प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
४४४ प्रमाणवार्त्तिके [ हेतुलक्षण-
अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥ २४२ ॥
येनासौ व्यतिरेकस्य नाभावं भावमिच्छति ।
यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षतः ॥ २४३ ॥
सपक्षाद्व्यतिरेकी चेद्धैतुर्हेतुरतोन्वयी ।
नान्वयव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥ २४४ ॥
यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु ।
निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्त्तकः ॥ २४५ ॥
नान्तरीयकता सा च साधनं समपेक्षते ।
नास्ति तावदुक्तक्रमेण नैरात्म्यात् प्राणादिनिवृत्तिः, अस्तु नामाङ्गीकारात्,
तथापि जीवच्छरीरेऽनैरात्म्यान्नैरात्म्याभावात् प्राणादिमत्त्वसाधितादात्मा न
सिध्यति ॥ २४२ ॥
यत्र विरुद्धयोरेकाभावादन्यतरस्यावश्यं सिद्धिर्भवत्येवेत्याह—येन कारणे-
नासौ वादी व्यतिरेकस्याभावं भावमन्वयं नेच्छति, यथा प्राणादिरसतः
सपक्षतः, अव्यतिरेके व्यतिरेकाभावेऽपि न सपक्षे सत्त्वेनेष्टः; तथा नैरात्म्य-
निवृत्तावपि आत्मभावो जीवच्छरीरे न स्यात् ॥ २४३ ॥
तस्मात् सपक्षाद्व्यतिरेकी प्राणादिर्नैरात्म्ये निवर्त्तमानः सत्तामात्मनो
गमयन् हेतुश्चेदिष्टः, तदाऽत एव न्यायात् प्राणादिहेतुरन्वयी स्यात् ।
सपक्षात् प्राणादेर्निवृत्त्यभाव एव भावः, स चान्वयः । सपक्षाद्व्यतिरेकी
व्यतिरेकरहितः प्राणादिर्नान्वयी चेदिष्यते, तदा तद्वदनैरात्म्यं नैरात्म्यरहितं
शरीरं न सात्मकं स्यात् ॥ २४४ ॥
किञ्च—यस्य स्वात्मा स्वभावो यन्नान्तरीयकः यदन्वयव्यतिरेकानु-
विधायौ प्रतिबन्धकस्य वह्न्यादेः प्रवृत्तिषु विधिषु सिद्धः । स एव निवर्त्तमानः
तस्यानुविहितान्वयव्यतिरेकस्य निवर्त्तकः । अतः प्रवृत्तिविषयत्वात् प्रवृत्तौ
स्वसत्तायां च तस्यावश्यं प्रवृत्तेः कर्त्ता हेतुर्भवति । यथा धूमो दहननान्तरीय-
कतया सिद्धो दहननिवृत्तिप्रवृत्तिभ्यां निवर्त्तते, प्रवर्त्तते च ॥ २४५ ॥
सा च नान्तरीयकता साधनं निश्चायकं मानमपेक्षते; गमकत्वहेत्व-
विचारः ] परार्थानुमानपरिच्छेदः ४४५
कार्ये दृष्टिरदृष्टिश्च कार्यकारणता हिता ॥ २४६ ॥
अर्थान्तरस्य तद्भावेऽभावानियमतोऽगतिः ।
अभावासम्भवात् तेषामभावे नित्यभाविनः ॥ २४७ ॥
सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता
कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् ।
तैर्विना भवतोऽन्यस्मात् तज्जं रूपं कथं भवेत् ॥ २४८ ॥
सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता ।
धिकारेऽनिश्चितगमकत्वनिबन्धस्याहेतुत्वात् । साधनं च कार्ये कारणान्वयवति
दृष्टिः, तद्व्यतिरेकवति चादृष्टिः । न तु सपक्षविपक्षयोर्दर्शनादर्शनमात्रकम् ।
हि यस्मात् तत्कार्यदृष्ट्यदृष्टी कार्यकारणता कारणभावाभावप्रयुक्ते कार्यभावाभाव-
दर्शने कार्यकारणतोक्ता अन्यनिश्चयोपायतादर्शनार्थम् ॥ २४६ ॥
ततश्च अकारणस्यार्थान्तरस्यात्मनस्तस्य प्राणादेर्भावेऽभावानियमतोऽ-
वश्यम्भावाभावात् अगतिरप्रतीतिः ।
नन्वात्मान्वयव्यतिरेकानुविधानात् प्राणादय आत्मानं तत्कार्यतयाऽनुमाप-
यिष्यन्ति ? इत्याह — तस्यात्मनो नित्यभाविनः सर्वकालस्थायिनः कदाचिदभावे
सति तेषां प्राणादीनामभावस्यासम्भवात् । यदि व्यतिरेकमन्तरेणान्वयमात्रा-
दात्मकार्यता प्राणादीनाम्, तदा कालाकालादिकार्यतापि स्यात् ; तस्यास्तत्समान-
त्वात् । ततश्च तानप्यनुमापयेयुः । कालादिनिवृत्तिश्च प्राणादिनिवृत्त्या व्याप्येत ।
ततो यत्र प्राणादिनिवृत्तिरस्ति तत्र कालादिनिवृत्तिरपि स्यात्; एवं व्याप्यसद्-
भावात् । न च कालरहितः कश्चिदस्ति ॥ २४७ ॥
किञ्च—कार्यस्वभावभेदानां यथास्वं कारणेभ्यः समुद्भवात्
कारणाद् केवलादन्वयात् कार्यकारणभावेऽपि कार्यभावाङ्गीकारात् तैः कारणैर्विना
भवतः कार्यस्य रूपं तज्जं कथं भवेत् ! न हि वह्निजं युक्तं प्रत्येकं
व्यभिचाराद्धैतुत्वप्रसङ्गात् ॥ २४८ ॥
सामग्रीणां शक्तिभेदाद्धि वस्तूनां कार्याणां विश्वरूपता नानात्मता ।
४४६ प्रमाणवार्त्तिके [ हेतुलक्षण-
सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥ २४९ ॥
भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता ।
एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ २५० ।
तत् तस्या जननं रूपमन्यस्य यदि सैव सा ।
न तस्या जननं रूपं तत् तस्याः सम्भवेत् कथम् ॥ २५१ ॥
ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः ।
