सामग्री पर जाएँ
सर्वकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 58, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 58

चतुर्थः सर्गः । ५५
निर्माल्यदाम परिमुक्तमनोज्ञगन्धं
मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनाम¹परास्तरुण्यः ॥ १५ ॥
निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः
कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः ।
पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण
नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा
अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरो गन्धो
येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिर-
सोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति ।
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
हर्षान्विता विरचिताधरचा²रुशोभा ।
³कूर्पासकं परिदधाति ⁴नखक्षताङ्गी
⁵व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ १६ ॥
अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरी-
रमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधर
ओष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथो-
क्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथो-
क्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कु-
न्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या
१ 'अबलाः'. २ 'रागशोभा;' 'गण्डशोभा'. ३ 'रक्तांशुकम्'.
४ 'नवं नताङ्गी'. ५ 'व्यालम्बिताङ्गुलिलता'.