प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 478, कुल 532 में से
संदर्भ में पढ़ें४५२ प्रमाणवार्त्तिके [ अनुपलब्धि-
विद्यमानेऽपि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ २६७ ॥
कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः ।
कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ २६८ ॥
कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् ।
हेतुभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ २६९ ॥
एकोपलम्भानुभवादिदं नोपलभे इति ।
बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥ २७० ॥
नियतभावस्, तथापि यदि क्वचित् भावव्यवहारः प्रवर्त्तते, तदानुपलब्धिभाव-
निमित्तत्वादन्यत्राप्यनुपलब्धौ सत्यां स प्रवर्त्तनीय इत्यर्थः ॥ २६६ ॥
अभावव्यवहारस्य विषये दृश्यादर्शने विद्यमानेऽपि केवलं मोहादसत्-
ज्ञानशब्दव्यवहाराननुब्रुवन् नानुवदन् परोऽसद्व्यवहारविषतया सिद्धेन घटेन
दृष्टान्तेन दृश्यादर्शनवत्तयाः साधर्म्यात् समयं व्यवहारं स्मार्यते । पूर्वमपि
त्वया दृश्यादर्शनमात्रकोऽसद्व्यवहारः प्रवर्त्तितः, तत्सद्भावादिहापि प्रवर्त्तय—इति
परः प्रतिपाद्यते ॥ २६७ ॥
दृष्टान्तमाह—कार्यकारणता दृष्ट्यदृष्टितो दर्शनादर्शनाभ्यामन्वयव्यति-
रेकग्राहकाभ्यां यद्वत् साध्यते । न हि वस्तुतो दर्शनादर्शनाभ्यामन्या कार्य-
कारणता । किन्तु तयोर्दर्शनादर्शनयोर्हि संक्षेपेण व्यवहाराय कार्यादिशब्दाः
कल्पिताः ॥ २६८ ॥
ततश्च कारणात् दृश्यादर्शनात् असज्ज्ञानशब्दव्यवहारकार्ययोग्यता-
संसिद्धिः स्वभावहेतावन्तर्गमान्न हेत्वन्तरम् । तेनेयं स्वभावानुपलब्धिर्हेतुना
प्रभेदस्याख्याने क्रियमाणे स्वभावहेतुनैव दर्शितोदाहृतिर्न पृथक् निर्दिष्टा
॥ २६९ ॥
भवतु तावद् दृश्यानुपलब्धेरसद्व्यवहारयोग्यतासिद्धिः, सैव तु कथं
सिध्यति ? इत्याह—एकज्ञानसंसर्गिण एकस्य प्रदेशस्योपलम्भानुभवात् स्व-
संवेदनानन्तरं घटादि नोपलभ्यते । इदं प्रदेशाद्युपलभ्यत इति कल्पिकाया