तस्मात् स्वदृष्टाविव तद् दृष्टे कार्येऽपि गम्यते ॥ २५२ ॥
सामग्री चेत् स्वभेदेन कार्याणां न भेदिका, जगदिदमेकरूपं प्राप्तम् ॥२४९॥
ननु कारणानि कार्यमात्राणि जनयन्ति, न तेषां परस्परतो भेदमपि; ततो
धूमः पावकादिव शक्रमूर्ध्नोऽपि जायेत ? इत्याह-अस्याः सामग्रया भेदकत्वे
भिन्नत्वे भिन्नसामग्रीकार्यविलक्षणकार्यजनकत्वे, अभेदकत्वे च सामग्र्यन्तरकार्य-
जनकत्वेऽभ्युपगम्यमाने एकस्याः सामग्रया भिन्नरूपता नानात्मताऽभ्युपगता
स्यात्, सा च व्याहता । तथा हि-धूमाग्न्यादिसामग्री सामग्र्यन्तरकार्य-
विलक्षणं जनयन्ती तस्य भेदिका प्रतीता । यदि च सामग्र्यन्तरकार्यं च सा
जनयेत, तदाऽभेदिका च स्यात् । तथा चैकस्य शक्रमूर्ध्नो नानारूपत्वे
द्वे रूपे पावकेतरौ स्याताम्-धूमजनकत्वाद् वह्नित्वम्, विलक्षणरूपत्वाच्चावह्नि-
रूपत्वम् । न चैते एकस्य युक्ते; रूपभेदलक्षणत्वाद् वस्तुभेदस्य ॥ २५० ॥
तत् तस्मात् तस्याः शक्रमूर्धादिसामग्र्या जननं धूमोत्पादकं रूपं यदि
विद्यते, तदा सैव दहनात्मिकैव सा शक्रमूर्धादिसामग्री; अग्निधूमयोरन्वयव्यति-
रेकदर्शनात्-स एवाग्निर्यो धूमजनकः, स एव धूमो योऽग्निजन्य इति
निश्चितत्वात् ।
अथ तस्याः शक्रमूर्धादिसामग्र्या जननं रूपं नास्तीति, तदा तद्
धूमाख्यं वह्निजन्यमस्याः कथं सम्भवेत् ! न ह्यधूमहेतोर्धूमजन्म युक्तम्;
यतो धूमजनक एव वह्निः, वह्निजन्यश्च धूमः ॥ २५१ ॥
ततो हेतुकार्ययोरग्निधूमयोः स्वभावौ नियतौ, अन्योन्यं तज्जन-
कत्वतद्भावित्वाभ्याम् । तस्मात् कारणकार्ययोर्नियमाद्व्यभिचारहेतोः यथा
विचारः ] परार्थानुमानपरिच्छेदः ४४७
एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः ।
द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि ॥ २५३ ॥
भिन्नाभिन्नः किमस्यात्मा भिन्नोऽथ द्रवता कथम् ।
अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ २५४ ॥
स्वस्य कारणात्मनो वहेः दृष्टौ तत् कारणत्वं गम्यते, तद्वत् साक्षाद् दर्शनाद्
कार्येऽपि धूमे दृष्टे तत्कारणे परोक्षमनुमानबुद्ध्या गम्यते, साक्षात् परम्परया
वा तदुत्पन्नेन ज्ञानेन प्रतीयमानस्य व्यभिचाराभावात् ॥ २५२ ॥
पर आह—न यद्येकमेकस्मादेव भवति, तदेकं कार्यं कथमनेकस्माद्
भवति । उदाहरणमाह–क्लेदवत् तण्डुलावयवशैथिल्यमिव, दुग्धाद् वारिणश्च
अग्निसहकारि दुग्धं वारि च स्वयं पृथक् तण्डुलादेर्विक्लेत्तिं जनयद् दृश्यते ?
सिद्धान्ती आह—अयुक्तमेतत्; अन्यो हि दुग्धेन जनितः क्लेदः, अन्यश्च
वारिणा; रसवीर्यपरिणामाकारभेदात् । तत् कथमेकस्मादनेकोत्पादः !
अथ सत्यप्यवान्तरभेदे विजातीयव्यावृत्त्या क्लेद एक उच्यते, तदा दुग्ध-
वारिणोर्यतो यस्या द्रवजनिकायाः शक्तेः क्लेदो जायते, सा शक्तिस्तु द्वयो-
रपि विजातीयव्यावृत्तेरेकैव । तत् कथमनेकस्मादेकोत्पत्तिः ॥ २५३ ॥
पर आह—यदि दुग्धस्य क्लेदजनकशक्त्यात्मतया वारिणा सहाभेद इष्यते,
तदा भिन्नाभिन्नोऽस्यात्मा किमभ्युपगन्तव्यः, शक्त्यात्मतयाऽभेदात्, आकार-
भेदाच्च भेदात् ?
उत्तरमाह—न भिन्नाभिन्न आत्मा, किन्तु भिन्न एव ।
कथं तर्हि द्वयोरपि द्रवताऽभिन्ना क्लेदहेतुरित्युच्यते; द्रवत्वस्याभेदात्,
अभेदोक्तिर्भेदोक्त्या विरुध्यते ?
यदि नाम स्वस्वभावस्थितत्वाद् भावानां भेद एव परमार्थिकः, तथापि
केचिद् भावा भिन्ना अपि स्वहेतुबलायातस्वरूपविशेषात् एककार्यकृत इति बुद्धे-
र्विकल्पिकायास्तद्रूपाया एकप्रत्यवमर्शकाराया अभेदतः कारणात् द्रवताक्लेद-
हेतुरभिन्नेत्युच्यते; तदेकव्यावृत्तिविषयस्यावसायस्यानुरोधात् । एकव्यवहारो
४४८ प्रमाणवार्त्तिके [ हेतुलक्षण-
तद्वद् भेदेऽपि दहनो दहनप्रत्ययाश्रयः ।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ २५५ ॥
दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्गवात् ।
धूमोऽतद्व्यभिचारीति तद्वत् कार्यं तथापरम् ॥ २५६ ॥
धूमेन्धनविकाराङ्गततापदे दहनस्थितेः ।
अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥ २५७ ॥
न पारमार्थिक इत्यर्थः ॥ २५४ ॥
तद्वत् क्षीरोदकवत् अवान्तरभेदे सत्यपि दहनो येनांशेन स्वभावेन
स्वरूपोष्णस्पर्शात्मकेनाग्नि व्यावृत्तेन दहन इति प्रत्ययस्य व्यवहारस्याश्रयो
विषयो येन स्वभावेन धूममादधत् जनयन् धूमाश्रयो भवति, तेन धूमाश्रयत्वेन
कारणेन धूमाल्लिङ्गाद् दहनो हेतुः । तथाऽनग्निव्यावृत्तित्वेन गम्यते ॥ २५५ ॥
तथा हि—दहनप्रत्ययस्याङ्गनिमित्तादेवाग्निलक्षणादन्यापेक्षादार्द्रेन्ध-
