वासमन्यद्धसन्ती⁴ ॥११॥
अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता ।
पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं
कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प-
१ 'प्रबोधनम्'. २ 'एव'. ३ 'कृतविनतकुचाग्रा'; 'कुचनिविडकुचा
ग्रा'. ४ 'अन्यं हसन्ती'; 'अन्यद्व्रजन्ती'.