सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 473, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 473

विचारः ] परार्थानुमानपरिच्छेदः ४४७
एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः ।
द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि ॥ २५३ ॥
भिन्नाभिन्नः किमस्यात्मा भिन्नोऽथ द्रवता कथम् ।
अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ २५४ ॥
स्वस्य कारणात्मनो वहेः दृष्टौ तत् कारणत्वं गम्यते, तद्वत् साक्षाद् दर्शनाद्
कार्येऽपि धूमे दृष्टे तत्कारणे परोक्षमनुमानबुद्ध्या गम्यते, साक्षात् परम्परया
वा तदुत्पन्नेन ज्ञानेन प्रतीयमानस्य व्यभिचाराभावात् ॥ २५२ ॥
पर आह—न यद्येकमेकस्मादेव भवति, तदेकं कार्यं कथमनेकस्माद्
भवति । उदाहरणमाह–क्लेदवत् तण्डुलावयवशैथिल्यमिव, दुग्धाद् वारिणश्च
अग्निसहकारि दुग्धं वारि च स्वयं पृथक् तण्डुलादेर्विक्लेत्तिं जनयद् दृश्यते ?
सिद्धान्ती आह—अयुक्तमेतत्; अन्यो हि दुग्धेन जनितः क्लेदः, अन्यश्च
वारिणा; रसवीर्यपरिणामाकारभेदात् । तत् कथमेकस्मादनेकोत्पादः !
अथ सत्यप्यवान्तरभेदे विजातीयव्यावृत्त्या क्लेद एक उच्यते, तदा दुग्ध-
वारिणोर्यतो यस्या द्रवजनिकायाः शक्तेः क्लेदो जायते, सा शक्तिस्तु द्वयो-
रपि विजातीयव्यावृत्तेरेकैव । तत् कथमनेकस्मादेकोत्पत्तिः ॥ २५३ ॥
पर आह—यदि दुग्धस्य क्लेदजनकशक्त्यात्मतया वारिणा सहाभेद इष्यते,
तदा भिन्नाभिन्नोऽस्यात्मा किमभ्युपगन्तव्यः, शक्त्यात्मतयाऽभेदात्, आकार-
भेदाच्च भेदात् ?
उत्तरमाह—न भिन्नाभिन्न आत्मा, किन्तु भिन्न एव ।
कथं तर्हि द्वयोरपि द्रवताऽभिन्ना क्लेदहेतुरित्युच्यते; द्रवत्वस्याभेदात्,
अभेदोक्तिर्भेदोक्त्या विरुध्यते ?
यदि नाम स्वस्वभावस्थितत्वाद् भावानां भेद एव परमार्थिकः, तथापि
केचिद् भावा भिन्ना अपि स्वहेतुबलायातस्वरूपविशेषात् एककार्यकृत इति बुद्धे-
र्विकल्पिकायास्तद्रूपाया एकप्रत्यवमर्शकाराया अभेदतः कारणात् द्रवताक्लेद-
हेतुरभिन्नेत्युच्यते; तदेकव्यावृत्तिविषयस्यावसायस्यानुरोधात् । एकव्यवहारो