नादिसहायात् समुद्गवादुत्पत्तेः कारणात् धूमोऽतद्व्यभिचारीति तद्वत्
धूमवत् अपरमपि कार्यं तथा स्वकारणाव्यभिचारीति बोद्धव्यम् ॥ २५६ ॥
किं पुनर्धूमो वह्निं न व्यभिचरतीत्याह—धूमस्येन्धनविकारादेरङ्गं हेतुस्तस्य
भावो धूमेन्धनविकाराङ्गता तस्याः पदे आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहारा-
च्छक्रमूर्द्धाऽनग्निर्धूमेन्धनविकारकारी न चेदिष्यते, ततो जायमानः पदार्थोऽसौ
दृश्यमानोऽधूमो बाष्पादिरेव । न ह्यग्निजन्योऽनग्निर्भवति । सर्वथा साम्यात्
सधूमश्चेदिष्यते, तर्हि स वल्मीकः पावक एव; धूमजनकस्यैव पावकत्वात् ।
देशकालस्वभावप्रतीतिनियमो हि भावानां नाकस्मिकः; तथात्वेऽतिप्रसङ्गात् । न च
नानाहेतुकः प्रत्येकः; व्यभिचारेऽहेतुत्वप्रसङ्गात् । तस्मान्नियतहेतुकः ।
यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारणभावो धूमः शक्रमूर्ध्नो जायते,
तदा वह्नेरेव शक्रमूर्द्धा । अथानग्निस्तथाऽदृश्यमानत्वात्, तथा सोऽपि न
धूमः, वाष्पादिरेव । आकारसाम्यात् तु धूमाभः । तस्मात् कार्यकारणभावस्य
नान्तरीयकतेति स्थितम् ॥ २५७ ॥
विचारः ] परार्थानुमानपरिच्छेदः ४४९
नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयोः ॥ २५८ ॥
अहेतुत्वगतिन्यायः सर्वोऽयं व्यतिरेकिणः ।
अभ्यूह्यः श्रावणत्वोक्तेः कृतायाः साम्यदृष्टये ॥ २५९ ॥
अनुपलब्धिविचारः
हेतुस्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात् ।
सिद्धोदाहरणेत्युक्तानुपलब्धिः पृथग् न तु ॥ २६० ॥
स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञेया ।
यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं तस्यापेक्षया ।
यथा प्रागुक्तं विनाशकृतकत्वयोस्तादात्म्यसाधनम् । अवश्यं हि कृतकानां
विनाशः । न चार्थसापेक्षाणामवश्यम्भावः । ततः स्वभावत एव कृतकानां नश्व-
राणां विनाशं प्रत्यनपेक्षित्वादिति दर्शितम् । तदेव स्वभावकार्ययोरव्यभिचारि-
त्वाद्धेतुत्वम् । न च प्राणादेरात्मककार्यत्वं सिद्धमिति कथं हेतुता ॥ २५८ ॥
नन्वयं प्राणादेरुक्तो दोषकलाप आचार्येणेष्ट इति कथं गम्यते ?
इत्याह—सर्वस्यासाधारणस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनायाचार्येण
श्रावणत्वस्यासाधारणस्य योक्तिः कृता, तस्या एवायं व्यतिरेकिणः प्राणादे-
रन्यस्य च हेतोरहेतुत्वगतिन्यायः सर्वोऽभ्यूह्यः ॥ २५९ ॥
ननु यथा स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू उक्तौ, तथा अनुपलब्धिरपि वक्तुं
युक्ता; हेतुत्वात् ? स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न
भिद्यत इति स्वभावहेतुनिर्देशादेव निर्दिष्टा । कारणव्यापकानुपलब्धिभ्याञ्च निषेध्या-
नुपलब्धिरेव प्रतिपाद्यत इति न ते अपि स्वभावानुपलब्धेर्भिद्येते । उदाहरणं
तर्हि कस्मान्नोक्तम् ? इत्याह—त्रिविधाप्यनुपलब्धिर्विपक्षाद्धेतोः कारणस्य
स्वभावस्य व्यापकस्य निवृत्त्यैवार्थस्य कार्यस्य व्याप्यस्य च निवृत्तेर्वर्णनात्
सिद्धोदाहरणेति न पृथगुक्ता स्वभावानुपलब्धिः कारणव्यापकाभावसाधिका।
तयोरनुपलब्धिस्तु कार्यव्याप्याभावसाधनीति त्रिविधानुपलम्भोदाहरणं सिद्धम् ॥
२६० ॥
प्र० वा० : २९
४५० प्रमाणवार्त्तिके [ अनुपलब्धि-
तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् ।
सन्देहहेतुताख्यात्या दृश्येऽर्थे सेति सूचितम् ॥ २६१ ॥
अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेऽनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ २६२ ॥
तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् ।
इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ २६३ ॥
उपलब्धिलक्षणप्राप्तविषयत्वमनुपलब्धेर्विशेषणं कथं सिद्धम् ? इति चेदाह—
प्राणादेर्हेतोरदृश्यात् पुरुषादात्मनोऽनिवृत्तेर्निवृत्त्यसिद्धे जीवच्छरीरे सन्देह-
हेतुतया आख्यात्या कथनेन तत्रानुपलब्धावपि दृश्येऽर्थे याऽनुपलब्धिः सा
भावसाधिका, नान्येति सूचितमाचार्येण । यदि त्वनुपलब्धिरित्येव प्रमाणम्,
तदाऽऽत्मनि प्राणादेर्निवृत्तिः सिध्येत् । ततश्च जीवच्छरीरे वर्त्तमानमात्मानं
गमयेदिति न सन्देहहेतुः स्यात् ॥ २६१ ॥
ननु यथा व्यवच्छेदविषयाऽनुपलब्धिः, तथा कार्यस्वभावावपीति अनुप-
लब्धिरेवैको हेतुः स्याद् ? इत्याह—अनयानुपलब्ध्या न केवलं वस्तुनि, अव-
स्तुन्यपि निषेधः केवलो नाङ्गीकृतवस्त्वंशः कारणव्यापकानुपलब्धिभ्यां
वस्तुन्यवच्छेदमात्रम्, अभावव्यवहारश्च साध्यते । यथा प्रदेशे धर्मिणि घटाभावः।
पूर्वाभ्यां कार्यस्वभावाभ्यां त्वन्यव्यवच्छेदे नैकस्य विधानतः पर्युदासः
साध्यते, यथा—अनग्निव्यवच्छेदेनाग्निः, नित्यव्यवच्छेदेनानित्यत्वम् ॥ २६२ ॥
ननु स्वभावानुपलब्धौ कथं तादात्म्यं प्रतिबन्धः ? इत्याह—तत्रोपलभ्येषु
भावेषु विचार्यमाणमस्तित्वमुपलब्धेरपरं न भवति । यदि ह्युपलब्धिः कर्म-
धर्मः, तदोपलभ्यमानतास्तित्वम् । अथ कर्तृधर्मो ज्ञानम्, तदा तदन्वयव्यतिरेकानु-
विधानाद् भावसत्ताव्यवस्थानस्योपचारात् सैव सत्ता । यथा चोपलब्धिरेव सत्ता,
तथाऽनुपलब्धिरेवासत्तेति तादात्म्यमनयोः सम्बन्धः ।
एवं तर्ह्यनुपलब्धिरेवाभावसिद्धिरित्यलं लिङ्गिलिङ्गिभावेन ? इत्याह—अभावः
सिद्धत्वान्न साधनार्हः। तस्मादभावं पश्यतोऽप्यव्यवहरतोऽज्ञस्य मूढस्य ज्ञापनाय
अभावव्यवहाराय एका स्वभावानुपलम्भोदाहृतिर्मता, सा चानुपलब्धिरनुपाख्या
विचारः ] परार्थानुमानपरिच्छेदः ४५१
स्वभावानुपलब्ध्या विषयिप्रतिषेधः
विषयासत्त्वतस्तत्र विषयि प्रतिषिध्यते ।
ज्ञानाभिधानसन्देहं यथाऽदाहादपावकः ॥ २६४ ॥
तथान्या नोपलभ्येषु नास्तितानुपलम्भनात् ।
तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धना ॥ २६५ ॥
सिद्धो हि व्यवहारोऽयं दृश्यादृष्टावसन्निति ।
तस्याः सिद्धावसन्दिग्धौ तत्कार्यत्वेऽपि धीध्वनी ॥ २६६ ॥
वस्तुतोऽभावात्मिका ॥ २६३ ॥
यद्यभावः स्वभावानुपलब्ध्या न साध्यते, किं तर्हि साध्यते ? इत्याह—
तत्र स्वभावानुपलम्भे विषयासत्त्वतो ज्ञानाभिधानसन्देहानां विषयस्यासत्त्वतः
कारणाद् विषयि प्रतिषिध्यते । किं तद् विषयि ? इत्याह—ज्ञानमभिधानं च
सन्देहश्च ज्ञानाभिधानसंदेहम् । सदिति ज्ञानम्, सदित्यभिधानम्, अस्ति न
वेति सन्देहश्चानुपलब्धिलक्षणादभावान्निषिध्यते । सत्त्वविषया हि सञ्ज्ञानादयः,
तदभावे निषिध्यन्त इति न्याय्यम् ।
दृष्टान्तमाह—यथा गुञ्जादौ वह्नित्वसन्देहे कश्चिदाह—पावकोऽयमिति ।
दाहादिनिमित्तो हि वह्नित्वव्यवहारः, तदभावात् प्रतिषिद्धः ॥ २६४ ॥
यथोपलब्धेरन्या नास्तिता, तथोपलभ्येषूपलब्धिलक्षणप्राप्तेष्वनुपलम्भादन्या
नास्तिता न भवति । किन्त्वनुपलब्धिरेव नास्तित्वम् । तस्मात् तन्निबन्धना
अनुपलब्धिनिमित्ताः तज्ज्ञानाभिधानव्यवहाराः तस्यानुपलम्भनस्य भावात्
साध्यन्ते ॥ २६५ ॥
यद्यनुपलम्भेन निमित्तेन नैमित्तिकोऽसत् ज्ञानादि साध्यते, तदा निमित्ते
सति नैमित्तिकभावनियमाभावात् सत्यनुपलम्भेऽसञ्ज्ञानादिव्यवहार ऐका-
न्तिको न स्याद् ? इत्याह—सर्वस्यैव हि दृश्यादृष्टावसन्निति व्यवहारोऽयं
निमित्तान्तरनिरपेक्षः सिद्धः । तस्या दृश्यादृष्टेः सिद्धौ सत्याम् असदिति
धीध्वनी कार्यत्वेऽप्यसन्दिग्धौ नियतप्रवर्त्त नौ सिद्धौ । यद्यपि कार्यं न कारणेन
४५२ प्रमाणवार्त्तिके [ अनुपलब्धि-
विद्यमानेऽपि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ २६७ ॥
कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः ।
कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ २६८ ॥
कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् ।
हेतुभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ २६९ ॥
एकोपलम्भानुभवादिदं नोपलभे इति ।
बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥ २७० ॥
नियतभावस्, तथापि यदि क्वचित् भावव्यवहारः प्रवर्त्तते, तदानुपलब्धिभाव-
निमित्तत्वादन्यत्राप्यनुपलब्धौ सत्यां स प्रवर्त्तनीय इत्यर्थः ॥ २६६ ॥
अभावव्यवहारस्य विषये दृश्यादर्शने विद्यमानेऽपि केवलं मोहादसत्-
ज्ञानशब्दव्यवहाराननुब्रुवन् नानुवदन् परोऽसद्व्यवहारविषतया सिद्धेन घटेन
दृष्टान्तेन दृश्यादर्शनवत्तयाः साधर्म्यात् समयं व्यवहारं स्मार्यते । पूर्वमपि
त्वया दृश्यादर्शनमात्रकोऽसद्व्यवहारः प्रवर्त्तितः, तत्सद्भावादिहापि प्रवर्त्तय—इति
परः प्रतिपाद्यते ॥ २६७ ॥
दृष्टान्तमाह—कार्यकारणता दृष्ट्यदृष्टितो दर्शनादर्शनाभ्यामन्वयव्यति-
रेकग्राहकाभ्यां यद्वत् साध्यते । न हि वस्तुतो दर्शनादर्शनाभ्यामन्या कार्य-
कारणता । किन्तु तयोर्दर्शनादर्शनयोर्हि संक्षेपेण व्यवहाराय कार्यादिशब्दाः
कल्पिताः ॥ २६८ ॥
ततश्च कारणात् दृश्यादर्शनात् असज्ज्ञानशब्दव्यवहारकार्ययोग्यता-
संसिद्धिः स्वभावहेतावन्तर्गमान्न हेत्वन्तरम् । तेनेयं स्वभावानुपलब्धिर्हेतुना
प्रभेदस्याख्याने क्रियमाणे स्वभावहेतुनैव दर्शितोदाहृतिर्न पृथक् निर्दिष्टा
॥ २६९ ॥
भवतु तावद् दृश्यानुपलब्धेरसद्व्यवहारयोग्यतासिद्धिः, सैव तु कथं
सिध्यति ? इत्याह—एकज्ञानसंसर्गिण एकस्य प्रदेशस्योपलम्भानुभवात् स्व-
संवेदनानन्तरं घटादि नोपलभ्यते । इदं प्रदेशाद्युपलभ्यत इति कल्पिकाया
विचारः ] परार्थानुमानपरिच्छेदः ४५३
विशिष्टवेदनादेवार्थानां विशेषावगतिः
विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात् ।
तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च ॥ २७१ ॥
तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः ।
अन्यथा ह्यनवस्थातो भेदः सिध्येन्न कस्यचित् ॥ २७२ ॥
विशिष्टरूपानुभवादन्यथान्यनिराक्रिया ।
तद्विशिष्टोपलम्भोऽतः तस्याप्यनुपलम्भनम् ॥ २७३ ॥
तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः ।
स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः ॥ २७४ ॥
बुद्धेः स्ववेदनविषयीकृतविधिप्रतिषेधानुकारिण्याः समुद्भवो भवतीति स्वसंवेदना-
देवानुपलम्भसिद्धिः ॥ २७० ॥
भवतु ज्ञानं स्वसंवेदनविषययोर्ज्ञानयोः, अन्योन्यभेदस्तु केन ज्ञायते ? इत्याह-
अर्थानां विशेषोऽन्योन्यं भेदो गम्यते; विशिष्टप्रतिनियताकारादेव वेदनात् ।
अस्य संवेदनस्य तयोर्भेदानियताकारत्वं तस्य, धियः संवेदनस्य तु साधनं
तथाभूता प्रतिनियताकारा परनिरपेक्षप्रकाशात्मसम्पत्तिरपरोक्षता ॥ २७१ ॥
तस्माद् धियो भेदस्य स्वतः प्रतिनियतात् अपरोक्षप्रकाशात् स्वरूपत
एव सिद्धिः । ताभ्यां भिन्नतया सिद्धाभ्यां तयोरर्थयोः सारूप्यजनकयोर्भेद-
सिद्धिः । अन्यथा यद्येवं नेष्यते, तदा अपराभ्यां भेदसिद्धिर्वक्तव्या । तयोश्च
भेदसिद्धौ भेदग्राहकता युक्तेति तद्भेदग्राहकमपरं द्वयमेष्टव्यम् । एवमपरापरा-
पेक्षायामनवस्थातः न कस्यचिद् भेदः सिध्येत् ॥ २७२ ॥
अतो विशिष्टस्य नियतस्य रूपस्यानुभवादन्यथान्यस्य निराक्रिया न
भवति । अतस्तस्मात् प्रतिषेध्याद् विशिष्टस्य भिन्नस्य प्रदेशादेरुपलम्भस्तस्य
प्रतिषेध्यस्याप्यनुपलम्भनम् ॥ २७३ ॥
तस्मादयं ज्ञानात्मकानुपलम्भः स्वयमात्मना प्रत्यक्षतः स्वसंवेदनाद्
गतः प्रतीतः सन् स्वमात्रवृत्तेरात्ममात्रप्रतीतायास्तस्यानुपलभ्यमानस्याभावव्य-
वस्थितेर्गमकः । अनुपलम्भो हि निमित्तम्, विषयो वाऽभावव्यवहारस्येत्युभयथापि
४५४ प्रमाणवार्त्तिके [ अनुपलब्धि-
अन्यथाऽर्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः ।
उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ॥ २७५ ॥
दृश्यानुपलब्धिः सव्यवहारबाधिका
अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते ।
यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥ २७६ ॥
अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
आद्याधिक्रियते हेतोर्निश्चितेनैव साधने ॥ २७७ ॥
तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
स्वसत्तामात्रेणाभावव्यवहारहेतुः ॥ २७४ ॥
अन्यथा यदि स्वतो नानुपलब्धिसिद्धिः, तदाऽर्थस्य नास्तित्वमनुपलम्भ-
स्ततो गम्यते । उपलम्भस्य नास्तित्वमनुपलब्धिरन्येनानुपलम्भेन गम्यते,
सोऽप्यनुपलम्भान्तरेणेति अपेक्षायामनवस्थितिः स्यात् ॥ २७५ ॥
भवतु तावद् इयेष्वनुपलब्धावभावप्रतीतिः, अदृश्ये पुनः कथम् ? इत्याह—
अन्यत्र दृश्यानुपलब्धौ सत्यामदृश्ये विषयेऽभावनिश्चयायोगात् सद्द्व्यव-
हारस्य स्थितिर्बाध्यते; उपलम्भपूर्वकत्वात् तस्याः । यथाऽन्येषु सत्त्वेषु
प्राणिषु रागादिविषयो विकल्पः, परचित्तज्ञानादिरादिना, अलिङ्गो लिङ्गरहितः
सद्द्व्यवहारविषयत्वेन न सिध्यति ॥ २७६ ॥
किं पुनरदृश्यानुपलब्धौ सत्यामपि न सिध्यति ? इत्याह—एषा हि सत्य-
प्यर्थे सम्भवन्ती अभावस्यानिश्चयफला । तस्माद् व्यावृत्तेरभावस्य साधने
नालं शक्ता ।
आद्या दृश्यानुपलब्धिः पुनर्व्यावृत्तिसाधनेऽधिक्रियते । कस्माद् ? इत्याह—
हेतोर्विपक्षात् कारणव्यापकानुपलब्धिभ्यां व्यावृत्तेर्निश्चितेनैव साध्यार्थसाधने-
ऽधिकारात् । न हि विपक्षादनिश्चितव्यावृत्तिको हेतुर्गमकः । न हि कारण-
व्यापकानुपलब्धिभ्यामन्यो व्यावृत्तिसाधनः कारणविरुद्धोपलम्भादिष्वपि कारणा-
भावादभावः प्रतिपाद्यः ॥ २७७ ॥
तस्या अनुपलब्धेः प्रयोगेषु स्वयं शब्दप्रतिपादितं वा स्वरूपं प्रयुज्यते,
विचारः ] परार्थानुमानपरिच्छेदः ४५५
अर्थबाधनरूपं वा भावे भावादभावतः ॥ २७८ ॥
अन्योन्यभेदसिद्धेर्वा ध्रुवभावविनाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षध्रुवभाववत् ॥ २७९ ॥
भावस्वभावविचारः
हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।
यथा स्वभावकारणव्यापकानुपलब्ध्यादिषु । निषेध्यस्यार्थस्य बाधनं विरुद्धं वा
प्रयुज्यते, यथा स्वभावकारणव्यापकविरुद्धोपलब्ध्यादिषु प्रयुज्यत इत्याह—
अविकलकारणतया शीतस्य भावे सत्तायां सत्यां दहनस्य भावात् । अभावतो
निवृत्तेः। यथा शीताभावसाधने सहानवस्थानविरुद्धो वह्नेः प्रयुज्यते—नात्र शीत-
स्पर्शो वह्नेरिति ॥ २७८ ॥
निषेध्यविधीयमानयोरन्योन्यस्याभावात्मतया भेदसिद्धेर्वाऽर्थबाधनरूपं
प्रयुज्यते ध्रुवभावविनाशवत् । नित्यत्वानित्यत्वयोरन्योन्याभावात्मकत्वेन
भेदसिद्धौ परस्परपरिहारस्थितिलक्षणतया विरुद्धं विनाशित्वं नित्यत्वबाधने प्रयु-
ज्यते, यथा—नित्यः शब्दो विनाशित्वात् । स चायं परस्परपरिहारस्थितिविरुद्धः
कचित् साक्षाद् वा प्रयुज्यते, यथा—नित्यत्वस्य विनाशित्वम्। क्वचिद् धर्मान्तर-
विरोधग्राहिणा; प्रमाणान्तरेण परम्परया बाधनात् । अबाधितविरुद्धभावो वा
प्रयुज्यते । सापेक्षध्रुवभावित्ववत् । यथा सापेक्षध्रुवभावयोः साक्षाद् विरोधा-
भावेऽपि ध्रुवभावित्वस्य यद् व्यापकं तेन विरुद्धं सापेक्षत्वम् , व्याप्यव्यापकयोश्च
वस्तुतस्तादात्म्याद्यो यद्व्यापके विरुध्यन्ते स तद्व्याप्येनापीति प्रमाणान्तरबाधना-
देवावधृतविरुद्धभावं सापेक्षत्वं ध्रुवभावित्वबाधने प्रयुज्यते; यथा—न ध्रुवभावी
कृतकस्य विनाशो हेत्वन्तरसापेक्षत्वादिति ॥ २७९ ॥
कस्मात् पुनर्हेत्वन्तरसापेक्षो न ध्रुवभावी ? इत्याह—उत्पादकाद्धेतोर्हेत्व-
न्तरसमुत्थस्य धर्मस्य सन्निधौ सन्निधाने नियतः कुतः । यथा कारणान्तर-
सापेक्षस्य वाससि नावश्यम्भावनियमो रागस्य ।
स्यादेतत् । भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति, तेन नश्वर-
४५६ प्रमाणवार्त्तिके [ भावस्वभाव-
भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ २८० ॥
नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः ।
तमेव नश्वरं भावं जनयेद् यदि किं भवेत् ॥ २८१ ॥
आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ २८२ ॥
अनपेक्षश्च किं भावोऽतथाभूतः कदाचन ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ २८३ ॥
क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।
स्वभावनियतो भावः ? इत्याह—भावहेतुभवत्वेऽनित्यत्वाख्यस्य धर्मस्य भाव-
नाशकस्येष्यमाणे पारम्पर्ये परिश्रमैरैभिः स्वीकृतैः किं प्रयोजनम् ॥ २८० ॥
तथा हि—स भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा
तस्याभावस्य नाशक इष्यते परम्परया । यदि तु तमेव नश्वरं भावं साक्षाद्
भावहेतुर्जनयेत् , तदा किं दूषणं भवेत् , न किञ्चित् ! ॥ २८१ ॥
अपि च—यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य, स किमुपकारकः सन्
विनाशको भावस्य ? उतानुपकारक एव ? तत्राद्ये पक्षे सिद्धात्मनो भावस्य
सतः सर्वतो निराशंसस्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः
स्यात् । अथ द्वितीयः पक्षः ? तदाऽनात्मा उपकारकः स्यात् । तेन भावेन
यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते, अनुपकारकत्वे का तस्या-
पेक्षा नाशकता वा ॥ २८२ ॥
अथ नाशहेत्वयोगात् ? अनपेक्ष्य एव भावो नश्वरतायाम्, तदा ? अनपेक्षश्च
नाशे भावः किं कस्मात् कदाचनातथाभूतो अनश्वरस्वभावः । सर्वदैव नश्वर-
स्वभावताऽस्य युक्ता । यथा तन्मते स एव कृतको भाव उद्भूतनाशक
उन्मुखनाशकानित्यत्वस्वभावो नाशकालेऽक्षेपभागचिरविनाशी इष्टः, तथोत्पादा-
नन्तरं नश्वरस्वभावतया विनश्येदिति । क्षणक्षयिस्वभावा भावाः स्वहेतोरेव जायन्ते ।
विनाशं प्रत्यनपेक्षत्वे भावस्य यथा द्वितीये क्षणे भावो नास्ति, तथा
प्रथमेऽपि क्षणे न स्यादिति क्षणमपि भावस्य भावो न स्यादिति चेत् ?
विचारः ] परार्थानुमानपरिच्छेदः ४५७
भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥ २८४ ॥
येऽपरापेक्षतद्भावास्तद्भावानियता हि ते ।
असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ॥ २८५ ॥
अयुक्तमेतत्; हि यस्मात् स भावस्तथा नश्वरस्वभाव इष्यते । यदा तु भाव
एव नास्ति, तदाऽभावे भावस्य भावस्तथा नश्वरः कथमुच्यते । ततो
लब्धजन्मनो भावस्य क्षणान्तराननुवृत्तेर्नश्वरता ॥ २८३-२८४ ॥
तस्माद् ये भावा अनपेक्षतद्भावाः परापेक्षां विना सम्भवद्धर्मविशेष-
सम्भवाः, ते तस्य भावे धर्मस्य नियताः । कारणसामग्रीव असम्भवद्-
विबन्धा विबन्धकारणरहिता कार्यस्य कर्मणि क्रियायां नियता । परनिरपेक्षाश्च
भावाः स्वनाश इति “क्षणिकाः सर्वसंस्काराः” इत्यकम्प्यः सौगतः सिंहनादः ।
न यदिह तन्न न्याय्यं तेनोदितेन च किं फलम्,
यदि बहुशस्तस्यावृत्तौ गुणः कथं कस्य कः ।
यदि परमसौ व्याख्येयार्थग्रहस्य विरोधिनी,
विवृतिरचनामात्रे तस्मात् कृतोऽत्र मयादरः ॥
इत्याचार्यश्रीमनोरथनन्दिकृतायां
प्रमाणवार्त्तिकवृत्तौ चतुर्थः
परिच्छेदः
❊ समाप्तं चेदं प्रमाणवार्त्तिकम् ❊
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
—अश्वजित्
प्रमाणवार्त्तिककारिकार्धसूची
प्रमाणवार्त्तिके ह्यस्मिन्नाचार्यधर्मकीर्त्तिभिः ।
निबद्धाः कारिकास्तासां सूचीयं क्रमशालिनी ॥
अकार्यकृतितत्कारि० २६३ अतत्समानताव्यक्ती १०७
अक्षयित्वं च दोषाणां ५३ अतत्स्वभावोऽनुभवो १८२
अक्षवद् रूपरसवद् २५ अतदात्मनि तादात्म्य० २०७
अक्षीणशक्तिः संस्कार० ६६ अतद्रूपे च ताद्रूप्यं ३३५
अक्ष्णोर्यथैक आलोको १७६ अतद्वानपि सम्बन्धात् ४४१
अख्यापिते हि विषये ३७० अताद्रूप्ये न भेदोऽपि १६३
अगतीनां किमाधारैः ३१ अतिप्रसङ्गात् कर्मापि ३०६
अगुणग्राहिणोऽपि स्यात् ५७ अतिप्रसङ्गात् यद् दृष्टम् २१
अगृहीत्वोत्तरं ज्ञानं २४७ अतीतमपहृष्टान्तम् १५५
अग्निस्वभावः शक्रस्य २७० अतीताजातयोर्वापि ३२१
अग्नेरर्थान्तरोत्पत्तौ ३४२ अतीतादिविकल्पनां २४८
अग्रहादेकबुद्धिः स्यात् १६६ अतीतानागतं वाच्यम् १०७
ग्राहकः स्यात् सर्वस्य १८१ अतीतानागतेऽप्यर्थे १११
अग्राह्यं न हि तेजोऽस्ति २५१ अतीतार्थग्रहे सिद्धे २०९
अग्राह्यग्राहकत्वाच्चेद् १८१ अतीन्द्रियाणामर्थानाम् १२६
अङ्गमेव तयाऽसिद्ध० ३९१ अतीन्द्रियार्थवित् कश्चिद् १५६
अचेतनत्वान्नान्यस्माद् २५ अतो न रूपं घट इति ४१
अज्ञातव्यतिरेकस्य ४३४ अतो लक्षणशून्यत्वाद् १६५
अज्ञातस्य स्वयं ज्ञानात् १०६ अत्यन्तभेदाभेदौ तु ३११
अज्ञातार्थप्रकाशो वा ८ अत्यासन्ने च सुव्यक्तं २२०
अज्ञानमुक्ता तृष्णैव ६६ अत्र प्रमेद आख्यातः ४३१
अज्ञोपदेशकरणे १६ अत्रापि लोकेऽदृष्टत्वात् ४०१
अञ्जनादेरिव व्यक्तेः ३०३ अत्राप्यध्यक्षबाधायां ४०४
अणूनां स विशेषश्च १५६ अथ कस्माद् द्वयाधीन० १५८
अतत्कारिविवेकेन २६३ अथ नोत्पद्यते तस्माद् २३१
अतत्कार्यपरावृत्तिः ३०० अथ प्रसिद्धमुल्लङ्घ्य ३५८
अतत्कार्यार्थभेदेन २८५ अथ बुद्धेस्तदाभावात् ९०
२ प्रमाणवार्त्तिके
अथ वादीष्टतां ब्रूयात् ३७९ अनक्षजत्वसिद्धयर्थम् १८६
अथ वा ब्रुवतो लोकस्य ४०० अनग्निजन्यो धूमः स्यात् २१६
अथ सोऽनुभवः कस्य १९६ अनग्निश्चेद्धूमोऽसौ ४४८
अथ स्वरूपं सा तर्हि २२६ अनङ्गीकृतवस्त्वंशो ४५०
अथ हेतुर्यथाभावं ४४ अनन्यत्वेऽन्वयाभावात् ३०३
अथात्मरूपं नो वेत्ति २२९ अनन्यत्वे विनाशस्य ३४४
अथात्र धर्मी प्रकृतः ३७६ अनन्यभाक् स एवार्थः ३१०
अथानग्निस्वभावोऽसौ २७१ अनन्यसत्त्वनेयस्य ३४
अथापि तपसः शक्त्या ६३ अनन्यहेतुता तुल्या १४८
अथापि भावशक्तिः स्यात् ३५० अनन्वयाद् विशेषाणाम् १३६
अथार्थस्यैव कश्चित् स २३४ अनन्वयी धियोऽभेदात् १५१
अथाशक्तं
कारिकार्धसूची ३
अनाश्रयान्निवृत्ते स्यात् ४५ अनेकमपि यद्येकम् २६१
अनित्यं यत्नसम्भूतं १३६ अनेकया तद्ग्रहणे २४१
अनित्यता श्रुतिस्तेन १३४ अनेकशब्दसंघाते ३३८
अनित्यत्वसहेतुत्वे ४२० अनेकान्तोऽप्रमेयत्वे १२०
अनित्यत्वेन यो वाच्यः ७१ अनेकार्थाभिसम्बन्धे ३२८
अनित्यत्वे यथा कार्ये ३१७ अनेकार्थेषु शब्देषु ३५७
अनित्यात् प्राह तेनैव ८७ अनेकावयवात्मत्वे ३३५
अनित्यादेश्च चैतन्यम् १५ अनेन देहपुरुषौ २५१
अनित्याव्यापितायां च ३३९ अनैकान्तिकता कार्ये २६१
अनिराकरणे तेषाम् २४४ अनैमित्तिकतापत्तेः ३०६
अनिवृत्तिप्रसङ्गश्च २६ अन्तरंगं तु सामर्थ्यं ३७०
अनिश्चयकरं प्रोक्तम् ४६, १२६ अन्यः स्वभेदाज्ज्ञानस्य १११
अनिश्चयफला ह्येषा ४५४ अन्यः स्वयं ब्रवीमीति ३५८
अनिषिद्धः प्रमाणाभ्यां ३६२ अन्यत्रगतचित्तोऽपि १५३
अनिष्टादावसन्धानं २०३ अन्यत्र नान्यसिद्धिश्चेद् १२५
अनिष्टेनेत् प्रमाणं हि ४३५ अन्यत्र वर्तमानस्य ३०४
अनीप्सितमसाध्यं चेत् ३८६ अन्यत्रात्मीयतायां वा ८४
अनुक्तावपि पक्षस्य ३७१ अन्यत्रादृष्टरूपस्य ४३४
अनुक्तावपि वाञ्छायाः ३७४ अन्यत्रादृष्ट्यपेक्षत्वात् १५२
अनुक्तोऽपीच्छया व्याप्तः ३७३ अन्यत्रापि समानं तद् १४१
अनुदाहरणं सर्व० ३४१ अन्यत्वे तदसम्बद्धं १०६
अनुमानं च जात्यादौ १४७ अन्यत् संवृतिसत् प्रोक्तम् १००
अनुमानप्रसिद्धेषु ४०० अन्यथा कुम्भकारेण १४
अनुमानस्य भेदेन ३६२ अन्यथातिप्रसङ्गः स्यात् ३६५
अनुमानस्य सामान्य० ३८६ अन्यथा धर्मिणः सिद्धौ २७४
अनुमानादनित्यादेः १३१ अन्यथा व्यभिचारि स्यात् २६१
अनुमानानुमेयार्थ० ४२४ अन्यथार्थस्य नास्तित्वं ४५४
अनुमानाबहिर्भूता ४०३ अन्यथा शशशृंगादौ ४१५
अनुमानाबहिर्भूतो ३६५ अन्यथासम्भवाभावात् ३५८
अनुमानाश्रयो लिङ्गम् ६७ अन्यथा सर्वसाध्योक्तेः ३७१
अनुमाविषये नेष्टं ३६३ अन्यथा स्यात् पदार्थानां ४४०
अनुयान्तीममर्थांशम् ५२ अन्यथास्योपरोधः को ४०६
अनेकत्वेऽणुशो भिन्ने २२० अन्यथा ह्यतथारूपं २१२
४ प्रमाणवार्त्तिके
अन्यथा ह्यनवस्थातो ४५३ अपि चाध्यक्षताऽभावे २३३
अन्यथा ह्यग्रमेवैकं २१४ अपि चासद्गुणोरोपः ८४
अन्यथैकनिवृत्त्यान्य० २६७ अपि चेदं यदाभाति २१७
अन्यथैकस्य धर्मस्य १२७ अपि प्रवर्तेत पुमान् २८८
अन्यथैकस्य भावस्य २०६ अपुनर्भावतः किञ्चित् २८
अन्यथैकेन शब्देन २७५ अपेक्षातश्च भावनां २७०
अन्यथैवंविधो धर्मः ४०७ अपेक्ष्य तत्स्मृतिं पश्चात् ३५३
अन्यथैवावभासन्ते २०५ अपेक्षेत परः कार्यं ३४६
अन्यदेव ततो रूपं ३५३ अपौरुषेयं मिथ्यार्थं ३२७
अन्यस्मरणभोगादि० ६१ अपौरुषेयं सत्यार्थम् ३२६
अन्यस्य विनिवृत्त्यान्य० ४३३ अपौरुषेयतापीष्टा ३३२
अन्यस्यान्यस्वभावेन २०६ अपौरुषेयतायाश्च ३२८
अन्यार्थाशक्तिविगुणे ४५, २४९ अपौरुषेये सा नास्ति ३५६
अन्याविशेषाद् वर्णानां ३३५ अप्रकाशात्मनोः साम्याद् २३७
अन्येन वा यदि ब्रूयात् २८० अप्रत्यक्षां धियं प्राहुः २३०
अन्येषु सत्स्वद्दश्ये च १२३ अप्रवृत्तिः प्रमाणानाम् २५६
अन्येषु हेत्वाभासेषु ३८४ अप्रवृत्तिरसम्बन्धे १०७
अन्यैरेकार्यभेदस्य १७३ अप्रामाण्ये च सामान्य० १२३
अन्योऽक्षबुद्धिहेतुश्चेत् १५७ अवाधकत्वसिद्धाव० १५
अन्योन्यं वा तयोर्भेदः ३१२ अवाध्यबाधकत्वेऽपि ३८५
अन्योन्यप्रत्ययापेक्षा ४३८ अत्राद्याश्रयमश्रेष्ठं ४३९
अन्योन्यभेदसिद्धेर्वा ४५५ अभावं दर्शयत्येवं ४००
अन्योन्यस्य विनाशोऽस्तु ३४२ अभावप्रतिपत्तौ स्याद् १२३
अन्योन्यावरणात् तेषाम् २२१ अभावादक्षबुद्धीनां २१५
अन्योन्याश्रयमित्येक० २६३ अभावान्नास्त्यनुष्ठानम् १८
अन्यो वा रचितो ग्रन्थः ३३३ अभावासम्भवात् तेषाम् ४४५
अन्योऽस्यां रूपसंक्रान्त्य० १२८ अभावे करणग्राम० ३४०
अन्वयव्यतिरेकाद् यो २७१ अभावे निर्विकल्पस्य १५६
अन्वयव्यतिरेकौ वा २६६ अभावेऽर्थबलाज्जातः १२१
अन्वयाच्चानुमानं यद् १७२ अभावे विनिवृत्तिश्चेद् १२१
अन्वयो व्यतिरेको वा ३४९ अभिन्नप्रतिभासा धीः २६२
अपरामृष्टभेदे ३१५ अभिन्नवेदनस्यैक्यं १८३
अपवादश्चतुर्थोऽत्र १८७ अभिन्ना इव चामान्ति २८४
कारिकार्धसूची ५
अभिन्नाभे विभिन्ने चेत् १८४ अर्थबाधनरूपं वा ४५५
अभिन्नेत्युच्यते बुद्धेः ४४७ अर्थभ्रान्तिरपीष्येत ११०
अभिप्रायाविसंवादाद् ११८ अर्थमात्रानुरोधिन्या ३६८
अभिलापद्वयं नित्यं २५४ अर्थरूपतया तत्त्वेन १११
अभिलापाच्च भेदेन ३८ अर्थसंकलनाश्लेषां २१४
अभूतानपि पश्यन्ति १८४ अर्थसंवेदनं तावत् २४६
अभूतान् षोडशाकारान् ९२ अर्थसंस्कारभेदानां ३३५
अभेदव्यवहारश्च २६६ अर्थसामर्थ्यदृष्टेश्चेद् १०६
अभेदिन इवाभान्ति २८१ अर्थसारूप्यमालम्बः २३३
अभेदे तु विरुध्यते ३११ अर्थस्थितेस्तदात्मत्वात् २०४
अभ्यासजाः प्रवर्तन्ते ४८ अर्थस्य तत्संवित्तेश्च २४४
अभ्यासान्न यदृच्छातो ५५ अर्थस्याभिन्नरूपत्वाद् २१७
अभ्यासेन विशेषेऽपि ४६ अर्था ज्ञाननिविष्टास्ते २८४
अभ्युपायः स्ववागाद्य ० ४१४ अर्थात्मा स्वात्मभूतो हि १८०
अभ्युपायविचारेषु ३६५ अर्थादर्थगतेः शक्तिः ३६८
अभ्युपायेऽपि भेदेन २०२ अर्थानर्थौ न येन स्तः २२१
अभ्यूह्यः श्रावणत्वोक्तेः ४४६ अर्थानां यच्च सामान्यम् ११०
अयथाभिनिवेशेन ११८ अर्थान्तरनिमित्ते वा २६९
अयमप्ययमेवेति २९४ अर्थान्तरनिमित्तो हि २७०
अयमेवं न वेत्यन्य ० ३२५ अर्थान्तरस्य तद्भावे ४४५
अयुक्तं न च संस्काराद् १०६ अर्थान्तरानपेक्षत्वात् २६१
अयोगं योगमपरैः ४२६ अर्थान्तराभिसम्बन्धाद् १५९
अरूपत्वान्न संयोगः १६२ अर्थापत्त्याऽत एवोक्तम् ४३७
अरूपो रूपवत्त्वेन २६७ अर्थापत्त्या द्वितीयेऽपि २६८
अर्थं पूर्वं च विज्ञानं २५४ अर्थाभेदेन च विना ३००
अर्थकार्यतया ज्ञान ० २१२ अर्थार्थप्रत्ययौ पश्चात् २४६
अर्थक्रियायां केशादिः ६६ अर्थाश्रयेणोद्भवतः २१७
अर्थक्रियानुरोधेन ११६ अर्थास्तदन्यविश्लेष० २६०
अर्थक्रियासमर्थं यत् १०० अर्थेन घटयत्येनां १६१
अर्थक्रियासमर्थस्य ३२१ अर्थेष्वप्रतिषिद्धत्वात् ३६८
अर्थग्रहः कथं सत्यम् २०५ अर्थैरेतः स शब्दानां ३२६
अर्थग्रहे सुखादीनां १७९ अर्थैरेव सहोत्पादे ३२६
अर्थज्ञापनहेतुर्हि ३२७ अर्थोऽयं नायमर्थो नः ३५५